मानसारम् - भूमिलम्बविधानम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
भूमिलम्बविधिं वक्ष्ये शास्त्रे संक्षेपतः क्रमात् ॥१॥
चतुरश्रमायताश्रं वर्तुलमायतं तत्
अष्टाश्रमायतं वा द्व्यश्रवृत्तं तथैवोत्तरम् ॥२॥
एतद्विन्यासभेदं वा क्षयवृद्धिविधानकम्
उक्तं हि भूमिलम्बं स्यादेकान्तभूमिकम् ॥३॥
द्विकरं त्रिकरं चादौ द्विद्विकरेण वृद्धिः क्रमेण
दशनव हस्तान्तं स्यात्पञ्चचतुर्विस्तारमेकतले ॥४॥
एतेषु क्षुद्र मानं मध्यमं पञ्चषड्ढस्तमारभ्य
एकादशार्कहस्तान्तं द्विद्विहस्तेन वृद्धिः कथिता ॥५॥
एतत्तु पञ्चविपुलं युग्मयुग्मेन चोत्तमं वक्ष्ये
षट्सप्तकरं चादौ द्विसप्तपञ्चत्रयकरान्तं च ॥६॥
एते पञ्चधा विपुलं श्रेष्ठान्तमेकतलं कथितम्
विशालद्वयोत्तुङ्गं सोपानादिस्तूपिकान्तं स्यात् ॥७॥
एव कनिष्ठहर्म्ये तन्त्रविद्भिः पुरातनैः कथितम्
विशाले चतुरंशं त्रियं शाधिकमुत्सेधम् ॥८॥
पूर्वमध्यमहर्म्यं चैकभूमिकमिदमुक्तम्
विशालार्धाधिकमुत्सेधमुत्कृष्टहर्म्यमेकतले ॥९॥
अथवा तत्र मौन्यंशे त्र्! यंशाधिकमुत्कृष्टमुत्सेधम्
क्षुद्रो त्सेधस्य माने तु हीनाधिकं वाधितं स्यात् ॥१०॥
पञ्चधोत्सेधमुत्कृष्टं मानात्पञ्चविधं नाम
शान्तिकं पौष्टिकं श्रेष्ठं पार्ष्णिकं मध्यमाने तु ॥११॥
हीनं तु यत्तद्द्विगुणं चाद्भुतं कथितम्
कराधिकोदयहर्म्ये सर्वकामिकमुदीरितम् ॥१२॥
पञ्चषट्करमारभ्य द्विद्विहस्तेन वर्धयेत्
त्रिदशकरान्तं च चतुर्दशकरान्तं पञ्चधा विपुलम् ॥१३॥
द्वितलं हर्म्यं स्यादेतत्क्षुद्र मानमिदमुदितम्
रसमुनिकरमादौ वर्धनाद्द्विद्विहस्तेन ॥१४॥
मनुपञ्चादशहस्तान्तं पञ्चधाविपुलं मध्यमं चेति
मुनिवसुकरमारभ्य तिथिकरषोडशकरालयं स्यात् ॥१५॥
द्वितलहर्म्ये मुख्यैरेतत्कथितम्
पञ्चधा विपुलं शान्तिकं पौष्टिकात्मजम् ॥१६॥
पञ्चात्मिकाद्भुतं सार्वकामिकं क्रमतः
उत्सेधं पञ्चधा विपुलात्प्रागुक्तांशेनैव कुर्यात् ॥१७॥
वसुनवकरमारभ्य वर्धयेद्द्विद्विहस्तेन
षोडशसप्तदशान्तं विस्तारमेतत्पञ्चधा कथितम् ॥१८॥
नवदशकरमारभ्य सप्ताष्टाधिकदशकरान्तं स्यात्
द्विहस्तेन वर्धयेत्प्रोक्तं पञ्चधाविपुलमेतत् ॥१९॥
दशमेकादशकरमादौ च वर्धनाद्द्विद्विहस्तेन
एतत्तु पञ्चधाविपुलं त्रितले हर्म्ये त्रिविधाः कथिताः ॥२०॥
क्षुद्रं मध्यममुत्कृष्टं क्रमतस्तुङ्गं पूर्ववत्कुर्यात्
नवरुद्र त्रयोदशतिथिसप्तदशपञ्चधा विपुलम् ॥२१॥
क्षुद्रं चतुस्तलमुक्तं द्विगुणं त्रिविधं विपुलात्
दशरविमनुहस्तं षोडशमष्टादशहस्तं तत् ॥२२॥
पञ्चधाविपुलं हस्तयुग्मे युगतलं पूर्ववदुत्सेधम्
एकादशरविहस्तं त्रयोदशमनुतिथिहस्तम् ॥२३॥
षोडशसप्तदशहस्तं चाष्टादशैकोनविंशतिश्च
युग्मायुग्महस्तेन पञ्चधा विपुलं मध्यमं चेति ॥२४॥
पौष्टिकमुत्सेधमुदितं विपुलादेवं चतुस्तले प्रोक्तम्
अर्कत्रयोदशहस्तं मनुतिथिषोडशहस्तं च ॥२५॥
सप्तदशाष्टादशतः नवपङ्क्तिर्विंशत्येकविंशश्च
द्वाविंशस्त्रयोविंशश्चतुर्विंशत्पञ्चषड्विंशहस्तं च ॥२६॥
एवं तु पञ्चधाविपुलं चतुस्तले चोत्कृष्ट शान्तिकोत्सेधम्
एकादशकरमादावेकहस्तेन वर्धयेद्युक्त्या ॥२७॥
षडाधिकं तु पञ्चाशद्धस्तान्तं पञ्चधा विपुलम्
एवं क्षुद्र पञ्चतलोत्सेधं जयान्तिकं त्रितलम् ॥२८॥
द्वादशकरमारभ्य हस्तैकेन पूर्ववद्वृध्यात्
एक षष्टि करसंयुक्तं शतहस्तान्तं पञ्चधा विपुलम् ॥२९॥
एवं मध्यमं पञ्चतले पौष्टिकमुत्सेधमिदमुदितम्
सैकार्ककरमादावेकसप्ततिशतहस्तं च ॥३०॥
एतद्धर्म्यविस्तारमुत्कृष्टं पञ्चतले कथितम्
इदं शान्तिकमुदयमथवा पौष्टिकमुत्सेधमिति ॥३१॥
मनुहस्तं त्वेकवृद्धेनैकाशीति हस्तान्तमेतत्
षड्भूमिहर्म्यके क्षुद्रं विपुलं तत्पञ्चधा कथितम् ॥३२॥
उत्सेधं सर्वकाम्योक्तमथवा द्विगुणमुदितम्
पञ्चादशकरमादौ चैककं हस्तमाधिक्यम् ॥३३॥
चतुर्विंशतिहस्तान्तं विपुलं पञ्चकमिति कथितम्
समभवनजय मुदितमुदितं जयतामुदितम् ॥३४॥
षोडशकरमारभ्य चैकैकं हस्तमाधिक्यम्
पञ्चविंशतिपर्यन्तं हस्तं पञ्चधा विपुलमिति ॥३५॥
षट्तलमथमिदमुदितं चोक्तवद्धर्म्यं शान्तिकोत्सेधम्
अथवा पौष्टिमुत्सेधं प्रोक्तं शिल्पविद्वद्भिः ॥३६॥
सप्तदशकरमादौ षड्विंशश्चान्तं पूर्ववद्वृध्यात्
अष्टादशकरमादौ पूर्ववद्वृध्यात् त्रिनवहस्तान्तम् ॥३७॥
एकोनविंशद्धस्तादौ चाष्टविंशद्धस्तपर्यन्तम्
एतत्तु पञ्चविपुलं क्षुद्रं मध्यममुत्कृष्टं सप्ततले ॥३८॥
शान्तिकं पौष्टिकं जयदं चाद्भुतमुत्तुङ्गं सार्वकामिकम्
तेषां चोत्तममादीनं प्रत्येकं विपुलवशात्क्रमतः ॥३९॥
नवविंशत्करमादौ त्रयस्त्रिंशत्करपर्यन्तम्
त्रिंशतिहस्तं चादौ चतुस्त्रिंशतिहस्तपर्यन्तम् ॥४०॥
एकत्रिंशतिहस्तौ पञ्चत्रिंशतिहस्तपर्यन्तम्
पञ्च पञ्च विपुलं कनीयसादि त्रिविधमुत्सेधम् ॥४१॥
एतदष्टतलमुदितं चोदयं शान्तिकादि पूर्ववत् संयुक्तम्
द्वात्रिंशत्करमारभ्य षट्त्रिंशत्करान्तकम् ॥४२॥
पूर्ववद्वृध्या त्रयस्त्रिंशत्करमारभ्य सप्तत्रिंशकरपर्यन्तम्
चतुस्त्रिंशद्धस्तादौ चाष्टत्रिंशान्तं चैककरैर्वृध्यात् ॥४३॥
नवतले त्रिपञ्चविधं वैपुलं कन्यसादिश्रेष्ठं प्रवक्ष्यते
पूर्ववत्तुंङ्गमुदितं शान्तिकादिशरभेदमेतत् ॥४४॥
त्रयत्रिंशत्करमादौ चत्वारिंशद्द्वयाधिकम्
चतुस्त्रिंशतिहस्तादि त्रिचत्वारिंशद्धस्तपर्यन्तम् ॥४५॥
पञ्चत्रिंशद्धस्तादौ चतुश्चत्वारिंशद्धस्तपर्यन्तम्
एवं दशतलहर्म्यं पञ्चादशविपुलं प्रोक्तम् ॥४६॥
शान्तिकाद्युक्तं क्रमतः कन्यसादुत्तमान्तं कथितम्
चतुस्त्रिंशद्धस्तादौ त्रिचत्वारिंशद्धस्तपर्यन्तम् ॥४७॥
पञ्चत्रिंशत्करमारभ्य चतुश्चत्वारिंशत्करपर्यन्तम्
षट्त्रिंशत्करविपुलात्पञ्चचत्वारिंशद्धस्तपर्यन्तम् ॥४८॥
एकादशतलं हर्म्ये क्षुद्रा दिपञ्चदशविपुलं स्यात्
पूर्ववत्पञ्चधोत्सेधं जन्मादिस्तूपिकान्तं स्यात् ॥४९॥
भूतस्तिंशद्धस्तादि वेदाधिक्यं चत्वारिंशद्धस्तान्तम्
षट्षड्ढस्तमारभ्य पञ्चचत्वारिंशद्धस्तपर्यन्तम् ॥५०॥
सप्तत्रिंशतिहस्तादि षडधिकाष्टापञ्चहस्तान्तम्
पञ्चदशविपुलं प्रोक्तं क्रमात्पूर्ववत्पञ्चधोत्सेधम् ॥५१॥
क्षुद्रं मध्यममुत्कृष्टं रवितलमेतत्तन्त्रवित्कुर्यात्
एतज्जातिवशात्प्रोक्तं छन्दादीनां शान्तिकोत्सेधम् ॥५२॥
क्रमतस्त्रिपादमर्धकरं पादं चेदं संकल्पमाभासमिदम्
क्षुद्र मध्यमादुत्कृष्टं क्रमात्पूर्ववद्धस्तसंख्येन ॥५३॥
एवं त्रिविधमानेन हर्म्य संकल्प्य तन्त्रविधिज्ञैः
उत्तुङ्गपूर्वकादि पूर्ववत्क्रमतः ॥५४॥
द्विगुणपादमाधिक्यमथवार्धाधिक्यमुत्तुङ्गम्
शान्तिकायशक्रमुत्तुङ्ग त्रिपादमाधिक्यमुच्छ्रयं वापि ॥५५॥
पौष्टिकोत्तुङ्गमानं विभजेदष्टभागमेवं स्यात्
तस्मात्र्! यंशमाधिक्यं द्वित्र्! यंशादधिकं वाथ ॥५६॥
एतेषां सर्वमुत्तुङ्गं जात्यादिहर्म्यमिदमुदितम्
देवतालयानां नृपाणां शालागोपुरे वमुत्तुङ्गम् ॥५७॥
शान्तिकादिशरभेदं विस्तृतोत्सेधं गण्यं क्रमतः
एतद्विपरीतं चेत्कर्ता च मरणं भवति ॥५८॥
तस्माद्घर्म्यतुङ्गात् परिहृत्य शिल्पिभिस्तन्त्रैः
नृणां शालानां तु सर्वेषां तदुत्सेधम् ॥५९॥
गोपुराणां तु सर्वेषां शिरोन्तं शिखान्तकम्
द्वारशालासममुत्तुङ्गं द्वितीयं चान्तं शिखान्तं वा ॥६०॥
द्वारशोभसमुत्सेधमन्योत्तरान्तं वा शिखान्तं चैव
शान्तिकात्पौष्टिकादेतं विधं गोपुरोत्तुङ्गं स्यात् ॥६१॥
अथवा हर्म्यमानेन विष्वग्भूमानं वक्ष्यते क्रमतः
षट्पञ्चहस्तमारभ्य वृद्ध्या द्वित्रिहस्तेन ॥६२॥
सत्रिचतुर्नवत्यन्तं कन्यसादित्रयं त्रयं मानम्
एतद्द्वादशभूम्यन्तं जन्मादिपूर्वेहकान्तं स्यात् ॥६३॥
जन्मादिहस्तमेवोक्तं शान्तिकाद्यंशके भेदमुत्तुङ्गम्
एकादिद्विभूम्यन्तं कल्पग्रामस्य हर्म्यके भवति ॥६४॥
एकादित्रिभूम्यन्तं प्राहारकस्य चालयं प्रोक्तम्
एकादिचतुस्तलान्तं पट्टभाक् चालयमिति कथितम् ॥६५॥
त्रितलाद्यष्टतलान्तं नरेन्द्र स्य चालयं प्रोक्तम्
त्रितलादिनवतलान्तं महाराजस्य भवनमुदितम् ॥६६॥
पञ्चतलाद्यर्कान्तं चक्रवर्तिहर्म्यं स्यात्
एकादित्रितलान्तं युवराजस्य चालयं प्रोक्तम् ॥६७॥
सामन्तप्रमुखानां चैकादित्रितलपर्यन्तं स्यात्
क्षुद्र भूपस्य सर्वेषामेकादित्रितलभूमिपर्यन्तम् ॥६८॥
स्थपतिस्थापकानां तु गभस्तिकादिकं तु यूषकानां च
द्विजातिशराणां तु एकद्वित्रितलपर्यन्तम् ॥६९॥
उग्रैवजयिनां चैव शालैकद्वित्रितलपर्यन्तम्
गजाश्वादिशालानां तलमेकं कर्तव्यं प्रोक्तम् ॥७०॥
देवानामपि सर्वेषां हर्म्यैकाद्यन्तं भूपतीनां चैव
अन्यसर्वजातीनां नवतलं कुर्यात्तदालयं प्रोक्तम् ॥७१॥
क्षुद्रा लयमेवोक्तं क्षुद्रा त्क्षुद्र मानसंयुक्तम्
क्षुद्र देवालयं सर्वं पूर्ववज्जानादिकमिदमुदितम् ॥७२॥
मण्डपं नवतलं कुर्याद्भवनमन्यरङ्गं वाधिमण्डपाकारम्
एतत्तु भूमिलम्बं पुराणैः सर्वैस्तन्त्रवित् प्रोक्तम् ॥७३॥
इति मानसारे वास्तुशास्त्रे भूमिलम्बविधानं नाम एकादशोऽध्यायः
N/A
References : N/A
Last Updated : October 02, 2022
TOP