अध्याय २४९ - धनुर्वेदः
अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.
अग्निरुवाच
चतुष्पादं धनुर्वेदं वदे पञ्चविधं द्विज ।
रथनागाश्वपत्तीनां योधांश्चाश्रित्य कीर्त्तितं ॥१॥
यन्त्रमुक्तं पाणिमुक्तं मुक्तसन्धारितं तथा ।
अमुक्तं बाहुयुद्धञ्च पञ्चधा तत् प्रकीर्त्तितं ॥२॥
तत्र शस्त्रास्त्रसम्पत्त्या द्विविंधं परिकीर्त्तितं ।
ऋजुमायाविभेदेन भूयो द्विविधमुच्यते ॥३॥
क्षेपणी चापयन्त्राद्यैर्यन्त्रमुक्तं प्रकीर्त्तितं ।
शिलातोमरयन्त्राद्यं पाणिमुक्तं प्रकीर्त्तितं ॥४॥
मुक्तसन्धारितं ज्ञेयं प्रासाद्यमपि यद्भवेत् ।
खड्गादिकममुक्तञ्च नियुद्धं विगतायुधं ॥५॥
कुर्य्याद्योग्यानि प्रात्राणि योद्धुमिच्छुर्ज्जितश्रमः ।
धनुःश्रेष्ठानि युद्धानि प्रासमध्यानि तानि च ॥६॥
तानि खड्गजघन्यानि बाहुप्रत्यवराणि च ।
धनुर्वेदे गुरुर्विप्रः प्रोक्तो वर्णद्वयस्य च ॥७॥
युद्धाधिकारः शूद्रस्य स्वयं व्यापादि शिक्षया ।
देशस्थैः शङ्गरै राज्ञः कार्य्या युद्धे सहायता ॥८॥
अह्गुष्ठगुल्फपाण्यङ्घ्र्यः श्लिष्टः स्युः सहिता यदि ।
दृष्टं समपदं स्थानमेतल्लक्षणतस्तथा ॥९॥
वाह्याङ्गुलिस्थितौ पादौ स्तब्धजानुबलावुभौ ।
त्रिवतस्त्यन्तरास्थानमेतद्वैशाखमुच्यते ॥१०॥
हंसपङ्क्त्याकृतिसमे दृश्येते यत्र जानुनी ।
चतुर्वितस्तिविच्छिन्ने तदे तन्मण्डलं स्मृतं ॥११॥
हलाकृतिमयं यच्च स्तब्धजानूरुदक्षिणं ।
वितस्त्यः पञ्च चविस्तारे तदालीढं प्रकीर्त्तितं ॥१२॥
एतदेव विपर्य्यस्तं प्रत्यालीढमिति स्मृतं ।
तिर्य्यग्भूतो भवेद्वामो दक्षिणोऽपि भवेदृजुः ॥१३॥
गुल्फौ पार्ष्णिग्रहौ चैव स्थितौ पञ्चाङ्गुलान्त्रौ ।
स्थानं जातं भवेदेतद् द्वादशाङ्गुलमायतं ॥१४॥
ऋजुजानुर्भवेद्वामो दक्षिणः सुप्रसारितः ।
अथवा दक्षइणञ्जानु कुब्जं भवति निश्चलं ॥१५॥
दण्डायतो भवेदेष चरणः सह जानुना ।
एवं विकटमुद्दिष्टं द्विहस्तान्तरमायतं ॥१६॥
जानुनी द्विगुणे स्यातामुत्तानौ चरणावुभौ ।
अनेन विधियोगेन सम्पुटं परिकीर्त्तितं ॥१७॥
किञ्चिद्विवर्त्तितौ पादौ समदण्डायतौ स्थिरौ ।
दृष्टमेव यथान्यायं षोडशाङ्गुलमायतं ॥१८॥
स्वस्तिकेनात्र कुर्वीत प्रणामं प्रथमं द्विज ।
कार्मुकं गृह्य वामेन वामणं दक्षिणकेन तु ॥१९॥
वैशाखे यदि वा जाते स्थितौ वाप्यथवायतौ ।
गुणान्तन्तु ततः कृत्वा कार्मके प्रियकार्मुकः ॥२०॥
अधः कटिन्तु धनुषः फलदेशन्तु पत्रिणः ।
धरण्यां स्थापयित्वा त तोलयित्वा तथैव च ॥२१॥
भुजाब्यामत्र कुब्जाभ्यां प्रकोष्ठाभ्यां शुभव्रत ।
यस्य वाणं धनुः श्रेष्ठं पुङ्खदेशे च पत्रिणः ॥२२॥
विन्यासो धनुषश्चैव द्वादशङ्गुलमन्तरं ।
ज्यया विशिष्टः कर्त्तव्यो नातिहीनो न चाधिकः ॥२३॥
निवेश्य कार्मुकं नाभ्यां नितम्बे शरसङ्करं ।
उत्क्षिपेदुत्थितं हस्तमन्त्रेणाक्षिकर्णयोः ॥२४॥
पूर्वेण मुष्टिना ग्राह्यस्तनाग्रे दक्षिणे शरः ।
हरणन्तु ततः कृत्वा शीघ्रं पूर्वं प्रसारयेत् ॥२५॥
नाभ्यन्तरा नैव वाह्या नोद्र्ध्वका नाधरा तथा ।
न च कुब्जा न चोत्ताना न चला नातिवेष्टिता ॥२६॥
समा स्थैर्य्यगुणोपेता पूर्वदण्डमिव स्थिता ।
छादयित्वा ततो लक्ष्यं पूर्व्वेणानेन मुष्टिना ॥२७॥
उरसा तूत्थितो यन्ता त्रिकोणविनतस्थितः ।
स्रस्तांशे निश्चलग्रीवो मयूराञ्चितमस्तकः ॥२८॥
ललाटनासावक्त्रांसाः कुर्य्युरश्वसमम्भवेत् ।
अन्तरं त्र्यङ्गुलं ज्ञेयं चिवुकस्यांसकस्य च ॥२९॥
प्रथमन्त्रयङ्गुलं ज्ञेयं द्वितीये द्व्यङ्गुलं स्मृतं ।
तृतीयेऽङ्गुलमुद्दिष्टमायतञ्चिवुकांसयोः ॥३०॥
गृहीत्वा सायकं पुङ्खात्तर्ज्जन्याङ्गुष्ठकेन तु ।
अनामया पुनर्गृह्य तथा मध्यमयापि च ॥३१॥
तावदाकर्षयेद्वेगाद्यावद्वाणः सुपूरितः ।
एवं विधमुपक्रम्य मोक्तव्यं विधिवत् खगं ॥३२॥
दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद्वाणेन सुव्रत ।
मुक्वा तु पश्चिमं हस्तं क्षिपेद्वेगेन पृष्ठतः ॥३३॥
एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज ।
कर्पूरन्तदधः कार्य्यमाकृष्य तु धनुष्मता ॥३४॥
ऊद्र्ध्वं विमुक्तके कार्ये लक्षश्लिष्टन्तु मध्यमं ।
श्रेष्ठं प्रकृष्टं विज्ञेयं धनःशास्त्रविशारदैः ॥३५॥
ज्येष्ठस्तु सायको ज्ञेयो भवेद्द्वादशमुष्टयः ।
एकादश तथा मध्यः कनीयान्दशमुष्टयः ॥३६॥
चतुर्हस्तं धनुः श्रेष्ठं त्रयः साद्र्धन्तु मध्यमं ।
कनीयस्तु त्रयः प्रोक्तं नित्यमेव पदातिनः ॥३७॥
अश्वे रथे गजे श्रेष्ठे तदेव परिकीर्त्तितं ।
इत्यादिमहापुराणे आग्नेये धनुर्वेदो नाम ऊनपञ्जाशदधिकद्विशततमोऽध्यायः॥
N/A
References : N/A
Last Updated : September 20, 2020
TOP