संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
लिङ्गविधानम्

मानसारम् - लिङ्गविधानम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


लिङ्गमानविधिं सम्यगलक्षणं वक्ष्यतेऽधुना
शैवं पाशुपतं चैव कालामुखं महावृतम् ॥१॥

वामं च भैरेवं चैव लिङ्गवा मान षड्विधम्
समकर्णं वर्धमानं शिवाङ्कं स्वस्तिकं तथा ॥२॥

एतच्चतुर्विधं लिङ्गं विप्रादीनां च योग्यकम्
समकर्णं भूसुराणां भूपानां वर्धमानकम् ॥३॥

वैश्यानां च शिवाधिक्यं परेषाम् स्वस्तिकं भवेत्
विप्राणां सर्वलिङ्गं च कुर्याद्दोषो न विद्यते ॥४॥

शिवाधिकं स्वस्तिकं प्रोक्तं लिङ्गं भूपस्य योग्यकम्
स्वस्तिकं च शिवाधिक्य वैश्यानामपि योग्यकम् ॥५॥

शुद्धगर्भगृहे द्वारे प्रासादस्य विशालकम्
अधिष्ठानोदये पादं तुङ्गमानं तथैव च ॥६॥

हस्तमानाङ्गुलेनैव यजमानोदयेन च
एतत्तत्तद्विधिः प्रोक्तं प्रत्येकं बहुधा भवेत् ॥७॥

श्रेष्ठादीनि कनिष्ठान्तं प्रत्येकं त्रित्रिमानकम्
गर्भे नन्दविभागे तु एकैकं लिङ्गतुङ्गकम् ॥८॥

केचित्तदेकभागे तु नवभाग विभाजिते
तदेकाशीति लिङ्गस्य कन्यसादुत्तमान्तकम् ॥९॥

प्रत्येकं तत्त्रिधामानमेकैकं लिङ्गतुङ्गकम्
कन्यसा गर्भतारार्थं त्रिपादं मध्यमं भवेत् ॥१०॥

गर्भतारसमं श्रेष्ठं त्रिविधं लिङ्गतुङ्गकम्
गर्भगेहे तु मानं स्याल्लिङ्गतुङ्गं प्रकल्पयेत् ॥११॥

शुद्धद्वारोदयं नन्दभागं कृत्वा विशालकम्
एकैकं लिङ्गतुङ्गं स्यात्कन्यसादीनि पूर्ववत् ॥१२॥

प्रत्येकं तु त्रिधा मानं साष्टादश च लिङ्गकम्
प्रासादस्य विशाले तु गर्भगेहोक्तवद्भवेत् ॥१३॥

अधिष्ठानसमं श्रेष्ठं त्रिपादं मध्यमं भवेत्
तदर्धं कन्यसं प्रोक्तं त्रिविधं लिङ्गमीरितम् ॥१४॥

अथवा नवभागं स्यान्नवलिङ्गमुदाहृतम्
कन्यसादुत्तमान्तं स्यात्प्रत्येकं पूर्ववद् भवेत् ॥१५॥

पादोदयं नवांशं नवधा लिङ्गमानकम्
तदेवं चैकभागे तु चतुर्भाग विभाजिते ॥१६॥

एकैकं लिङ्गतुङ्गं स्यात्षट्त्रिशं लिङ्गतुङ्गकम्
कन्यसादुत्तमान्तं स्यात्सर्वं प्रागुक्तवन्नयेत् ॥१७॥

हर्म्यतुङ्गं देवांशं स्यात्कन्यसादि त्रयं त्रयम्
एवं तु नवलिङ्गं स्यान्नवभेदोदयं भवेत् ॥१८॥

केचिद्विमानतुङ्गे तु नन्दनन्दांशकं भवेत्
एकैकं लिङ्गतुङ्गं स्यान्नन्दनन्दोदयं भवेत् ॥१९॥

कन्यसादुत्तमान्तं स्यात्पूर्ववल्लिङ्गमिष्यते
एकहस्तं समारभ्य हस्तैकेन प्रवर्धयेत् ॥२०॥

एकैकं लिङ्गतुङ्गं स्यान्नवहस्तावसानकम्
एवं तु नवतुङ्गं स्यात्कन्यसादि त्रयं त्रयम् ॥२१॥

करं त्रिपादमारभ्य तत्समेन विवर्धनात्
पादोनसप्तहस्तान्तं पूर्ववन्नवलिङ्गकम् ॥२२॥

अथवा हस्तमारभ्य सार्धहस्तेन वर्धनात्
सार्धवेदकराष्टं स्यान्नवलिङ्गोदयं भवेत् ॥२३॥

पादहस्तं समारभ्य पादहस्तेन वर्धनात्
पादाधिकद्विहस्तान्तं नवलिङ्गं तु पूर्ववत् ॥२४॥

जातिच्छन्दं विकल्पं च आभासं तु चतुर्विधम्
एकहस्तवशात्सर्वं कन्यसादि त्रयं त्रयम् ॥२५॥

छन्दादीनां तु मानं स्यात्षट्त्रिंशल्लिङ्गतुङ्गकम्
एकादशाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥२६॥

सप्तविंशाङ्गुलान्तं स्यान्नवधा लिङ्गतुङ्गकम्
द्वादशाङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥२७॥

षष्ट्यङ्गुलावसानं स्यान्नवधा लिङ्गमानकम्
पञ्चविंशाङ्गुलमारभ्य षट्षडङ्गुलवर्धनात् ॥२८॥

त्रिसप्ततित्रिमात्रान्तं नवधा लिङ्गतुङ्गकम्
सर्वेषां कन्यसं श्रेष्ठं पर्यन्ताङ्गुलमानकम् ॥२९॥

यजमानस्य मेढ्रान्तं नाभ्यन्तं हृदयान्तकम्
स्तनान्तं बाहुसीमान्तं हन्वन्तं नासिकान्तकम् ॥३०॥

नेत्रान्तं समतुङ्गं स्यान्नवलिङ्गोदयं भवेत्
अथवा तुङ्गमाने तु नवभाग विभाजिते ॥३१॥

एकैकं लिङ्गतुङ्गं स्यात्कन्यसादि त्रयं त्रयम्
नवत्यंशविधं लिङ्गं यस्समानवशाद्विदुः ॥३२॥

बहुधा स्थाप्यलिङ्गं वा नवलिङ्गं परिसंख्यया
अथ हस्तादयमानं सर्वलिङ्गेषु कल्पयेत् ॥३३॥

पञ्चादशाङ्गुलं मानं यन्मानं नवलिङ्गके
सप्तादशाङ्गुलान्तं च पञ्चादशाङ्गुलमारभेत् ॥३४॥

स्थापयेत्पञ्चलिङ्गे तु इत्यूर्ध्वेन तु कारयेत्
तत्त्रिपादकरादूर्ध्वे चाधिकं सर्वतुङ्गके ॥३५॥

सर्वेषां चैकहर्म्यं तु एकैकलिङ्गे तु संमतम्
बहुधा सर्वलिङ्गेषु तत्त्रिकर्णं न कारयेत् ॥३६॥

द्विकर्णं बहुलिङ्गे तु त्रिकर्णं चैकलिङ्गके
लिङ्गतुङ्गमिति प्रोक्तं तद्विशालमिहोच्यते ३७॥

त्रिचतुष्पञ्चाङ्गुलान्तं स्याद्बहुलिङ्गे तु विस्तृतम्
अथवा तुङ्गमाने त्रिचतुष्पञ्चभागिकम् ॥३८॥

तत्तदेकांशविस्तारं बहुलिङ्गविशालकम्
नागरं द्रा विडं चैव वेसरं च त्रिधा मतम् ॥३९॥

षट्सप्ताष्टाङ्गुलं चैकलिङ्गतारमिति स्मृतम्
नवपङ्क्तिरुद्र मात्रं स्यात् समलिङ्गविशालकम् ॥४०॥

भानुएकाङ्गुलं चैव चतुर्दशाङ्गुलमेव च
एवं तु चैकलिङ्गं स्याद्विस्तारं परिकीर्तितम् ॥४१॥

पञ्चादशाङ्गुलं चैव षोडशाङ्गुलमेव च
विस्तारदशाङ्गुलं चैव लिङ्गानामिति विस्तृतम् ॥४२॥

अष्टादशाङ्गुलं चैव नवपङ्क्त्यङ्गुलान्तकम्
विंशत्यङ्गुलं चैव लिङ्गतारं त्रिधा मतम् ॥४३॥

एकविंशत्यङ्गुलं चैव द्वाविंशतिकाङ्गुलम्
त्रयोविंशाङ्गुलं चैव त्रिधा लिङ्गविशालकम् ॥४४॥

चतुर्विशाङ्गुलं चैव पञ्चविंशाङ्गुलं तथा
षड्विंशाङ्गुलं चैव विशालं त्रिविधं मतम् ॥४५॥

सप्तविंशाङ्गुलं चैव अष्टविंशाङ्गुलं तथा
नवविंशतिमात्रं स्याल्लिङ्गतारमिति स्मृतम् ॥४६॥

अथवा त्रिंशदङ्गुल्यमेकत्रिंशतिमात्रकम्
द्वात्रिंशाङ्गुलं चैव लिङ्गतारमिति स्मृतम् ॥४७॥

कन्यसादुत्तमान्तं स्यात्प्रत्येकं त्रित्रिमानकम्
एवं तु नवधा लिङ्गं प्रत्येकं नागरादिभिः ॥४८॥

अथवा तुङ्गमानं तु चतुष्पञ्चषडंशकम्
तत्तदंशैकभागेन चैकलिङ्गविशालकम् ॥४९॥

नागरं द्रा विडं चैव वेसरं च त्रिधा मतम् ॥५०॥

इष्टायामे द्व्यंशसत्रिंशदंशम्
कृत्वा क्रमादधिकं तदंशकम्
विस्तारं तत्कन्यसादि त्रिधा
युक्त्या धीमान् वेसरादीनि कुर्यात् ॥५१॥

बहुलिङ्गोदये सर्वे ब्रह्मभागं विनोदयम्
द्विभागं समकन्यंस्याद्विष्णुरुद्रा शं! तत्समम् ॥५२॥

अथवा तुङ्गनवमं स्याद्वेद नारायणोदयम्
पञ्चांशं शिवोदयं स्याद् वर्धमानमिति स्मृतम् ॥५३॥

अष्टादशांशकं तुङ्गे वैष्णवं चाष्टभागिकम्
दशांशं शिवोदयं स्याच्छिवाधिकं लिङ्गमीरितम् ॥५४॥

उत्सेधे दशभागे तु विष्णुतुङ्गं षडंशकम्
वेदांशं शिवांशं स्यात्स्वस्तिकं बहुलिङ्कके ॥५५॥

कमलजहरिहरांशं तत्समं चैकलिङ्गे
मनुवसुनवभागैस्तुङ्गमष्टत्रियाङ्गकम्
कमलजहरिहरांशं सर्वतोभद्र लिङ्गम्
द्विजकुलनृपतिपूज्यं वर्धमाना चैव ॥५६॥

पञ्चपञ्चषडंशकोन्नतम्
ब्रह्माविष्णुशिवभाग तत्क्रमात्
तुङ्गमिष्टयुगांशके कृते
तच्छिवाधिक योग्यकम् ॥५७॥

स्वस्तिकस्य शतषट् शिरोन्नतम्
षोडशांशविधि वैष्णवं तथा
भद्र भागविधिवत्समाचरेत्
संपदार्थमिव शूद्र योग्यकम् ॥५८॥

वेदाश्राभं ब्रह्मभागे च मूले
चाष्टाग्राभं मध्यमे विष्णुभागे
वृत्ताकारमग्रके तच्छिवांशम्
कुर्यात्तु सर्वं चतुर्लिङ्गमेतत् ॥५९॥

वेदाश्रं वस्वश्रकं वृत्तं चैवम्
प्रोक्तानेकलिङ्गाग्र मूले
वृत्ताकारं चाग्रके रुद्र भागे
कुर्यादेवं शिल्पिविद्वद्भिरेव ॥६०॥

एकानेकं चोक्तलिङ्गे शिवांशे
कुर्याद्धारा षोडशादिद्वयेन
वृद्ध्या धारायत् सहस्रावधानम्
धारालिङ्गे चैवमुक्तं तन्त्रैः ॥६१॥

पञ्चषड्मुनिरष्टविस्तृते
द्विद्विभाग शिरमानतुङ्गकम्
तत्तदङ्गकृततच्छिरोदये
द्व्यंशयुग्मधिरोपमानकम् ॥६२॥

वर्तिकस्तमिव तच्छिखं बुधैः
युदार्ध त्रिपुरुषा कृतिस्तथा
अर्धचन्द्र मिति चित्रवद् भवेत्
शिल्पिभिः प्रवर वर्णतः क्रमात् ॥६३॥

पूजांशे तत्तुङ्गमष्टद्वयांशम्
कृत्वांशेन द्वित्रिवेदान्विसृज्य
तस्याधस्तल्लक्षणोद्धारशेषम्
शिल्पिः कुर्यान्नागरादिः त्रिधैव ॥६४॥

तत्तचैकार्धभागं मध्यभागम्
विस्तारं स्याल्लक्षणोद्धारणे च
अग्रे चैकद्व्यंशत्रिशेन तुङ्गम्
तस्मात्पार्श्वे भूपयेत्पृष्ठकान्तम् ॥६५॥

कुर्यादेकां पिण्डिकां तंतु पार्श्वे
चैकद्वित्र्! यंशकं चान्तरं च
पृष्ठे युक्त्या कारयेद् विष्णुकान्तम्
एवं युक्त्या नागरादिक्रमं स्यात् ॥६६॥

एकानेकलिङ्ग धारणांशे
कुर्याल्लिङ्गे मूर्ध्निवत्कुड्मलं वा
छत्राकारं वाथ मूर्ध्निप्रदेशे
युक्त्या धीमानुद्धरेद्वधस्तात् ॥६७॥

लिङ्गादीनां स्थापयेत्सर्वहर्म्ये प्रागुक्तवत्क्रमात् ॥६८॥

शुद्धगर्भगृहे मध्ये सप्तभागविभाजिते
मध्ये ब्रह्मपदं चैव परितश्चाष्टदिवौकसः ॥६९॥

मानुषांशं तु तद्बाह्ये परितः षोडशांशकम्
चतुर्विशांशकं बाह्ये परितः पैशाचमेव च ॥७०॥

मध्ये ब्रह्मपदे सप्तसप्तभाग विभाजिते
ब्रह्मांशे मध्यमे ब्रह्मसूत्रं तत्परिकल्पयेत् ॥७१॥

तद्वामे विष्णुसूत्रं स्यात्तद्बाह्ये परिकल्पयेत्
तत्सूत्रात् द्वयोर्मध्ये शिवसूत्रं प्रकल्पयेत् ॥७२॥

ब्रह्मविष्णुसूत्रं स्यान्मध्ये च शिवसूत्रकम्
एवं तु चैकलिङ्गं स्यात्स्थापयेच्छिल्पिवित्तमः ॥७३॥

बहुलिङ्गप्रतिष्ठा चेत्तत्तदेकापदोक्तवत्
कुर्यादेव पदे विष्णुं बहुधा चैकमेव वा ॥७४॥

गर्भगेहस्थले धारनीलमध्ये समं भवेत्
अज्ञानादधिकं चेन्निम्नं चेत्सर्वदोषदम् ॥७५॥

तस्मात्परिहरेत्सर्वदेवतास्थापनं बुधः
बेरस्यैकशिला प्रोक्तं लिङ्गानां तच्चतुःशिला ॥७६॥

नन्द्यावर्तकृतिः स्थाप्य तथा चैकाश्मना भवेत्
अथो पाषाणकूर्माख्यं चोर्ध्वधारमिति स्मृतम् ॥७७॥

इत ऊर्ध्वं शिलादौ पीठके वापि चोदयम्
उक्तवत्कल्पयेच्छिल्पी हीनाधिक्यं न कारयेत् ॥७८॥

स्थापयेल्लिङ्गबेरैश्च स्थपतिः स्थापकैः सह
लिङ्गानां पीठकानां च देवदेव्याश्च हर्म्यके ॥७९॥

शिलासंग्रहणं सम्यग्लक्षणं वक्ष्यतेऽधुना
पर्वते वा वने वापि स्थपतिः स्थपकैः सह ॥८०॥

प्रभाते तु समुत्थाय कर्ता चानुचरैः सह
मार्गके चोक्तवत्सर्वं पार्श्वे तु शकुनानि वै ॥८१॥

सुमुहूर्ते सुलग्ने च शिलासंग्रहणं भवेत्
उक्तवच्च रथारोप्य शिल्पशालां प्रविश्यति ॥८२॥

पत्रावलीढकाश्मं च अनलावटे कदाश्मना
आतपेनावलीढं चेद् वर्जयेत्सा शिला भवेत् ॥८३॥

यत्पूर्वोत्तराग्रं ज्ञात्वा मूलं दक्षिणपश्चिमे
अधोभागा मुखं ज्ञात्वा शयने चापरोर्ध्वकम् ॥८४॥

पूर्वाश्रं च शिला सर्वे दक्षिणे सव्यपार्श्वके
उत्तरे वामभागं स्यादुत्तराग्रशिले विदुः ॥८५॥

पूर्वे तु दक्षिणं पार्श्वे पश्चिमे वामपार्श्वकम्
ईशानाग्रशिलानां तु मूले नैरृत्यदेशके ॥८६॥

अन्यकोणेषु सर्वेषु मूलमग्रं न विद्यते
दिक्षु दीर्घशिला सर्वाः पुंशिलानां प्रकीर्तितम् ॥८७॥

चतुष्कोणेषु दीर्घं स्याच्छिलाषण्डः प्रकीर्तितः
प्रभूतं च स्थिता सर्वं पृथिव्याकाशायतं तथा ॥८८॥

ऊर्ध्वाग्रमध्यो मूलं प्रागुक्तदिक् तथैशके
तत्तदुन्नतवक्त्रं च यदि स्थापनं भवेत् ॥८९॥

तत्पार्श्वं पूर्ववज्ज्ञात्वा तस्याकारमिहोच्यते
मूलमग्रं च मध्यं च समाकारं तु पुंशिला ॥९०॥

स्थूलमूलं कृशाग्रं स्यात्स्त्रीशिला तु प्रकाशिता
स्थूलाग्रं च कृशं मध्ये स्थूलं नपुंसकं शिला ॥९१॥

चतुरश्रं पुंशिला प्रोक्तं वृत्तं स्याद् वनिता शिला
बहुधा गृह्यशृङ्गं स्यान्नपुंसकं तमुदाहृतम् ॥९२॥

कांसकाध्वनिनादं स्यात्स्त्रीशिला तु प्रकीर्तिता
रत्नभाण्डध्वनिनादं शिला च पुरुषं स्मृतम् ॥९३॥

निर्ध्वनि च शिला सर्वं नस्त्री नपुमान् विदुः
तालध्वनिनादं स्याच्छिला वल्याः प्रकीर्तितम् ॥९४॥

महिषध्वनिसंयुक्ता शिला वृक्षाः प्रकीर्तिता
पूर्वोक्तवध्वनीनादं यावना च शिला भवेत् ॥९५॥

शिलासर्वेषु वृत्तं च शिलाञ्छा विवर्धयेत्
पुंशिलेन पुमान् लिङ्गं कुर्याद्रे खां विवर्जयेत् ॥९६॥

शक्तीनां पीठकानां च स्त्रीशिलासंग्रहं भवेत्
प्रासादादीनि सर्वेषां मपुंसकशिला भवेत् ॥९७॥

श्वेतरक्तं च पीतं च शिला कृष्णं यथाक्रमात्
द्विजातीनां च वर्णानां कुर्याल्लिङ्गादिना बुधः ॥९८॥

सर्वेषाम्मपि वर्णानां सा शिला कृष्णमेव वा
सर्वेषां वर्णपाषाणे कृष्णरेखां विसर्जयेत् ॥९९॥

श्वेतं च स्वर्णरेखं च सर्वसंपत्करं शुभम्
शिलासंग्रहणं प्रोक्तं शेषमर्हमागमोक्तवत् स्मृतम् ॥१००॥

स्वयम्भुलिङ्गसर्वेषां लक्षणं वक्ष्यतेऽधुना
उद्भूतं दैवकं चैव मानुषं गाणवं तथा ॥१०१॥

एवं चतुर्विधं लिङ्गं स्वयम्भुरिति कीर्तितम्
तत्स्थाप्य स्वयमुद्भूतं स्वयम्भूरिति कीर्तितः ॥१०२॥

देवैश्च स्थापितं लिङ्गं दैविकं लिङ्गमुच्यते
मानुषैः रचितं लिङ्गं मानुषं चेति कथ्यते ॥१०३॥

अन्येषु रचितं लिङ्गं चार्षञ्चैव कथ्यते
गणैश्च पूजितं लिङ्गं गणं चेति प्रकथ्यते ॥१०४॥

उद्भूतं श्वेतवर्णं चेद् दैविकं रक्तवर्णकम्
मानुषं पीतवर्णाभं कृष्णवर्णं च गाणकम् ॥१०५॥

आर्षं युक्तसूत्रं स्यात् स्वस्तिकाकृतिरेव वा
उद्भूतं शङ्कराकारं रुद्रा क्षरं दैविकम् ॥१०६॥

नगर्दभं गाणवं स्याल्लिङ्गाकारमिहोच्यते
उद्भूतस्तालमूलं स्यात्कृशाग्रं वा समाधिकम् ॥१०७॥

अन्यथा सर्वलिङ्गानां स्थूलाग्रं कृशमूलकम्
दैविकं डिण्डिमाकारं मानुषार्द्र पुषा कृतिः ॥१०८॥

उद्भूतं पर्वताकारं कूश्माण्डाकार गाणवम्
पुण्यनद्यद्रि देशे तु लिङ्गसंग्रहणं भवेत् ॥१०९॥

एवं परार्थं लिङ्गं स्याच्छेषमागमतोक्तवत्
आत्मार्थं लिङ्गपीठस्य लक्षणं पठ्यतेऽधुना ॥११०॥

पीठतुङ्गं समं वाथ त्रिपादं चार्धमेव वा
लिङ्गायाममिति प्रोक्तं नाभं पीठविशालवत् ॥१११॥

नदीपर्वतदेशे तु लिङ्गसंग्रहणं भवेत्
श्वेतरक्तं च पीतं च कृष्णवर्णं चतुष्टयम् ॥११२॥

भूसुरादिचतुर्णां तु वर्णानां लिङ्गतः क्रमात्
अथवा कृष्णवर्णं च तत्सर्वं चार्षकं भवेत् ॥११३॥

अतिकर्षतलिङ्गं यद्भूदेव्यं च शभ्युरुच्यते
तत्र स्वयम्भुलिङ्गे तु विरूपं च विशेषतः ॥११४॥

सम्यक् सूत्रे च संकुर्याद्यावल्लक्षणमुच्यते
तल्लिङ्गं मानुषं प्रोक्तं तत्पर्वतलिन्द्र के ॥११५॥

रेखाबिन्दुकलङ्काङ्कं वर्जयेत्तद् विशेषतः
सौवर्णबिन्दुरेखाढ्यं सर्वसंपच्छुभायतम् ॥११६॥

ईषत्तदुन्नतं लिङ्गं हर्म्यवत्स्वयंभुलिङ्गकम्
वृत्तं वायतवृत्तं वा नाभे चरणायते ॥११७॥

किञ्चित्तदुन्नतं वर्त निम्नं तत्पृष्ठमिष्यते
स्थूलाग्रं यत्कृशं मूले लिङ्गं सर्वं निशाकृति ॥११८॥

स्वभावदन्तोष्ठयुक्तं चेल्लिङ्गं तन्मानुषं भवेत्
सिकतारोपणं ज्ञात्वा चैवं स्वयम्भुलिङ्गकम् ॥११९॥

विनारक्तं विनाकृष्णं सैकते लिङ्गमिष्यते
सर्वं स्वयम्भुलिङ्गेषु आत्मार्थं च परार्थके ॥१२०॥

नसंज्ञेषु च रक्तेषु लिङ्गस्योक्तेर्चनं भवेत्
उक्तलिङ्गप्रकारेण शेषमागमतोक्तवत् ॥१२१॥

आत्मार्थार्चनलिङ्गस्य वक्ष्यते पीठलक्षणम्
कर्तृनाशं परित्यज्य किञ्चिच्चैव शिला भवेत् ॥१२२॥

जलानलातपवातस्पृष्टाश्मानि विवर्जयेत्
पृथ्वीगर्भस्थितं स्निग्धं बिन्दुरेखां विवर्जयेत् ॥१२३॥

कलितं चैकभागं स्यात्स्त्रीशिला तु प्रकीर्तितम्
नपूरं सूक्ष्मदष्टं च शिला भवेत् ॥१२४॥

सम्यक्कृष्णनीलाः प्रोक्ताः वर्णमन्यं विवर्जयेत्
कर्षपाषाणवत्स्वर्णरेखारोपणमिष्यते ॥१२५॥

एवं परिक्षिते पश्चात् शिलासंग्रहणं भवेत्
एवं लक्षणयुक्तस्य शिलापीठं प्रकुर्वते ॥१२६॥

कर्तुर्दक्षिणहस्तस्य मध्यमाङ्गुलमध्यमे
पर्वतायतनस्ताहमङ्गुली त्रिविधं भवेत् ॥१२७॥

यवेन कल्पिते वापि चाङ्गुलेवापि कल्पयेत्
कर्तृनक्षत्रमित्रं हि मानं युक्त्या प्रयोजयेत् ॥१२८॥

परार्थे वा स्वयम्भूनां मानाङ्गुलवशेन वा
आयाममिति षड्वर्गमित्थं पीठोदयं भवेत् ॥१२९॥

लिङ्गमानं वियुक्तं चेत्कुर्यात्तु मानुषादीनाम्
तत्त्रिभिर्यवं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥१३०॥

पञ्चविंशाङ्गुलान्तं स्यात्पीठविस्तारमेव च
अङ्गुलत्रयमारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥१३१॥

पञ्चविंशाङ्गुलान्तं स्यात्पीठविस्तारं विधीयते
षड्वर्गादिशुभं कुर्याद्यथाभागादि संभवम् ॥१३२॥

तन्मानं पीठविस्तारं कृत्वा तु चतुरंशकम्
एकांशं लिङ्गमानं स्याच्छेषं तत्पीठतुङ्गकम् ॥१३३॥

अथवा पञ्चभागांशं तल्लिङ्गोदयमीरितम्
शेषं तु पूर्ववत्पीठं तुङ्गं कुर्याद् विचक्षणः ॥१३४॥

पीठतारसमं लिङ्गं मध्यनालाग्रकान्तकम्
पीठतारं द्वयं कृत्वा एकांशं नालविस्तृतम् ॥१३५॥

तच्चतुर्भागिकैकांशं हीनं नालाग्रतारकम्
केचिद् द्वित्र्! यंशमेवं स्यान्मूलाग्रान्तक्षयं क्रमात् ॥१३६॥

तद्विशालत्रिभागैकं प्रणाले विस्तारमेव वा
पीठतारचतुर्थांशं त्रियंशं वृतवारिका ॥१३७॥

पीठतारसमं चैव लिङ्गं तत् परिणाहकम्
एवमात्मार्थलिङ्गेषु स्वयम्भुवं परार्थके ॥१३८॥

कुर्यादनेकलिङ्गेषु चैकलिङ्गं न कारयेत्
पीठतुङ्गं त्रिधा कृत्वा एकांशं गलतुङ्गकम् ॥१३९॥

अथवा पञ्चद्वयांशं वा गलतुङ्गं विशेषतः
शेषं तु चोर्ध्वाधो बन्धं पट्टजन्मसररुहम् ॥१४०॥

एकांशं जन्मतुङ्गं तु एकभागैकं वेत्रकम्
तत्समं पङ्कजाग्रं स्यात्पद्मकुक्षिर्द्वयांशकम् ॥१४१॥

तदष्टांशैकवेत्रं स्यात्तत्समं चोर्ध्ववेत्रकम्
पूर्ववत्कर्णसंयुक्तमूर्ध्वखण्डमध उक्तवत् ॥१४२॥

सपादांशाधिकं हीनं वा यन्मानोरम्यं मानयोः
पीठतारोदयं नालं दीर्घं प्रागुक्तवन्नयेत् ॥१४३॥

वृत्ताकारं तु पीठं स्यादन्यथाकृतिं वर्जयेत्
पीठतुङ्गे तु गन्धं स्याल्लिङ्गनाहस्य सादृशम् ॥१४४॥

लिङ्गतुङ्गविशेषं स्याद्वेशनं तन्नयेद्बुधः
मानयेद्बहुलिङ्गे तु चैकानेकादिकैः ॥१४५॥

एतत्तु सर्वलिङ्गेषु चात्मार्थं च परार्थके
तन्मध्ये स्थापयलिङ्गमादौ रत्नानि विन्यसेत् ॥१४६॥

लिङ्गस्य परितो रन्ध्रे स्वर्णवर्णावबन्धनम्
अभावे रजतेनैव ताम्रं वायसमेव च ॥१४७॥

कारयेच्छिल्पिना सम्यग् लिङ्गपीठोदढौः सह
एकानेकलिङ्गानां परार्थे त्वष्टबन्धनम् ॥१४८॥

केचित्त्रिबन्धनं कुर्याद् द्र व्यैश्च गुग्गुलादिभिः
रत्नलिङ्गैश्च सर्वेषां वर्णपीठं प्रकल्पयेत् ॥१४९॥

अथवा रत्नपीठं वा रक्तलिङ्गेषु पूर्ववत्
यद्यद्द्रव्येण लिङ्गं तत्तद्द्रव्येण पीठकम् ॥१५०॥

नवरत्नैश्च संयुक्तं स्वर्णपीठं प्रकल्पयेत्
यत्तद्र त्नैश्च यल्लिङ्गे तत्तन्नाम्नैव नामकम् ॥१५१॥

पीठं तु लिङ्गके वापि नवरत्नैर्विशेषतः
एककर्णं चैकलिङ्गं बहुभिश्चैकलिङ्गकम् ॥१५२॥

वज्रलिङ्गमिति प्रोक्तं रत्नानि मिति कथ्यते
एकं वा बहुरत्नं वा नवरत्नैश्च संयुतम् ॥१५३॥

लिङ्गं यदुक्तं स्वर्णेन पीठे रत्नानि योजयेत्
अथवा केवलं स्वर्णं पीठं वा कारयेद् बुधः ॥१५४॥

स्वर्णलिङ्गमिति प्रोक्तं लक्षणं पूर्ववद् भवेत्
आचार्यहस्तेन वा लिङ्गं शिष्यस्तु नाहलिङ्गवत् ॥१५५॥

पश्चात्पूजां तथा कुर्यादाचार्योक्तोपदेशवत्
अथोक्तलिङ्गपूजायां फलं वक्ष्ये यथाविधि ॥१५६॥

नदीपर्वतलिङ्गानां कैलासारोहणं भवेत्
इहलोकस्य पूज्यत्वं भुक्तिमुक्तिफलप्रदम् ॥१५७॥

रत्नलिङ्गस्य पूजायां फलं मुक्तिप्रदायकम्
स्वर्णलिङ्गार्चनमेवं फलं स्वर्गापवर्गकम् ॥१५८॥

स्वर्णपीठं तु तल्लिङ्गं मुक्तावलिघनमथापि वा विदुः
कर्तृमानसवशात्कल्पयेत्प्रशस्तमिह दोषवर्जितम् ॥१५९॥

तोये वा मण्डले वापि पुष्पे वा उत्पलेऽपि वा
सिकते वाथ हस्ते वा चाक्षतैर्वा गुलैस्तथा ॥१६०॥

मोदके वाथ पिष्ठे वा गोमये वा यथेष्टकम्
सद्यः पूज्यं रचेल्लिङ्गं प्रोक्तं तत्क्षणिकं भवेत् ॥१६१॥

तानि लिङ्गानि सर्वेषां यथालिङ्गाकृतिर्भवेत्
ध्यात्वा दक्षिणका लिङ्गं मानं सर्वं न कारयेत् ॥१६२॥

दीर्घे लिङ्गमायादिषड्वर्गशुद्धिं कुर्यात्सर्वथोक्तवत्
मानलिङ्गे चान्यस्वायम्भुवादिमानं च युक्तं तथायादीनि सर्वं न कुर्यात् ॥१६३॥

बन्धाष्टनन्दवसुनन्दयुगेन बुद्ध्या
चाष्टार्कपङ्क्तितुरगैर्मुनिभिर्विहन्यात्
योन्यश्च वृद्धिभयं च तु वारमंशम्
लिङ्गैकेन कुर्यात्तु परार्थतुङ्गे ॥१६४॥

ध्वजधूमसिंहशुनकवृषगर्दभाश्च
दन्ती च काकश्च वसुयोनिः यथाक्रमेण
ध्वजसिंहहस्तिवृषयोनिः शुभं प्रशस्तम्
अन्येषु योनिरशुभमुदितं पुराणैः ॥१६५॥

शस्त्र वृद्धिर्मरणं शुभावहम्
चक्षुर्बुद्धिरूपं सुमङ्गलम्
श्रीकरं च सुखदं सुवृद्धिदम्
पुष्कलाय रवि तत्फलं क्रमात् ॥१६६॥

भुक्तिमुक्तिशुभदं समृद्धिदम्
सम्पदर्थं धनमृद्धिः द्विज
भुक्तिनाशकलहं च मैत्रकम्
चोक्तमेव दशधा फलं भवेत् ॥१६७॥

आयाधिक्यं चान्यथा हीनमुक्तम्
आयं हीनं चान्यथा चेत्त्वधिकम्
मृत्युदारिद्रा वहं नाशहेतुः
आयाधिक्यं संपदर्थं समं वा ॥१६८॥

जमाद्र श्चेदषड्भिस्त्वष्टन्दाशुभाक्षाभौमम्
शौरिवारं विसृज्य कृतिभ्यंभुक्शक्ति-ऋद्धिदं च ॥१६९॥

भूषं शुद्धं धीरं चाधनं वेष्मेव च
भ्रुबन्धन्य वीरं चैव भुक्तिमुक्तिशुभांशम्
अन्य सर्वं तस्कराद्या यथांशम्
युक्त चेत्सर्वसंम्यद्विनाशनम् ॥१७०॥

इति मानसारे वास्तुशास्त्रे लिङ्गविधानं नाम द्विपञ्चाशदध्यायः

N/A

References : N/A
Last Updated : October 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP