संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
शालाविधानम्

मानसारम् - शालाविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


सुराणां भूसुराणां च वर्णानां वासयोग्यकम्
सर्वासामपि शालानां लक्षणं वक्ष्यतेऽधुना ॥१॥

दण्डकं स्वस्तिकं चैव मौलिकं च चतुर्मुखम्
सर्वतोभद्र कं चैव वर्धमानं च षड्विधम् ॥२॥

त्रिहस्तं तु समारभ्य द्विद्विहस्तविवर्धनात्
त्रयोविंश करान्तं स्यादेकादशविशालकम् ॥३॥

युग्महस्तविधानेन चतुर्हस्तं समारभेत्
चतुर्विंश करान्तं स्याद् द्विद्विहस्तंविवर्धनात् ॥४॥

एवमेकादशं प्रोक्त चैकशालाविशालता
सप्तहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ॥५॥

नवपङ्क्तिकरान्तं स्यात्सप्तधा विस्तृतं भवेत्
अष्टहस्तं समारभ्य विंशद्धस्तावसानकम् ॥६॥

द्विद्विहस्तप्रवृद्धेन कारयेत् शिल्पिकोत्तमः
विस्तृतं सप्तधा चैव स्वस्तिकं मौलिकं तथा ॥७॥

विस्तार द्विद्विहस्तेन वर्धनाद् द्विगुणान्तकम्
देवानां च तपस्वोनां शालादीर्घं प्रकीर्तितम् ॥८॥

द्विगुणां चायताः शाला भूसुरादिचतुष्टये
शालाविशालतारभ्य पादाद्यर्धं त्रिपादकम् ॥९॥

तत्समं वाधिकायामं तस्मात्पादाधिकं तु वा
त्रिपादं वा समाधिक्यं शालायामं प्रकल्पयेत् ॥१०॥

तद्विस्तारसमोत्तुङ्गं सपादार्धं तु तुङ्गकम्
त्रिपादाधिकमुत्सेधं विस्तारं द्विगुणोदयम् ॥११॥

प्रथमं शान्तिकोत्सेधं द्वितीयं पौष्टिकोदयम्
तृतीयं जयदोत्तुङ्गं चतुर्थं धनदोदयम् ॥१२॥

पञ्चमं चाद्भूतोत्सेधं जन्मादिस्तूपिकान्तकम्
अन्यैस्तु सर्वशालानां भित्तिमानेन विस्तृतम् ॥१३॥

आदिभूमेश्च पादादिषट्सप्ताष्टनवांशकम्
दशांशेन विहीनं स्यादूर्ध्वं चोर्ध्वतलोदयम् ॥१४॥

अध्यर्धं प्रस्तरोत्सेधं चार्धेनैवोर्ध्ववेदिका
तद्द्वयं ग्रीवतुङ्गं स्याद् ग्रीवतुङ्गद्वयं शिरः ॥१५॥

मस्तकार्धं शिखोत्तुङ्गमुत्सेधमिति कथ्यते
देवानां भूसुराणां च भूपानां वैश्यशूद्र योः ॥१६॥

तपस्विनामाश्रमिणां च हस्त्यश्वरथयौधिनाम्
वौद्धानां यागहोमादिशिल्पिनां गणिकादिनाम् ॥१७॥

एकशाला द्विशाला च त्रिशालाश्च चतुर्मुखम्
पूर्वोक्ततैतलानां च द्विजात्यदिषु योग्यकम् ॥१८॥

एकानेकतलान्तं स्याच्चूलिहर्म्यादिमण्डितम्
प्रासादवदलङ्कृत्य देवभूसुरभूपतेः ॥१९॥

चूलिहर्म्यं विना कुर्याद् वैश्यशूद्रा दिजन्मनाम्
शालायाः परितोऽलिन्द्रं पृष्ठतो भद्र संयुतम् ॥२०॥

पुरतो मण्डपोपेतं सर्वालङ्कारसंयुतम्
एवं तु मानुषाणां च तैतलानां च कारयेत् ॥२१॥

शालामध्ये च देवानां वासं कुर्याद् विचक्षणः
शालायाः पार्श्वतो वासं द्विजात्यादिषु सर्वशः ॥२२॥

शालायामे तु वासं च वंशमूले तु योजयेत्
गृहिणीनां तु शालायां सव्यवासं प्रकल्पयेत् ॥२३॥

उक्तानां सर्वजातीनां दण्डकं तु चतुर्दिशि
पूर्वे वा दक्षिणे वापि पश्चिमे दण्डकं न्यसेत् ॥२४॥

एवं चामात्ययोग्यं स्यान्नोदग्द्वारं महीभृताम्
दक्षिणे पश्चिमे शालायुक्तं स्वस्तिकमेव च ॥२५॥

तदेवान्यासु सर्वेषु दिक्षु शालां विना न्यसेत्
पूर्वे वा दक्षिणे वापि पूर्वे वा चोत्तरेऽपिवा ॥२६॥

पश्चिमे चोत्तरे वापि स्वस्तिकं च विनाशकम्
पूर्वे च दक्षिणे स्यञ्च याम्ये प्रत्यक् तथोत्तरे ॥२७॥

शालासंयोगमेवं स्यान्मौलिकं तदुदीरितम्
पूर्वैश्च चोत्तरे प्रत्यगुदक् पूर्वे च दक्षिणे ॥२८॥

अज्ञानेन त्रिशालेषु योगं चेत्सर्वदोषदम्
सर्वेषां गणिकादीनां शाला स्वस्तिकमेव च ॥२९॥

अध्यक्षाणां तु सर्वेषां कल्पयेन्मौलिकाख्यकम्
सर्वेषामपि शालानां दण्डकादित्रयान्तकम् ॥३०॥

शालानां प्रमुखे कुर्याद् द्वारं कुड्यादि चोक्तवत्
चतुर्दिक्षु चतुःशाला संयुक्तं तच्चतुर्मुखम् ॥३१॥

तदेव पुरतो देशे मौल्यन्तरालसंयुतम्
तदेव बहुभद्रं स्यात्सर्वतोभद्र मीरितम् ॥३२॥

दण्डकादि चतुःशाला संयोग्यं वर्धमानकम्
दण्डकं च पृथक्र्शाला चैकशालापर्याख्यकम् ॥३३॥

लाङ्गलं स्वास्तिकं चैव द्विशाला च पर्याख्यकम्
मौलिकं दीपकं चैव त्रिशाला च परिकीर्तिता ॥३४॥

चतुर्मुखं चतुःशाला चैवमुक्तानि पण्डितैः
सप्तशाला विशेषेण सर्वतोभद्र मीरितम् ॥३५॥

दशशाला च सर्वेषां वर्धमानमुदीरितम्
एकशालानसन्धिश्च द्विशाला चैकसन्धिकम् ॥३६॥

त्रिशाला च द्विसन्धिः स्यात् चतुःसन्धि चतुर्मुखम्
षट्सन्धिः सप्तशाला च बहुसन्धिदशशालयम् ॥३७॥

चतुःशाल वर्धमानान्तं कुर्यात्तु सर्वभूमिकम्
अधिराजनरेन्द्रा णां सर्वतोभद्र कान्तकम् ॥३८॥

पार्ष्णिकादिञ्च भूपानां दण्डकादिचतुष्टयम्
दण्डकादि त्रिशालान्तं कुर्यात्पट्टधरे तथा ॥३९॥

मण्डलेशादिभूपानां दण्डकादिस्वस्तिकान्तकम्
केचित्त्रिविधमौलीनां सर्वशाला च योग्यकम् ॥४०॥

दण्डकादिक्रमात् शालाविन्यासं वक्ष्यतेऽधुना
पूर्वे च पश्चिमे शाला प्रत्यक् प्रागालयं तु वा ॥४१॥

उत्तरे याम्यशालायां सौम्यशालां च दक्षिणे
अतश्चाथ चतुर्दिक्षु तत्तच्छालां प्रकारयेत् ॥४२॥

पूर्वशाला च एकं च तद्द्वारं पश्चिमे भवेत्
दण्डकं दक्षिणे शाला तद्द्वारं चोत्तरे दिशि ॥४३॥

एकशाला यथाप्रत्यक् तद्द्वारं प्राग्दिशस्तथा
उदक् दण्डकशालानां कुर्याद् द्वारं तु दक्षिणे ॥४४॥

विस्तारमेकभागं वा चेष्टभागायते तथा
यथेष्टदेशे तत्कुर्यात् शालालिन्द्र मुदीरितम् ॥४५॥

इष्टदीर्घितपादं स्यात्कुड्य पादसमन्वितम्
पुरतः पादयुक्तं वा पृष्ठे कुड्यं प्रकारयेत् ॥४६॥

प्राकारान्तर्बहिर्वापि वेदिकाद्यैरलङ्कृतम्
एतत्तु दण्डकं प्रोक्तं प्राकारादिवमायतम् ॥४७॥

विस्तारे चैकभागेन द्विभक्त्यायाममीरितम्
ललाटे द्वितयस्योर्ध्वे दण्डखण्डितवद् भवेत् ॥४८॥

पण्डिशालाख्यकं प्रोक्तमेतत्सर्वजनार्हकम्
तत्पुरेलिन्द्र संयुक्तं भिन्दशाला प्रकीर्तितम् ॥४९॥

विस्तारे द्व्यंशकं कृत्वायामे चैवं त्रिभागिकम्
मूले शाला विशालं स्यात्पुरतो वारमंशकम् ॥५०॥

मुखशालाविनेत्रे च वासमेकैकभागिकम्
परितो वारमेकांशं द्विललाटं तु पूर्ववत् ॥५१॥

मध्ये द्वारं तु संयुक्तं मुखे चैकतलान्वितम्
एवं तु देवतायोग्यं दण्डकान्तमुदीरितम् ॥५२॥

द्विचतुर्भागविस्तारमायामं तत्प्रकल्पयेत्
शालाविशालतांशेन तत्पूर्वेऽलिन्द्र मंशकम् ॥५३॥

एकद्विंशेन वासं स्यात्यथामूलं तु योजयेत्
अथवा द्विद्विभागेन वासं तद्वंशमूलके ॥५४॥

वंशाग्रे रङ्गसंयुक्तं तत्पुरे लिन्दं भागतः
अथवा मध्ये प्रतिष्ठाने त्यक्तवासद्वयं न्यसेत् ॥५५॥

अन्तर्वासं बहिर्वासं द्वार मध्यं तु वामके
अथवा चायतार्धेन मध्ये कुड्यं च कल्पयेत् ॥५६॥

द्वारं तत्कुड्यपार्श्वे तु वासमेत द्वयं भवेत्
एतत्तु दण्डकं प्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥५७॥

सर्वेषामपि जातीनां सर्वकामार्थयोग्यकम्
द्विचतुर्भागविस्तारमायामं तत्प्रकल्पयेत् ॥५८॥

मुखशाला विशाला च चतुर्भागं तथायतम्
पुरतोऽलिन्द्र मेकांशं भित्तिं कुर्यात्समन्ततः ॥५९॥

मूलाग्रे द्विद्विभागेन वासरङ्गं च कल्पयेत्
अथवा चैकद्विभागेन वास वंशाग्रंमूलयोः ॥६०॥

कुर्यात्तु मध्यमे रङ्गं पृष्ठे पार्श्वे च भित्तिकम्
पूर्वे च स्तम्भसंयुक्तं मध्ये स्तम्भान्परित्यजेत् ॥६१॥

परितो द्वारमेकांशं दण्डकं परिकीर्तितम्
शेषं प्रागुक्तवत्कुर्यात्सर्वजात्यार्हकं भवेत् ॥६२॥

चतुःषड्भागविस्तारं आयामं तत्प्रकल्पयेत्
मध्ये च द्विचतुर्भागं शालाविस्तारमायतम् ॥६३॥

एकद्विद्विविभागं वा वासं वा चैकवासयुक्
वंशमूलाग्रयोर्वासं वंशमूलैकवासकम् ॥६४॥

तद्बहिः पुरतोऽलिन्दमेकभागेन कारयेत्
तद्बहिः परितः कुड्यं युक्तं वाङ्घ्रियुतं तु वा ॥६५॥

तद्बहिर्भित्तियुक्तं चेत्परितॐऽशेनालिन्दकम्
एकद्विंशेन भद्रं स्यान्निर्गमं विस्तृतं भवेत् ॥६६॥

चतुर्दिक् भद्र संयुक्तं द्विललाटं तु पूर्ववत्
द्वितलं कर्णहर्म्यादि प्रासादवदलङ्कृतम् ॥६७॥

अथवा शालकूटादीन् विनालिन्देन भूषितम्
मध्यसूत्रं तु वामे तु द्वारं कुर्याद्विचक्षणः ॥६८॥

केचिच्छाला विभागं स्यात्पुरतोऽलिन्द भगतः
यथेष्टदिग्वासयुक्तं शेषं प्रागुक्तवन्नयेत् ॥६९॥

एतत्तु दण्डकं प्रोक्तं देवभूसुरभूपतेः
तदेव परितोऽलिन्दं विना सर्वं जनार्हकम् ॥७०॥

तस्माद् द्विंशाधिकायामं विस्तारं पूर्ववद् भवेत्
वंशमूलाग्रयोर्वासं चतुर्भागेन कारयेत् ॥७१॥

तद्द्वयोर्मध्यरङ्गं स्याच्चतुर्भागेन योजयेत्
पुरतः पृष्ठतोऽलिन्दं ततश्चैकद्विभागिकम् ॥७२॥

शेषं तु पूर्ववत्कुर्याद् दण्डकं सर्वजातिनाम्
पञ्चसप्तांशविस्तारमायामं तत्प्रकल्पयेत् ॥७३॥

मध्ये पञ्चांशकं वापि पार्श्वयोर्द्विद्विभागतः
कुर्यान्मण्डपं शेषं च पुरतः पृष्ठलिन्दकम् ॥७४॥

तत्तद्बाह्यावृतांशेन द्वारं भद्रं द्विभागिकम्
कूटकोष्ठादिसर्वाङ्गं प्रासादवदलङ्कृतम् ॥७५॥

एवं तु दण्डकं प्रोक्तं देवानां वासयोग्यकम्
षड्भक्तिविस्तृतायाममष्टभागेन योजयेत् ॥७६॥

त्रिचतुर्द्व्यंशकं वापि मध्ये रङ्गं प्रकल्पयेत्
पृष्ठतोऽलिन्दकं कुर्यादेकद्व्यंशेन मेव वा ॥७७॥

पुरतोऽलिन्द्र भागं स्याद्वासयुग्म युगांशकम्
वंशमूलाग्रयोर्वासं मध्ये रङ्गं न्यसेद् बुधः ॥७८॥

अथवा तच्चतुष्कर्णे वासं तं तं द्विभागतः
अथवा द्विललाटे च निवासत्रयमेव च ॥७९॥

परितो द्वारमेकांशं कुर्याद् द्व्यंशेन मेव च
मध्यसूत्रात् तु वामे तु द्वारं कुर्याद् विचक्षणः ॥८०॥

एकानेकतलोपेतं प्रासादवदलङ्कृतम्
एतत्तु दण्डकं प्रोक्तं सर्वजात्यर्हकं भवेत् ॥८१॥

दण्डकानां च सर्वेषां प्रमुखे मण्डपं न्यसेत्
विस्तारं तत्समं वापि द्विगुणं त्रिगुणं तु वा ॥८२॥

यथेष्टांशेन परितो मण्डपं मध्यमाङ्गणम्
मुखे वासविशालं स्यात्तत्समं पृष्ठभद्र कम् ॥८३॥

तदर्धं निर्गमं वापि भद्र वासवशान्न्यसेत्
मण्डपस्य वशाद् भद्रं तन्मुखे कर्करीकृतम् ॥८४॥

शालाया दण्डकायामे नवभाग विभजिते
गृहस्य दक्षिणे पञ्चभागं वामे गुणांशकम् ॥८५॥

तद्द्वयोर्मध्यदेशे तु द्वारं कुर्याद् विचक्षणः
सर्वेषामपि शालाश्च कर्तु राश्यानुवर्जयेत् ॥८६॥

ग्रहणं दण्डकाः शाला गृहिणी चानुकूलकम्
मेषस्य मीनकुम्भस्य पूर्वस्य दक्षिणे शुभम् ॥८७॥

कुलीराक्षमिथुनस्य दक्षिणे पश्चिमालयम्
नौलिसिंहस्य कन्यायाः पश्चिमे चोत्तरे शुभम् ॥८८॥

ग्राहवृश्चिकचापस्य प्रागुदग्दिशि रालयम्
न कुर्यादेकशालाश्च शुभमन्यैः पुरोक्तवत् ॥८९॥

एवं राशिवशाच्छाला दण्डकं तदुदीरितम्
एकशालाश्चतुर्दिक्षु गृहारम्भमिहोच्यते ॥९०॥

कुम्भे च मकरे पूर्वे मेषे च वृषभे यमे
सिंहकर्कटके प्रत्यक् वृश्चिके तौलि चोत्तरे ॥९१॥

गृहारम्भमिति प्रोक्तं सुमुहूर्ते सुलग्नके
अन्यथा सर्वशालाश्च यथामासे समारभेत् ॥९२॥

अन्यानुक्तचतुर्मासे सर्वहर्म्यान्न कारयेत्
चतुर्दिक्षु वास्तुपुरुषं चतुर्भागेन योजयेत् ॥९३॥

यन्माने सर्वहर्म्यं च कारयेत्तु शुभावहम्
विदिग् वास्तुपुरुषं चेत्सर्वहर्म्यं न कारयेत् ॥९४॥

वास्तुभूतयथाहर्म्ये विपरीते विपत्करम्
तस्मात्तु वास्तुशयनं ज्ञापयेद् वक्ष्यतेऽधुना ॥९५॥

यथादिक्षु स्थितादित्यो तद्दिक्षु चरणायतम्
तत्पृथ्वीशिरः क्षिप्यं चाधो वामकं तथा ॥९६॥

तद्दक्षिणभुजं चोर्ध्वे पुरुषं शयनं स्मृतम्
गृहायामे तथारामे गृहवाराहशालकम् ॥९७॥

गृहायामेषु भागे तु पादाद् वेदांश चोर्ध्वके
एकांशं कुक्षिदेशं स्याद् वेदान्तं मध्यदेशके ॥९८॥

मेढ्रादि तलसीमान्तं वेदांशं पाददीर्घकम्
मेढ्रादूर्ध्वे च वेदान्तमेकांशं तत् शिरायतम् ॥९९॥

मूर्धादधः शिवांशे तु हृदयस्थानमीरितम्
हृदयात्कुक्षियोर्मध्ये मध्यकायं प्रकथ्यते ॥१००॥

विस्तारमध्यसूत्रं तु मुखद्वारवशाद् विदुः
ज्ञापयेद् वास्तुपुरुषं विन्यसेत् सर्वहर्म्यके ॥१०१॥

एतत्तु दण्डकं प्रोक्तं स्वस्तिकं वक्ष्यतेऽधुना
विस्तारे वसुभागे तु दशभागायतं भवेत् ॥१०२॥

पूर्वोक्तालङ्कृतं ज्ञात्वा भागमानेन विन्यसेत्
पञ्चसप्तांश विस्तारमायामं पुरतोऽङ्गणम् ॥१०३॥

तत्पार्श्वेऽलिन्द्र मंशेन स्वस्तिकाकारसंयुतम्
तद्द्विपार्श्वे द्विशालाश्च द्विभागेन विशालता ॥१०४॥

तद्द्वयोर्मध्यके वासं द्विद्विभागेन नैरृते
वंशानां चाग्रयोर्देशे द्विद्विभागेन कोष्ठकम् ॥१०५॥

तद्बहिश्चावृतांशेन कुर्याद् भूवृतालिन्दकम्
एकद्विंशेन भद्रं स्यात्कर्णेषु कर्करीकृतम् ॥१०६॥

द्विशालाग्रे तु वक्त्रं स्यादेकद्विंशेन निर्गमम्
अङ्गणे प्रतिपार्श्वे तु कुड्यद्वारं तु संयुतम् ॥१०७॥

शालायामे विशाले वा द्वारं कुर्यात्पूर्ववत्
एकानेकतलोपेतं नैरृत्ये तु विचक्षणः ॥१०८॥

एवं तु स्वस्तिकं प्रोक्तं पूर्वोक्तानां तु योग्यकम्
दशभागं विशाले तु चायामं द्वादशांशकम् ॥१०९॥

द्विशालाविस्तृतं चैव त्रिभागेनैव कारयेत्
पूर्ववत्पुरतोऽलिन्दं त्रिभागेनैव विशालता ॥११०॥

वासनात् त्रित्रिभागं स्यात् शेषं प्रागुक्तवन्नयेत्
एवं तु स्वस्तिकं प्रोक्तं मौलिकं वक्ष्यतेऽधुना ॥१११॥

दशभागविशाले तु द्विभागायाममधिकम्
त्रिशालामध्यदेशे तु वेदांशं विस्तृताङ्गणम् ॥११२॥

आयामं चाष्टभागं स्यादंशेनावृतालिन्दकम्
तत्पृष्ठपार्श्वयोश्चैव द्विंशं शालाविशालकम् ॥११३॥

द्विद्विभागेन वासं स्यात्कर्णयोश्च द्वयं त्रिकम्
तद्बहिः परितोऽलिन्दमेकद्विंशेन मेव वा ॥११४॥

षड्वक्त्रं च समं तारं चैकद्व्यंशेन निर्गमम्
एकानेक तलोपेतमङ्गणे नैरृत्यवायवे ॥११५॥

एवं तु मौलिकं कुर्यात्पूर्वोक्तानां तु योग्यकम्
द्वादशांश विशाले तु तस्माद् द्व्यंशाधिकायतम् ॥११६॥

पुरतः पृष्ठभागे तु कुर्यादंशेनालिन्दकम्
शालाकारं त्रिभागं वा पुरतो द्वारदण्डकम् ॥११७॥

शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम्
सैकार्कभागविस्तारमध्यर्धां शेनायतं तथा ॥११८॥

पञ्चभागदशांशेन विस्तारायामतोऽङ्गणम्
तद्बहिः परितॐऽशेन वारं शालाद्वयांशकम् ॥११९॥

तत्पृष्ठपार्श्वयोरलिन्दं चैकभागेन कारयेत्
शालाकारं त्रिभागं वा त्रित्रिभागेन मण्डपम् ॥१२०॥

शालानां मध्यमे वासं तत्त्रिभागेन कारयेत्
सन्ध्ययोश्चाग्रयोश्चैव मण्डपं स्याच्चतुर्विधम् ॥१२१॥

वासं च त्रयसंयुक्तं बहिर्वारवृतांशकम्
मध्ये द्वारं प्रकर्तव्यं पञ्चद्विंशेन भद्र कम् ॥१२२॥

पृष्ठे च पार्श्वयोर्मध्ये युक्त्या भद्रं तु योजयेत्
कर्णैकभद्रं स्यात् शालाग्रे नेत्रभद्र कम् ॥१२३॥

कर्णहर्म्यादिसंयुक्तं प्रासादवदलङ्कृतम्
एकानेकतलोपेतं वास वासोपरि न्यसेत् ॥१२४॥

एतत्तु मौलिकं प्रोक्तं देवतानां च योग्यकम्
तदेव कोणे चाग्रे तु वासमध्ये तु मण्डपम् ॥१२५॥

एवं तु चक्रवर्त्रीनां कुर्यादालयं विदुः
एवं तु मौलिकं प्रोक्तं वक्ष्यते चतुरालयम् ॥१२६॥

विस्तारे दशभागे तु चायामे द्वादशांशकम्
द्विचतुर्भाग तन्मध्ये विस्तारायामतोऽङ्गणम् ॥१२७॥

तद्बहिश्चावृतांशेन नन्द्यावर्तं चालिन्दकम्
तद्बहिश्च चतुःसाला तत्पूर्वादिक्रमान्न्यसेत् ॥१२८॥

प्रागुदक्दक्षिणायाम दक्षिणे च ललाटकम्
याम्ये प्राक्प्रत्यगायामं पश्चिमे तु ललाटकम् ॥१२९॥

पश्चिमे याम्युदक्दीर्घं तद्वक्त्रं च तथोत्तरे
उदक् प्राक् पश्चिमे दीर्घं तस्य नेत्रं तु पूर्वके ॥१३०॥

तत्तच्छालाविशाले तु तदंशेन गुणांशकम्
पूर्वे च पश्चिमे शाला तत्तद्दीर्घं षडंशकम् ॥१३१॥

दक्षिणे चोत्तरे शाला चाष्टांशं च तथायतम्
एवमेतच्चतुःशाला दण्डकाकृतिसंयुतम् ॥१३२॥

तद्बहिः परितो वारं चैकद्व्यंशेन मेव च
एकद्वित्रिद्वियोगं वा नेत्रविस्तारनिर्गमम् ॥१३३॥

तत्तच्छाला द्विनेत्रं स्याद्बहिर्नेत्रैकनिर्गमम्
चतुर्नेत्रं बहिः पश्येत्तस्मादेवं चतुर्मुखम् ॥१३४॥

अधिष्ठानादिवर्गाढ्यं प्रासादवदलङ्कृतम्
एकानेकतलोपेतं सर्वालङ्कारसंयुतम् ॥१३५॥

एवं चतुर्मुखं प्रोक्तं नन्द्यावर्ताकृतिर्भवेत्
द्वादशांश विशाले तु मनुभागं तथायतम् ॥१३६॥

चतुःषड्भागविस्तारमायामं मध्यमाणङ्गम्
तद्बहिश्चावृतांशेन पूर्ववत्तदलिन्दकम् ॥१३७॥

दीर्घशाला दशांशं स्याद्ध्रस्वशाला यमांशकम्
विस्तारं पूर्ववत्कुर्यादथवा त्र्! यंशालिन्दकम् ॥१३८॥

शेषं प्रागुक्तवत्कुर्याद् देवानां तु चतुर्मुखम्
तद्विस्तारायते भागं तस्माद् द्व्यंशाधिकं बुधः ॥१३९॥

द्व्यंशेनालिन्दविस्तारं सर्वं कुर्यात्पूर्ववत्
यथेष्टावास संकल्प्य चेष्टदिक् चान्तरालके ॥१४०॥

अन्तःशाला यथाद्वारं दण्डकस्योक्तवत्कुरु
एतच्चतुर्मुखं प्रोक्तं पूर्वोक्तानां तु संमतम् ॥१४१॥

सर्वतोभद्र विन्यासं लक्षणं वक्ष्यतेऽधुना
समाश्रं सर्वतोभद्रं चाष्टभागं विभाजिते ॥१४२॥

मध्याङ्गणं चतुर्भागं चांशेनावृतालिन्दकम्
परितो द्व्यंशेन शाला च चतुर्वाससमन्वितम् ॥१४३॥

द्विचतुर्भागविस्तारमायामं वा समीरितम्
चतुष्कोणे चतुर्भक्ति मण्डपं तु चतुष्टयम् ॥१४४॥

तत्तद्बाह्यावृतांशेन कुर्याद् भ्रमालिन्दकम्
चतुर्दिक्षु चतुर्द्वारं युक्तं भद्रं चतुष्टयम् ॥१४५॥

वेदद्व्यंशेन विस्तारं निर्गमं चापि भद्र कम्
ऊर्ध्वभूमिं समारुह्य कर्णे सोपानमंशके ॥१४६॥

प्रच्छादनाङ्गणं कुर्यान्न प्रच्छादनमेव वा
एकानेकतलोपेतं पूर्ववत्समलङ्कृतम् ॥१४७॥

कर्णहर्म्यादिसंयुक्तं प्रासादवदलङ्कृतम्
एतत्तु सर्वतोभद्रं पूर्वोक्तानां तु संमतम् ॥१४८॥

पूर्ववद्विस्तृतायामे दशभाग विभाजिते
वेदवेदांशकं मध्ये विवृतं संवृताङ्गणम् ॥१४९॥

तद्बहिश्चावृतांशेन कर्करीसमलङ्कृतम्
शेषं तु पूर्ववत्कुर्यात्सर्वतोभद्र मीरितम् ॥१५०॥

शाला च वर्धमानं च लक्षणं वक्ष्यतेऽधुना
नवपङ्किकरारभ्य द्विद्विहस्तविवर्धनात् ॥१५१॥

सनन्दविंशत्र्! यंशं च हस्तान्तं रुद्र संख्यया
एतत्तु विस्तृतं प्रोक्तं द्विगुणान्तं पूर्ववदिति ॥१५२॥

आयाममिति तत्प्रोक्तमुत्सेधं पूर्ववद् भवेत्
विस्तारे दशभागे तु द्वादशांशं तथायतम् ॥१५३॥

द्विचतुर्भागविस्तारमायामं मध्यमाङ्गणम्
तद्बाह्ये परितोऽलिन्दं द्वयद्व्यंशेन मेव वा ॥१५४॥

तद्बाह्ये परितः शालाविस्तारं तद्विभागिकम्
तत्समेनावृतालिन्दं तद्बहिः परिकल्पयेत् ॥१५५॥

ईशे चैकतलं कुर्यादाग्नेये द्वितलं भवेत्
वायव्ये त्रितलं कुर्यान्नैरृत्ये पञ्चभूमिकम् ॥१५६॥

याम्ये च पश्चिमे चैव दण्डकं च चतुःस्थलम्
पूर्वे च चोत्तरे मध्ये दण्डकं चैकभूमिकम् ॥१५७॥

चतुष्कोणे द्विभागेन गृहविस्तारदीर्घकम्
पूर्वे च द्विद्विभागेन मुखमण्डपमीरितम् ॥१५८॥

पश्चिमे तत्समं कुर्यान्मण्डपं तत्प्रकल्पयेत्
दक्षिणे चोत्तरे मध्ये द्विचतुर्भागेन मण्डपम् ॥१५९॥

शेषं तु चावृतालिन्दं कुर्यात्तत्पञ्जरान्वितम्
द्विचतुर्भागविस्तारं पार्श्वयोर्भद्र संयुतम् ॥१६०॥

पृष्ठे च द्व्यैकभागेन भद्रं कुर्याद् विचक्षणः
पूर्वे च द्विचतुर्भागं मुखद्वारं तु सयुतम् ॥१६१॥

सर्वेषां भद्र पार्श्वे तु पूर्वे चैकेनालिन्दकम्
सोपपीठमधिष्ठानं पादादीन् प्रस्तरान्वितम् ॥१६२॥

कर्णहर्म्यादिवर्गाढ्यं चान्तरं प्रस्तरान्वितम्
कूटकोष्ठादिसर्वाङ्गं नासिकापञ्जरान्वितम् ॥१६३॥

कुम्भकुम्भतलैर्युक्तं तोरणादिविभूषितम्
सर्वेषां मकरालाना सर्वालङ्कारसंयुतम् ॥१६४॥

शिरोग्रीवशिखायुक्तं नासिकावेदिकान्वितम्
एवं तु वर्धमानं स्यात् क्षत्रियाणां तु योग्यकम् ॥१६५॥

विशाले द्वादशांशं स्यात्तस्माद् द्व्यंशाधिकायतम्
चतुःषड्भाग विस्तारमायामं दक्षिणोत्तरे ॥१६६॥

एकशालाकृतिं कुर्यात्पञ्चभूमि त्रिभूमिकम्
अनलानिलकोणे तु कुर्यात्तत्तु त्रिभूमिकम् ॥१६७॥

पश्चिमे द्विचतुर्भागशालापञ्चतलान्वितम्
पूर्वे च द्विचतुर्भगं मण्डप चैकभूमिकम् ॥१६८॥

ईशाने चैकभूमिं स्यात्प्रासादवदलङ्कृतम्
नैरृत्ये सप्तभूमि स्यात्कूटकोष्ठादि पूर्ववत् ॥१६९॥

तन्मध्ये भद्र संयुक्तं भागैकायामनिर्गमम्
एकेन कर्णकूटं स्याच्चतुष्कोणे तु मण्डितम् ॥१७०॥

कूटे च भद्र योर्मध्ये हारांशं मध्यमेन तु
अधिष्ठानादिवर्गाढ्यं कर्णहर्म्यादिमण्डितम् ॥१७१॥

प्रासादवदलङ्कृत्य शेषं प्रागुक्तवन्नयेत्
एकशाला द्विपार्श्वे च भद्रा शैं!र्वेदभागिकम् ॥१७२॥

पृष्ठे च द्विचतुर्भागं भद्रं कुर्याद्विचक्षणः
अथवा चाष्टभागेन भद्रं युक्त्या प्रयोजयेत् ॥१७३॥

षड्भागद्व्यंशमेवं वा शालाकारं तु पृष्ठतः
चतुःषड्भागविस्तारमायामं मुखवारणम् ॥१७४॥

पुरतः पार्श्वयोश्चैव चैकभागेनालिन्दकम्
द्विचतुर्भाग तन्मध्ये मण्डपाकार कल्पयेत् ॥१७५॥

मुखे सोपानसंयुतं सर्वालङ्कारसंयुतम्
युक्त्या भद्रं तु सर्वाङ्गं चोर्ध्वे चोर्ध्वतलान्वितम् ॥१७६॥

पादोर्ध्वे पादसंयुक्तं भित्त्यूर्ध्वे भित्तिसंयुतम्
पादोर्ध्वे भित्तियुक्तं चेत्सर्वदोषं समुद्भवेत् ॥१७७॥

कुड्यस्योपरि पादैश्च कृत्वा सर्वं शुभावहम्
सर्वावयवसंयुक्तं सर्वालङ्कारसंयुतम् ॥१७८॥

एवं सप्ततलं वर्धमानं शेषं तु पूर्ववत्
विस्तारे मनुभागे तु षोडशांशं तदायतम् ॥१७९॥

पूर्ववच्चाङ्गण शाला तदंशाधिकं भद्र कम्
नैरृत्ये नवभूमिः स्याद्युक्त्या चान्यानि योजयेत् ॥१८०॥

सर्वालङ्कारसंयुक्तं प्रासादवदलङ्कृतम्
मध्यसूत्रात् तु वामे तु मध्ये वा द्वारसंयुतम् ॥१८१॥

पूर्वद्वारं यथा वर्धमानं शाला प्रकल्पयेत्
एवं नवतलं वर्धमानं कुर्यात्तु भूपतेः ॥१८२॥

षोडशांशे विशाले तु विभजेद् द्व्यंशाधिकायतम्
तद्भागेन द्विभागं स्याच्छाला शेषं तु पूर्ववत् ॥१८३॥

नैरृत्ये रुद्र भूमिः स्यात्त्रितलं चैशकोणके
पावके वायवे चैव कुर्यात्तु पञ्चभूमिकम् ॥१८४॥

दक्षिणे सप्तभूमिः स्यादुत्तरे पञ्चभूमिकम्
पश्चिमे सप्तभूमिः स्यात्पूर्वे च द्वितलं भवेत् ॥१८५॥

एवमेकादशतलं वर्धमानमिति स्मृतम्
शेषं तु पूर्वत्कूर्यात्सर्वालङ्कारसंयुतम् ॥१८६॥

तदेव विस्तृतायामे चैकभागाधिकं तथा
पञ्चसप्तांशं विस्तारमायामं मध्यमाङ्गणम् ॥१८७॥

शेषं तु पूर्ववत्कुर्यान्नैरृत्ये रविभूमिकम्
ईशे पञ्चतलं कुर्यात्पावके सप्तभूमिकम् ॥१८८॥

वायव्ये चाष्टभूमिः स्यात्सप्तभूमिमथापि वा
दक्षिणे पश्चिमे मध्ये कुर्यान्नवतलं तथा ॥१८९॥

वर्धमानं तु सर्वेषां प्राक्प्रत्यक् गतायतम्
पार्श्वे दण्डकमाकारं कुर्याद् भूमि तले तले ॥१९०॥

आदिभूमि यथाकार वास वासोपरि न्यसेत्
द्वार द्वारोपरि न्यस्तं तस्माद् द्वारं समं तथा ॥१९१॥

द्वारस्योपरि कूड्यं चेत्सर्वसंपद्विनाशनम्
स्तम्भकुड्यं च रङ्गं स्यात्स्तम्भयुक्तं चालन्दकम् ॥१९२॥

वासगर्भगृहं चैव मध्यस्तम्भान्परित्यजेत्
कुड्यसंयुक्तमेवान्तं मानं प्रागुक्तवन्नयेत् ॥१९३॥

तले तले च वासं चेत्प्रस्तरस्योपरि न्यसेत्
गृहकोष्ठादिमानानां जलस्थालिन्दमानकम् ॥१९४॥

महाद्वारो महाभद्रं मण्डपाकृति विन्यसेत्
कुर्यात्तदुक्तवद्युक्त्या चोपद्वारं तु योजयेत् ॥१९५॥

विविधं च यथेष्टदिग्देशे चेष्टदिग्गतिभित्तिकम्
तले तले तु सोपानमारुह्यार्थं प्रयोजयेत् ॥१९६॥

अन्यान्यनुक्तं सर्वेषां शास्त्रयुक्त्या समाचरेत्
एवं रवितलं वर्धमानमुक्तं पुरातनैः ॥१९७

एवं प्रोक्तं तु शालानामायादिर्वक्ष्यतेऽधुना
दीर्घे चायं व्ययं ऋक्षं योनिः स्यात्तु विशालके ॥१९८॥

परिणाह तिथिर्वारं गृहशेषं तु पूर्ववत्
कुर्यद्धर्म्यविधानोक्तं क्षयवृद्ध्यङ्ग सर्वशः ॥१९९॥

सर्वे शाला नासिकातोरणाद्यैः
पत्रैश्चित्रैः किम्बरीवक्त्रयुक्तम्
कुर्यान्नानालङ्कृतं नैकभूमौ
श्रीसौभाग्यारोग्यभोग्यप्रदायि ॥२००॥

इति मानसारे वास्तुशास्त्रे शालाविधानं नाम पञ्चत्रिंशोऽध्यायः

N/A

References : N/A
Last Updated : October 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP