अध्याय १६७ - अयुतलक्षकोटिहोमाः
अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.
अग्निरुवाच
श्रीशान्तिविजयाद्यर्थं ग्रहयज्ञं पुनर्वदे ॥१॥
ग्रहयज्ञोऽयुतहोमलक्षकोट्यात्मकस्त्रिधा ॥१॥
वेदेरैशे ह्यग्निकुण्डाद्ग्रहानावाह्य मण्डले ॥२॥
सौम्ये गुरुर्बुधश्चैशे शुक्रः पूर्वदले शशी ॥२॥
आग्नेये दक्षिणे भौमो मध्ये स्याद्भास्करस्तथा ॥३॥
शनिराप्येऽथ नैर्ऋत्ये राहुः केतुश्च वायवे ॥३॥
ईशश्चोमा गुहो विष्णुर्ब्रह्मेन्द्रौ यमकालकौ ॥४॥
चित्रगुप्तश्चाधिदेवा अग्निरापः क्षितिर्हरिः ॥४॥
इन्द्र ऐन्द्री देवता च प्रजेशोऽहिर्विधिः क्रमात् ॥५॥
एते प्रत्यधिदेवाश्च गणेशो दुर्गयानिलः ॥५॥
खमश्विनौ च सम्पूज्य यजेद्वीजैश्च वेदजैः ॥६॥
अर्कः पलाशः खदिरो ह्यपामार्गश्च पिप्पलः ॥६॥
उदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् ॥७॥
मध्वाज्यदधिसंमिश्रा होतव्याश्चाष्टधा शतम् ॥७॥
एकाष्टशतुरः कुम्भान् पूर्य पूर्णाहुतिन्तथा ॥८॥
वसोर्धारान्ततो दद्याद्दक्षिणाञ्च ततो ददेत् ॥८॥
यजमानं चतुर्भिस्तैरभिषिञ्चेत्समन्त्रकैः ॥९॥
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ॥९॥
वासुदेवो जगन्नाथस्तथा सङ्कर्षणः प्रभुः ॥१०॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ॥१०॥
आखण्डलोऽग्निर्भगवान् यमो वै नैर्ऋतस्तथा ॥११॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ॥११॥
ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु वः सदा ॥१२॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ॥१२॥
बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः कान्तिश्च मातरः ॥१३॥
एतास्त्वामभिषिञ्चन्तु धर्मपत्न्याः समागताः ॥१३॥
आदित्यश्चन्द्रमा भौमो बुधजीवशितार्कजाः ॥१४॥
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ॥१४॥
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥१५॥
ऋषयो मनवो गावो देवमातर एव च ॥१५
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसाङ्गणाः ॥१६॥
अस्त्राणि सर्वशास्त्राणि राजानो वाहनानि च ॥१६॥
औषधानि च रत्नानि कालस्यावयवाश्च ये ॥१७॥
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ॥१७
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये(१) ॥१८॥
अलङ्कृतस्ततो दद्याद्धेमगोन्नभुवादिकं ॥१८॥
कपिले सर्वदेवानां पूजनीयासि रोहिणि ॥१९॥
तीर्थदेवमयी यस्मादतःशान्तिं प्रयच्छ मे ॥१९॥
पुण्यस्त्वं शङ्ख पुण्यानां मङ्गलानाञ्च मङ्गलं ॥२०॥
विष्णुना विधृतो नित्यमतः शान्तिं प्रयच्छ मे ॥२०॥
धर्म त्वं वृषरूपेण जगदानन्दकारकः ॥२१॥
अष्टमूर्तेरधिष्टानमतः शान्तिं प्रयच्छ मे ॥२१॥
हिरण्यगर्भगर्भस्थं हेमवीजं विभावसोः ॥२२॥
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥२२॥
पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभं ॥२३॥
प्रदानात्तस्य वै विष्णुरतः शान्तिं प्रयच्छ मे ॥२३॥
विष्णुस्त्वं मत्स्यरूपेण यस्मादमृतसम्भवः ॥२४॥
चन्द्रार्कवाहनो नित्यमतः शान्तिं प्रयच्छ मे ॥२४॥
यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसन्निभा ॥२५॥
सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे ॥२५॥
यस्मादायसकर्माणि तवाधीनानि सर्वदा ॥२६॥
लाङ्गलाद्यायुधादीनि अतः शान्तिं प्रयच्छ मे ॥२६॥
यस्मात्त्वं स्सर्वयज्ञानामङ्गत्वेन व्यवस्थितः ॥२७॥
योनिर्विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे ॥२७॥
गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ॥२८॥
यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च ॥२८॥
टिप्पणी
१ धर्मकामार्थसिद्धये इति ख..
यस्मादशून्यं शयनं केशवस्य शिवस्य च ॥२९॥
शय्या ममाप्यशून्यास्तु दत्ता जन्मनि जन्मनि(१) ॥२९॥
यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः ॥३०॥
तथा शान्तिं प्रयच्छन्तु रत्नदानेन मे सुराः ॥३०॥
यथा भूमिप्रदानस्य कलां नार्हन्ति षोडशीं ॥३१॥
दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह ॥३१॥
ग्रहयज्ञोऽयुतहोमो दक्षिणाभी रणे जितिः ॥३२॥
विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मषु ॥३२॥
सर्वकामाप्तये लक्षकोटिहोमद्वयं मतं ॥३३॥
गृहदेशे मण्डपेऽथ(२) अयुते हस्तमात्रकं ॥३३॥
मेखलायोनिसंयुक्तं कुण्डञ्चत्वार ऋत्विजः ॥३४॥
स्वयमेकोऽपि वा लक्षे सर्वं दशगुणं हि तत् ॥३४॥
चतुर्हस्तं द्विहस्तं वा तार्क्षञ्चात्राधिकं यजेत् ॥३५॥
सामध्वनिशीरस्त्वं वाहनं पमेष्ठिनः ॥३५॥
विषयापहरो नित्यमतः शान्तिं प्रयच्छ मे ॥३६॥
पूर्ववत्कुण्डमामन्त्र्य लक्षहोमं समाचरेत् ॥३६॥
वसोर्धारां ततो दद्याच्छय्याभूषादिकं ददेत् ॥३७॥
तत्रापि दश चाष्टौ च लक्षहोमे तथर्त्विजः ॥३७॥
पुत्रान्नराज्यविजयभुक्तिमुक्त्यादि(३) चाप्नुयात् ॥३८॥
दक्षिणाभिः फलेनास्माच्छत्रुघ्नः कोटिहोमकः ॥३८॥
टिप्पणी
१ तथा जन्मनि जन्मनीति ङ..
२ गृहादौ मण्डपे वाथेति ख.. । गृहादौ मण्डपे चैवमिति ञ..
३ पुत्रार्थराज्यविजयभुक्तिमुक्त्यादीति ख.. , ङ.. च
चतुर्हस्तं चाष्टहस्तं कुण्डन्द्वादश च द्विजाः ॥३९॥
पञ्चविंशं षोडशं वा पटे द्वारे चतुष्टयं ॥३९॥
कोटिहोमी सर्वकामी विष्णुलोकं स गच्छति ॥४०॥
होमस्तु ग्रहमन्त्रैर्वा गायत्र्या वैष्णवैरपि ॥४०॥
जातवेदोमुखैः शैवैः(१) वैदिकैः प्रथितैरपि ॥४१॥
तिलैर्यवैर्घृतैरश्वमेधफलादिभाक् ॥४१॥
विद्वेषणाभिचारेषु त्रिकोणं कुण्डमिष्यते ॥४२॥
समिधो वामहस्तेन श्येनास्थ्यनलसंयुताः ॥४२॥
रक्तभूषैर्मुक्तकेशैर्ध्यायद्भिरशिवं रिपोः ॥४३॥
दुर्मित्रियास्तस्मै सन्तु यो द्वेष्टि हुं फडिति च ॥४३॥
छिन्द्यात्क्षुरेण प्रतिमां पिष्टरूपं रिपुं हनेत्(२) ॥४४॥
यजेदेकं पीडकं वा यः स कृत्वा दिवं व्रजेत् ॥४४॥
इत्याग्नेये महपुराणेऽयुतलक्षकोटिहोमा नाम सप्तषष्ट्यधिकशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : September 18, 2020
TOP