मानसारम् - उत्तमदशतालविधानम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
उत्तमं दशतालस्य लक्षणं वक्ष्यतेऽधुना
भूर्धादिपादपर्यन्तं तुङ्गमानं प्रशस्यते ॥१॥
चतुर्विंशच्छतं कृत्वा तथैवांशेन मानयेत्
उष्णीषात्केशपर्यन्तं चतुर्मात्रं प्रशस्यते ॥२॥
केशान्तादिहन्वन्तं सैकार्कांशं मुखायतम्
अर्धांशं गलमानं स्याद् वेदांशं गलतुङ्गकम् ॥३॥
गलान्ताद्धृदयान्तश्च उदरं नाभिसीमकम्
नाभेस्तु मेढ्रसीमान्तं सार्धत्रयोदशांशकम् ॥४॥
मेढ्रान्तमूरुदीर्घं स्यात् सप्तविंशाङ्गुलं भवेत्
जानुतुङ्गं युगाङ्गुल्यं जङ्घा चोरुसमायतम् ॥५॥
पादजानुसमोत्तुङ्गं मुखायामं त्रिधा भवेत्
अक्षिसूत्रावसानं च तस्याधो तत्पदान्तकम् ॥६॥
हिक्कासूत्रादधो बाहुदीर्घमृक्षाङ्गुलं भवेत्
कूर्परं च द्विमात्रं स्यान्मणिबन्धावसानकम् ॥७॥
प्रकोष्ठमेकविंशांशं दीर्घं तस्य तलायतम्
मध्याङ्गुल्याग्रपर्यन्तं सार्धत्रयोदशांशकम् ॥८॥
तन्मध्यमङ्गुलायामं सार्धं षडङ्गुलं भवेत्
शेषं चान्तस्तलायामं पाद सप्तदशांशकम् ॥९॥
अङ्गुष्ठात्पार्ष्णिपर्यन्तं तद्दीर्घाङ्गुष्ठ मायतम्
सपादवेदाङ्गुलं प्रोक्तं तदर्धं विस्तृतं भवेत् ॥१०॥
तदर्धं नखविस्तारं तत्पादोनायतं तथा
नखं वृत्तायतं चैव चांशं तन्मुखं मांसलम् ॥११॥
नखं तत्पार्श्वयोश्चैव शेषं तु तत्समाङ्गुलम्
यवहीनार्धवेदांशं तर्जनीदीर्घकं भवेत् ॥१२॥
पादहीनं चतुर्भागं मध्यमाङ्गुलमायतम्
सयवत्र्! यंशकं चैवानामिकायाममिष्यते ॥१३॥
अर्धांशकद्वयाङ्गुल्यं कनिष्ठाङ्गुलदीर्घकम्
यवाधिक्यांशकं सार्धं यवहीनांशकं तथा ॥१४॥
यवाधिकं त्रिपादं च त्रिपादं तद्यथाक्रमम्
प्रादेशिन्यादि कनिष्ठान्तं विस्तारं तत्प्रशस्यते ॥१५॥
स्वस्वतारार्धविस्तारं नखं प्रागुक्तवद् भवेत्
गुल्फाक्षिं मध्यसूत्र तु तलग्रान्तं तलायतम् ॥१६॥
षड्यवाधिकमष्टांशं तत्सूत्रात्पार्ष्णिमूलकम्
वेदांशं चायतं तारं यवोपेतशरांशकम् ॥१७॥
पक्षात्पार्ष्णिकपर्यन्तं वह्न्यर्धांशकमायतम्
पार्ष्णिमूलं षडंशं स्याद् गुल्फाधो तत्प्रदेशके ॥१८॥
तलमध्यमविस्तारं षडंशं यड्यवाधिकम्
अग्रतारं षडंशं तु तद्घनं च त्रयाङ्गुलम् ॥१९॥
पादमध्योच्छ्रयं सार्धवेदमात्रं प्रशस्यते
अङ्गुलीनां द्विपर्वं स्याच्छेषं युक्त्या प्रयोजयेत् ॥२०॥
सपादभूताङ्गुलं चैव गुल्फतारमिति स्मृतम्
सपादवेदाङ्गुलं चोर्ध्वे नालिकाविस्तृतं भवेत् ॥२१॥
जङ्घामध्ये च विस्तारं सार्धषण्मात्रं मानयेत्
जङ्घामूलस्य विस्तारं वसुमात्रं प्रशस्यते ॥२२॥
नवाङ्गुलं प्रकर्तव्यं जानुदेशविशालकम्
ऊरुमध्यविशालं तु द्वादशाङ्गुलमीरितम् ॥२३॥
सार्धत्रयोदशांशं स्यादूरुमूलविशालकम्
विंशांशं च कटितारमूर्ध्वे श्रोणि विशालकम् ॥२४॥
सार्धमष्टादशाङ्गुल्यं मध्योदरविशालकम्
षोडशांशं भवेच्चोर्ध्वे हृदयावधितारकम् ॥२५॥
सार्धद्विनवमात्रं स्याद् वक्षस्थलविशालकम्
एकविंशाङ्गुलं चोर्ध्वे कक्षयोरन्तरस्थलम् ॥२६॥
द्वाविंशांशकं चोर्ध्वे चत्वारिंशार्धमात्रकम्
बाहुपर्यन्तविस्तारं बाहुमूलविशालकम् ॥२७॥
नवांशं ग्रीवविस्तारं तत्समं तद् विधीयते
मुखविस्तारं भान्वंशं पुरस्तस्मात्प्रदेशके ॥२८॥
केशान्तोपरि माने तु शिरोतारं दशाङ्गुलम्
केशान्तान्नेत्रसूत्रान्तं द्विभागं तद् विभाजिते ॥२९॥
तदेकांशं ललाटोच्चं शेषं दृष्टिप्रदेशकम्
दृष्टिभालद्वयोर्मध्ये सुभ्रूस्थानं प्रकल्पयेत् ॥३०॥
भ्रुवायामं शराङ्गुल्यं भ्रुवतारमर्धमात्रकम्
तदर्धं मध्यता स्थान्मूलाग्रान्तं क्षयं क्रमात् ॥३१॥
भ्रुवयोरन्तरायान्तं पादांशं षड्यवांशकम्
नेत्रायामं त्रिमात्रं स्याद् विस्तारं तच्छिवांशकम् ॥३२॥
नेत्रयोरन्तरं मध्ये द्विमात्रं तत्प्रशस्यते
त्रिंशैकद्वयपञ्चैव नेत्रमूर्धाग्ररक्षयोः ॥३३॥
शेषमभ्यन्तराक्षिः स्यात्तत्त्रिभाग विभाजिते
कृष्णमण्डलमेकांशे शेषं तच्छ्वेतमण्डलम् ॥३४॥
कृष्णमण्डलसंकाशं ज्योतिर्मण्डलमंशकम्
कृष्णमण्डलमध्ये तु ज्योतिर्मण्डलकं विदुः ॥३५॥
नेत्रमध्ये तथा कृष्णज्योतिरन्तांशकमंशकम्
दृष्टिमण्डलमेवोक्तं ज्योतिर्मण्डलमध्यमे ॥३६॥
ऊर्ध्वाधो वर्मविस्तारं द्व्यङ्गुलार्धं त्रिमात्रकम्
मत्स्याकाराक्षिमात्रं स्याद् भ्रुवः कोदण्डवत्सुधीः ॥३७॥
श्रोत्रायामं तु वेदांशं नालायाममर्धमधिकम्
भ्रूमध्यसमं श्रोत्रमग्रमेवं प्रकल्पयेत् ॥३८॥
पिप्पल्यायामविस्तारं तदर्ध विस्तृतं भवेत्
नालान्तरं त्रिमात्रं स्यात्तदर्धं श्रोत्रवद् घनम् ॥३९॥
श्रोत्रतारं द्वियर्धांशं शेषमूह्यं विचक्षणः
नेत्रान्तात्कर्णसीमान्तं द्व्यन्तरं सप्तमात्रकम् ॥४०॥
द्व्यर्धांशं नास्य विस्तारमग्रमेकाङ्गुलं भवेत्
पुटतारार्धमात्रं स्यात्तद्दीर्घं षड्यवं भवेत् ॥४१॥
सुषिरं चार्धमात्रं स्यात्तारं पञ्चयवं भवेत्
पुष्करोत्सेधमंशं स्याद् विस्तारं तद्द्वयं भवेत् ॥४२॥
एकांशं द्वयमाधिक्यं नासिमध्यं तु विस्तृतम्
तदर्धं मूलविस्तारं तुङ्गमेवं यथाक्रमम् ॥४३॥
गोजिमूलं तदग्रान्तं नासितुङ्गं द्वयाङ्गुलम्
पुष्करं स्यादधोगोजि दीर्घं चतुर्यवं भवेत् ॥४४॥
निम्नं तु यवं चैव विस्तारं त्रियवं तथा
तस्मात्तथोत्तरा पालि यवमेवं विधीयते ॥४५॥
तस्याधश्चोत्तरोष्ठं च तारं षड्यवं भवेत्
आहृत्वार्धयवं चैव तद्वायाधारयुक् ॥४६॥
अधरोष्ठं शिवांशं स्याद् विस्तारं चोन्नतसमम्
अस्यायामं चतुर्मात्रमसृत्त्कान्तं तु कारयेत् ॥४७॥
त्रियंशार्धाधरायामं चार्धं चन्द्र वदाकृति
त्रिवक्त्रं चोत्तरा पाली चान्तरैश्चैव संयुतम् ॥४८॥
द्वयं तत्तद्विस्तारं तत्समं चायतविस्तृतम्
अधरोर्ध्वं तु दन्तं च तद् द्व्यत्रिंशत्तु दन्तकम् ॥४९॥
अधरस्याधोदेशे चिबुकायाः शिवांशकम्
शेषं यच्चान्तरमुत्सेधं हन्वन्तं तत्प्रदेशके ॥५०॥
हन्वन्तं विस्तृतं ज्ञात्वा सार्धवह्न्यङ्गुलं भवेत्
हन्वन्तं कर्णबन्धान्तं द्वयान्तरं दशाङ्गुलम् ॥५१॥
हन्वन्तरद्वयोर्मध्ये निम्नतुङ्गं शिवायतम्
हन्वन्तायतवृत्तं स्याद् विस्तारार्धसमं भवेत् ॥५२॥
द्वियवाधिकमंशं च हन्वन्ताद् गोजि तद् भवेत्
हन्वन्तं मध्यमूले तु गले तद् द्वयमात्रकम् ॥५३॥
एवं तु गलमानं स्यात्तदर्धं निर्गमं बुधैः
नयन तत्त्रित्रिपादं च ललाटे नेत्रमानकम् ॥५४॥
अथवा तत्त्रिपादं च चार्धं वाथ त्रिधा भवेत्
संहारं च स्थितिः सृष्टिर्दृष्टिरेवं शिवस्य च ॥५५॥
नवत्यष्टरोमदृष्टिनन्दं ध्यात्वा शिल्पिवित्तमः
ग्रीवरोम यथा कृत्वा तस्य मानं न योजयेत् ॥५६॥
यथा युक्त्या तथा वक्त्रे कुर्यात्तु तत्प्रदेशके
द्वियवाधिकमष्टांशं बाहुमध्यमविस्तृतम् ॥५७॥
कूर्परं तद् विशालं स्यात्सप्तमात्रं प्रशस्यते
प्रकोष्ठमध्यविस्तारं यवोपेतशरांशकम् ॥५८॥
मणिबन्धविशालं तु सार्धवह्न्यङ्गुलं भवेत्
तत्तले मूलविस्तारं सप्तमात्रं तु कारयेत् ॥५९॥
तन्मध्यमविशाले तु सार्धषण्मात्रकं भवेत्
तलादग्रतारमर्धमाधिक्यं पञ्चाङ्गुलं विधीयते ॥६०॥
बहिः सार्धषडङ्गुल्यं मणिबन्धा तलायतम्
तस्मात्तु चाङ्गुलानां च दीर्घं युक्त्या तद्बहिर्भवेत् ॥६१॥
पुरोक्तानां तत्तद्दीर्घमङ्गुलीनां तत्तदायतम्
सपादोपेतवेदांशं चानामिकाङ्गुलदीर्घकम् ॥६२॥
प्रादेशिन्यायाम भूतांशं स वेदाङ्गुष्ठकनिष्ठकम्
अङ्गुष्ठमूलविस्ता सपादाङ्गुलमेव च ॥६३॥
तर्जन्यनामिमूले तु विस्तारं तच्छिवांशकम्
मध्यमाङ्गुलिमूले तु विशालं स्यात्त्रियंशकम् ॥६४॥
षड्य तत्कनिष्ठे तु विशालं तस्य मूलके
तत्तद्द्विरष्टभागे तु तदेकांशविहीनकम् ॥६५॥
शेषाङ्गुल्यग्रविस्तारं विभजेत्त्रियंशकम्
द्विभागं नखविस्तारं शेषं तु तद् द्विपार्श्वयोः ॥६६॥
अङ्गुलं नखविस्तारे चतुर्भागैकमधिकम्
नखायाममिति चाग्रं द्वियवं तत्प्रशस्यते ॥६७॥
तर्जन्याद्यङ्गुलादीनां दीर्घं वह्न्यंशकं भवेत्
पर्वदीर्घं तदेकांशं युगलानां त्रिपर्वकम् ॥६८॥
अङ्गुष्ठे तु द्विपर्वं स्यादायामे तद्विभागतः
तर्जनीमूलपार्श्वे तु श्रेष्ठोर्ध्वे मूलकावनी ॥६९॥
तद्द्वयोर्मध्यदीर्घं स्यात्त्र्! यंशं द्व्यंशं तद्घनम्
शेषं तं मणिबन्धान्तं दीर्घं साङ्घ्रियुगाङ्गुलम् ॥७०॥
तस्याङ्गुष्ठादधोदेशे सार्धद्व्यङ्गुलं घनम्
तद्विशालं गुणांशं स्यात्पार्ष्णितारं युगाङ्गुलम् ॥७१॥
तद्घनं च त्रियंशं स्यादग्रं तु द्वियवांशकम्
अन्तस्तलं द्विमात्रं स्याद् विशालं निम्नर्यवम् ॥७२॥
पद्मं त्रिशूलवत् शङ्खं चक्रवत् सूक्ष्मरेखया
शेषं युक्त्या तथा हस्ते प्रदेशं कारयेद् बुधः ॥७३॥
शिरःपृष्ठे विशालं स्यान्नवमात्रं प्रशस्यते
कर्णान्तं नासिकाग्रान्तं सार्धत्रयोदशांशकम् ॥७४॥
हिक्कासूत्रोपरि स्कन्धं गलसन्धि युगांशकम्
गलसन्ध्या ककुद्मानं पञ्चमात्रं प्रशस्यते ॥७५॥
तस्मात्कटिसूत्रान्तं सप्तविंशाङ्गुलं भवेत्
तस्मात्तु पायुसीमान्तं सार्धत्रयोदशांशकम् ॥७६॥
पश्चिमे तदेकविंशत्यंशं तत्तदङ्गुलविस्तृतम्
सप्तादशाङ्गुलं पञ्च श्रोणिदेशे विशालकम् ॥७७॥
तदूर्ध्वे मध्यकायं तु विशालं श्रोणिविशालकम्
एकविंशाङ्गुलं चैव तदूर्ध्वे च स्तनापरौ ॥७८॥
सप्तविंशाङ्गुलं चैव कक्षयोरन्तरं स्थलम्
वंशनिम्नं शिवांशं स्यात् कटिमध्यान्तरायतम् ॥७९॥
विस्तारं तु द्विमात्रं स्याद् युक्त्या तत्रैव कारयेत्
तस्मात्कुक्षिवसानं स्याद् भान्वंशं फलकायतम् ॥८०॥
फलकाद्वयोर्मध्ये द्व्यन्तरं वेदमात्रकम्
फलकांशे तु स्कन्धसीमान्तं बाणार्धांशमुन्नतम् ॥८१॥
बृहती सप्तांशकं कक्षान्तरसमायतम्
बृहती स्तनसीमान्तं सार्धद्विरष्टमात्रकम् ॥८२॥
त्रयोदशांशकं चैव कटिसूत्रं तु विस्तृतम्
ऊरुमूलं तु निर्गमं च तत्समं तु युगाङ्गुलम् ॥८३॥
विस्तारं नवांशं स्यात्तत्तत्पिण्डौ सुवृत्तकौ
स्तनपीठं द्विमात्रं स्याद् विस्तारं तत्सुवृत्तकम् ॥८४॥
स्तनपक्षद्वयस्यान्तं तत्समं चोदयं तथा
हिक्का च हृदयं चैव निम्नकं च यवं स्मृतम् ॥८५॥
हिक्कात् स्तनान्तं स्यात् हिक्काया कक्षान्तरं तथा
सार्धत्रयोदशांशं स्याद् द्वियवं नाभिनिम्नकम् ॥८६॥
नाभिप्रदक्षिणवृत्तं मूलवत्कारयेद् बुधैः
नाभ्यधः कटिसीमान्तं कुक्षिदीर्घं षडङ्गुलम् ॥८७॥
नाभ्या वस्त्रसीमान्तं वेदमात्रं प्रशस्यते
कटितुङ्गार्धसप्तांशं तस्यान्तं मेढ्रमूलकम् ॥८८॥
मेढ्रपीठस्य विस्तारं चतुर्मात्रं प्रशस्यते
तस्मात्तु लिङ्गदीर्घं स्याद् द्वादशांशं विधीयते ॥८९॥
मुष्कायामं द्वयार्धांशं तद्विस्ता तथांशकम्
लिङ्गतारं शिवांशं स्यात् शेषं युक्तितो न्यसेत् ॥९०॥
तदेवाधिकहीनं वा शोभार्थं चैकमात्रकम्
उक्तमानाङ्गकैः सर्वैः तत्र दोषो न विद्यते ॥९१॥
तदूर्ध्वेऽधिकहीनं चेत्सर्वदोषसमुद्भवम्
तस्मात् परिहरेच्छिल्पी प्रतिमानं तु सर्वदा ॥९२॥
ब्रह्माविष्णुरुद्रा णां मानयेन्मानवित्तमः
अन्येषां चैव देवानां मानं कुर्याच्छुभावहम् ॥९३
एवं तु चोत्तमं पङ्क्तितालं प्रोक्तं मुनीश्वरैः ॥९४॥
इति मानसारे वास्तुशास्त्रे प्रतिमानामुत्तमदशतालविधानं नाम पञ्चषष्टितमोऽध्यायः
N/A
References : N/A
Last Updated : October 07, 2022
TOP