संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|मानसारम्|
सिंहासनलक्षणम्

मानसारम् - सिंहासनलक्षणम्

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


देवानां चक्रवर्त्यादिनृपालासनयोग्यकम्
सिंहासनस्य मानं च लक्षणं वक्ष्यतेऽधुना ॥१॥

प्रथमाभिषेकयोग्यं स्यात्प्रथमासनमेव च
मङ्गलाख्याभिषेकस्य मङ्गलासनमीरितम् ॥२॥

वीराख्याभिषेकस्य वीरासनमुदीरितम्
विजयाख्यस्याभिषेकस्य विजयासनमीरितम् ॥३॥

एवं चतुर्विधं प्रोक्तं भूपानामासनं भवेत्
नित्यार्चनासनं चैव नित्योत्सवासनमीरितम् ॥४॥

विशेषाख्यार्चनार्थाय विशेषाख्यार्चनासनम्
चतुर्विधात्मनं प्रोक्तं देवानामपि योग्यकम् ॥५॥

आदौ पद्मासनं प्रोक्तं द्वितीयं पद्मकेसरम्
तृतीयं पद्मभद्रं स्याच्छ्रीभद्रं स्याच्चतुर्थकम् ॥६॥

पञ्चमं श्रीविशालं स्यात्षष्ठं श्रीबद्धमेव च
सप्तमं श्रीमुखं चैव भद्रा सनं तु चाष्टकम् ॥७॥

नवमं पद्मं च भद्रं स्याद् दशमं पादबन्धकम्
आसनानि तु चैतानि नामानि कथितानि वै ॥८॥

अत्रोक्तमासनानां च सर्वेषां मानमुच्यते
सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥९॥

सप्तविंशाङ्गुलान्तं च विस्तारं नवधा भवेत्
परार्थं यजनार्थं चासनायामं पूर्ववत् ॥१०॥

पञ्चादशाङ्गुलारभ्य द्विद्व्यङ्गुलविवर्धनात्
एकत्रिंशाङ्गुलान्तं स्यात्कन्यसादि त्रयं त्रयम् ॥११॥

विस्तारं च तथा प्रोक्तं नित्योत्सवस्य चासने
आयामं पूर्ववत्कुर्याद् द्विगुणान्त यथाक्रमम् ॥१२॥

नवपङ्क्त्यडलारभ्य द्विद्व्यडलविवर्धनात्
पञ्चत्रिंशाडलान्तं स्याद्विस्तारं परिकीर्तितम् ॥१३॥

महोत्सवे चासनं ह्येवं कन्यसादि त्रयं त्रयम्
विस्तारं द्विगुणायामं पादोनद्विगुणं तु वा ॥१४॥

विस्तारार्धायतं वापि पादाभ्यन्तरमानकम्
पादबाह्यावसानं स्यात्पादमध्यावसानकम् ॥१५॥

विस्तारे चायते कुर्यान्मानमेवं तु सर्वतः
एवं तु देवतानां च महीपानां च वक्ष्यते ॥१६॥

पञ्चादशाङ्गुलारभ्य द्विद्व्यङ्गुलविवर्धनात्
सैकत्रिशाङ्गुलान्तं स्यात्प्रथमासनमेव च ॥१७॥

विस्तारं नवधा प्रोक्तं कन्यसादि त्रयं त्रयम्
तस्मादर्धाधिकं वापि त्रिपादाधिकमेव वा ॥१८॥

तत्समेनाधिकं वापि त्रिविधं चायतं तथा
सप्तदशाङ्गुलादौ स्याद् द्विद्व्यडलविवर्धनात् ॥१९॥

पञ्चत्रिंशतिमात्रान्तं नवतारं तु पूर्ववत्
वीरासनमिति प्रोक्तं दीर्घं प्रागुक्तवन्नयेत् ॥२०॥

एकविशाङ्गुलमारभ्य द्विद्व्यङ्गुलविवर्धनात्
सप्तत्रिंशाङ्गुलान्तं स्याद्विजयासनं विस्मृतम् ॥२१॥

नवभेदमिति प्रोक्तं दीर्घं पूर्ववदाचरेत्
विस्तारमायतं प्रोक्तं तत्तत्तुङ्गमिहोच्यते ॥२२॥

एकाङ्गुलं समारभ्य चैकाङ्गुलविवर्धनात्
नवाङ्गुलान्तमुत्सेधं कन्यसादि त्रयं त्रयम् ॥२३॥

आत्मनञ्चासनोत्तुङ्गं तद्विस्तारवशात्क्रमात्
वह्न्यङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥२४॥

नन्दपङ्क्त्यङ्गुलान्तं स्यान्नित्यार्चनासनोदयम्
एवं नवविधं प्रोक्तं विस्तारस्य वसान्यसेत् ॥२५॥

पञ्चाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात्
एकविंशाङ्गुलान्तं स्यान्नित्योत्सवासनोदयम् ॥२६॥

एवं नवविधं प्रोक्तं कन्यसादीनि पूर्ववत्
सप्ताङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् ॥२७॥

त्रयोविंशाङ्गुलान्तं स्याद्विशेषाख्यार्चनोदयम्
क्षुद्रा दि त्रित्रिमानं स्यात्कुर्यात्तु पूर्ववत् क्रमात् ॥२८॥

नवाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात्
पञ्चत्रिंशाङ्गुलान्तं स्यात्कन्यसादिनवोदयम् ॥२९॥

महोत्सवासनं त्वेवं यथाक्रमेण पूर्ववत्
त्रिचतुष्पञ्चषण्मात्रं सप्ताष्टकनवाङ्गुलम् ॥३०॥

दशैकादशमात्रान्तं नवभेदमुदीरितम्
कन्यसादुत्तमान्तं स्याच्छिखरोदयमेव च ॥३१॥

नवाङ्गुलं समारभ्य चैकैकाङ्गुलवर्धनात्
सप्ताप्तदशाङ्गुलान्तं स्यात्प्रथमासनतुङ्गकम् ॥३२॥

एकादशाङ्गुलारभ्य नवपङ्क्त्यङ्गुलान्तकम्
मङ्गलासनमुत्तुङ्गं नवभेदमुदीरितम् ॥३३॥

त्रयोदशाङ्गुलारभ्य चैकविंशाङ्गुलान्तकम्
वीरासनमिति प्रोक्तं नवधा तुङ्गमेव च ॥३४॥

पञ्चादशाङ्गुलारभ्य त्रयोविंशाङ्गुलान्तकम्
नवभेदमिति प्रोक्तं विजयासनतुङ्गकम् ॥३५॥

विस्तारे चतुरङ्गे वा षट्शुभायादि कारयेत्
त्रिचतुष्पञ्चषड्वृध्या चाष्टहानिश्च योनयः ॥३६॥

षट्सप्ताष्टकवृद्ध्या तु द्वादश क्षपयेद् बुधः
शेषमायमिति प्रोक्तं सप्ताष्टनववर्धनात् ॥३७॥

दशभिः क्षपयेच्छेषमेवं व्ययमुदीरितम्
अष्टनन्ददशेवृद्ध्या सप्तविंशे क्षयो भवेत् ॥३८॥

शेषं दिनमिति प्रोक्तं वृद्ध्याष्टनन्दनाधिका
सप्तके चन्द्र गे शेषं वारमेवमुदीरितम् ॥३९॥

त्रिचतुष्पञ्चवृद्ध्या तु क्षपयेत्तु नवांशकम्
गजयोनिं विनाकुर्यात्सिंहासनान् यथाशुभम् ॥४०॥

आयाधिक्यं व्ययहीनं सर्वसंपच्छुभावहम्
आयहीनं व्ययाधिक्यं सर्वसम्पद्विनाशनम् ॥४१॥

धूमयोनिश्च काकाश्च गर्दभान् श्वानं वर्जयेत्
अन्ययोनिः शुभं सर्वे शुभयोनिमिह योजयेत् ॥४२॥

सर्वेषां मानमित्युक्तं गण्यमानमिहोच्यते
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥४३॥

केवलं चोपपीठं वा कुर्यात् सिंहासनं बुधः ॥४४॥

द्व्यंशं जन्म शशिसार्धं पद्मकम्
कम्पकर्णं शरमर्धं कम्पकम्
अंशमब्जं शशि वाजनोपरि
क्षेपणमर्धं रविभागतुङ्गके ॥४५॥

वेदिभद्र विविधाकपोतधृक्
चोर्ध्वयोगभुवना कपोतकौ
देवभूपति यत्योर्यथा तथासने
योग्यमेव कृतयस्तु मूलके ॥४६॥

आसनस्योदयार्धं वा त्रिभागैकोनमेव वा
उपपीठोदयं ह्येव चोक्ततुङ्गेऽधिकं तु वा ॥४७॥

शेषं मसूरकं वापि समाधिष्ठानतुङ्गकम्
उत्सेधरविभागे तु जन्मतुङ्गं शिवांशकम् ॥४८॥

तदूर्ध्वे चार्धकम्पं स्यात्पाद भागेन योजयेत्
त्रिपादाधिकमंशेन महापद्मं प्रयोजयेत् ॥४९॥

तदूर्ध्वे सार्धभागेन कर्णवृत्तं च पद्मकम्
कन्धरं चार्धभागेन तत्समं चोपरिस्तथा ॥५०॥

कम्पवृत्तदलं कुर्यात्तदूर्ध्वेऽर्धेन पद्मकम्
एकांशं कुम्भवृत्तं स्यात्तदूर्ध्वेऽर्धेन पद्मकम् ॥५१॥

तत्समे निम्नवृत्तं च कम्पं कुर्यात्तदूर्ध्वके
द्व्यंशेन गलकं चोर्ध्वे चांशेन कम्पवृत्तकम् ॥५२॥

निम्नं च कम्पमर्धेन चैकांशेन कपोतकम्
तदूर्ध्वे चैकभागे तु चतुर्भोग विभाजिते ॥५३॥

आलिङ्गान्तरितं चोर्ध्वे प्रतिवादनमुच्यते
युक्त्या च वृत्तकम्पं स्यात्सर्वालङ्कारसंयुतम् ॥५४॥

व्यालादिपत्रपुष्पैश्च कर्णैश्च मकरद्वयम्
कपोते नासिकोपेतं किम्बरीवक्त्रसंयुतम् ॥५५॥

चतुष्कर्णे च युक्त्या च कुर्याद् वल्लवपत्रकम्
मध्ये तत्पत्रमलङ्कृत्य सर्वालङ्कारसंयुतम् ॥५६॥

गले च नाटकैर्युक्तं यक्षविद्याधरादिभिः
वृत्तकुम्भं च पट्टं वा कटकादिरलङ्कृतैः ॥५७॥

पद्माकारं तु सर्वेषां केसरादिदलान्वितम्
यथेष्टमंशं गलतुङ्गं स्यान्नानापट्टैरलङ्कृतम् ॥५८॥

एतत्पद्मासनं प्रोक्तं शिवविष्ण्वासनं भवेत्
तदेव सोपपीठं स्यात्पद्मकेसरमीरितम् ॥५९॥

उपपीठे क्षुद्र कम्पानां वृत्तकम्पाश्रकम्पयुक्
निम्नानि मौक्तिकोपेतं सर्वाङ्गं रत्नभूषितम् ॥६०॥

उपपीठगले सर्वे नाटकाभिरलङ्कृतम्
कोकिलैः क्षुद्र शालैश्च पञ्जरैस्तोरणान्वितम् ॥६१॥

नासिकाकुम्भपादैश्च नासिकापञ्जरान्वितम्
सर्वालङ्कारसंयुक्तं पद्मचित्रादिशोभितम् ॥६२॥

देवानां चक्रवर्ती सर्वेषामासनान्वितम्
एकविंशांशकं तुङ्गे जन्मतुङ्गैकभागिकम् ॥६३॥

पादांशं क्षेपणं चैव सत्रिपादांशमम्बुजम्
तदूर्ध्वे चैकभागे तु तत्त्रिभागं विभाजिते ॥६४॥

एकांशं निम्नकं प्रोक्तं चैकांशं वृत्तकम्पकम्
तदूर्ध्वे अंशेन कम्पं स्यात्पञ्चांशं वप्रतुङ्गकम् ॥६५॥

तदूर्ध्वं अंशं त्रिधा भज्य वृत्तं पद्मं च वृत्तकम्
तदूर्ध्वे वृत्तसमं पद्मं पद्मतुल्यं च वृत्तकम् ॥६६॥

तच्छेषं तु द्विभागे तु कुमुदं वृत्ताकृतिस्तथा
तदूर्ध्वांशं त्रिधा भज्य वृत्त पद्मं च कम्पकम् ॥६७॥

ऊर्ध्वे कर्णं त्रिभागं स्यात्तदूर्ध्वेऽशं त्रिधा भवेत्
कम्पं पद्मं च वृत्तं च द्विभागेन कपोतकम् ॥६८॥

तदूर्ध्वे चैकभागेन आलिङ्गान्तरितं तथा
प्रत्यूर्ध्वे वाजनं कम्पं सर्वालङ्कारसंयुतम् ॥६९॥

एवं तु पद्मभद्रं स्यादधिराजस्य योग्यकम्
तुङ्गे द्विरष्टभागं स्याज्जन्ममे केन कारयेत् ॥७०॥

अर्धेन वाजनं चैव पादांशं क्षुद्र वेत्रकम्
पादाधिकत्रयांशं च तदूर्ध्वे तु महाम्बुजम् ॥७१॥

तदूर्ध्वे निम्नमर्धेन तत्समं पद्ममेव च
द्विभागं कुमुदोत्तुङ्गं तदूर्ध्वेऽर्धेन चाम्बुजम् ॥७२॥

तत्समं चोर्ध्वकम्पं स्यात्त्रिभागेन गलोदयम्
अंशेन कम्पपद्मं स्याद् द्व्यंशेन कपोतकम् ॥७३॥

अंशेन लिङ्गान्तरितं प्रतिवाजनमुच्यते
श्रीभद्र कमिति प्रोक्तं सर्वालङ्कारसंयुतम् ॥७४॥

अधिराजनरेन्द्र स्य सर्वासन योग्यकम्
द्वाविंशाशकं तुङ्गे च जन्म द्व्यंशेन विन्यसेत् ॥७५॥

तदेव त्रिवृत्त शोभार्थं यथासोपानवत्क्रमम्
तदूर्ध्वे पद्ममेकांशं चार्धेनावृतवेत्रकम् ॥७६॥

अर्धेनाग्रकम्पं स्यात्तदूर्ध्वेऽर्धेन वृत्तकम्
त्रियांशं वप्रदेशे तु नानापुष्पैश्च शोभितम् ॥७७॥

तदूर्ध्वेऽर्धेन वृत्तं स्यात्तत्समोपरि पङ्कजम्
अर्धेन वृत्तकं चोर्ध्वे तत्समं चोर्ध्वपद्मकम् ॥७८॥

तदूर्ध्वेऽर्धेन वृत्तं स्यात्तत्तुल्यं तद्दलं भवेत्
एकेन मध्यवृत्तं स्यात्कुभुदाकारं तु निर्गमम् ॥७९॥

तदूर्ध्वेऽर्धेन पद्मं स्यादर्धेनावृतवेत्रकम्
तदूर्ध्वे चाग्र पट्टं स्यात्तद्विंशेन गलोदयम् ॥८०॥

नानापादादिसिंहादिपत्रवल्लैर्विभूषितम्
तदूर्ध्वे चाग्रपट्टं स्यात्तदूर्ध्वे वृत्तवेत्रकम् ॥८१॥

तत्समं चोर्ध्वपद्मं स्याद्वाजनं चैकभागिकम्
आश्विन्यंशं कपोतं स्यात्तदूर्ध्वेंऽशेन वाजनम् ॥८२॥

तदूर्ध्वे चांशं वृत्तं स्यान्मध्ये व्यालादिभूषितम्
सर्वालङ्कारसंयुक्तम् शेषं युक्त्या प्रयोजयेत् ॥८३॥

श्रीविशालमिति प्रोक्तं पार्ष्णिकनरेन्द्र योः
कारयेद्विजयान्तं स्यात्प्रथमाच्चतुरासने ॥८४॥

तदेव वप्रमध्ये तु द्व्यंशेन वृत्तनिर्गमम्
शेषं तु पूर्ववच्चित्रं श्रीबन्धमिति हि स्मृतम् ॥८५॥

पार्ष्णिकः पट्टधरोत्सेधं पूर्वोक्तानां च योग्यकम्
तदेव मध्यकुम्भे तु चैकांशेनाश्रपट्टिका ॥८६॥

एवं तु श्रीमुखं प्रोक्तं मण्डलेशस्य योग्यकम्
तदेव मूलभागेन चाग्रवृत्तं विनाम्बुजम् ॥८७॥

भद्रा सनमिति प्रोक्तं पट्टभागासनं भवेत्
तदेव जन्मन उपरिदेशे द्व्यंशकेनाम्बुजं भवेत् ॥८८॥

शेषं प्रागुक्तवत्कुर्यात्पद्मबन्धमिति स्मृतम्
प्राहारकस्य योग्यं स्यात्सर्वेषामासनान्वितम् ॥८९॥

तुङ्गे त्रिंशतिभागेन जन्म द्व्यंशेन योजयेत्
पद्मतुङ्गं गुणांशं स्यात् कम्पमंशेन योजयेत् ॥९०॥

षडंशं वप्रतुङ्गं स्यात्तदूर्ध्वे सप्तांशकं घतम्
पद्ममंशेन बन्धांशं कर्णं कम्पं शिवांशकम् ॥९१॥

कपोतोच्चं त्रिभागं स्यादालिङ्गादि द्वयांशकम्
व्यालसिंहादिपुष्पैश्च कर्णे ग्राहादिभूषितम् ॥९२॥

सर्वाङ्गवृत्तवेत्रं स्यान्नवरत्नैरलङ्कृतम्
एवं तु पादबन्धं स्यादस्त्रग्राहस्य योग्यकम् ॥९३॥

अस्त्रग्राहस्य नृपतेः सिंहपादं न कारयेत्
क्षुद्र भूपविशां शूद्रैः! उपपीठादि योजयेत् ॥९४॥

चतुरश्रसमायुक्तं सर्वेषां सर्वमासनम्
देवानां मौलिनामुक्तं युक्तं सर्वेषु योग्यकम् ॥९५॥

प्रथमासनादि सर्वेषां भूपानां तान्युदीरितम्
षट्पादेन समायुक्तं सिंहरूपं प्रकल्पयेत् ॥९६॥

तत्सर्वं प्राङ्मुखं कुर्याद्विपरीतं चेद्विनाशनम्
देवानामासनानां तु चतुर्दिक्षु निरीक्षणम् ॥९७॥

त्रियङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात्
नवपङ्क्त्यङ्गुलान्तं स्यात् सर्वेषां पादतुङ्गकम् ॥९८॥

एवं च विविधं प्रोक्तं यन्मानोरम्यं मानयेत्
पादोत्सेधं नवांशं स्यात्सिंहतुङ्गं युगांशकम् ॥९९॥

शेषं तु पूर्ववत्कुर्याद्युक्त्या तत्रैव योजयेत् ॥१००॥

आदितोक्तमुपचक्रवर्तये
सिंहमुद्रि तमनोहरासनम्
अष्टभूमिपतिभिश्च केसरी
लाञ्छितं त्वथ मनोहरासनम् ॥१०१॥

प्रथमासनं मङ्गलासनम्
अथ वीरविजयाख्यासनम्
नवभूपतिविशेषतत्त्वम्
अथ सामान्यमुदीरितं बुधैः ॥१०२॥

विष्णुरुद्र जिनकेन्द्र मुख्यकैः सर्वदेवगणचक्रवर्तिने
आसनानि कथितानि तानि वै चोत्सवाश्च कथितानि सुरिभिः ॥१०३॥

इति मानसारे वास्तुशास्त्रे सिंहासनलक्षणविधानं नाम पञ्चचत्वारिंशोऽध्यायः

N/A

References : N/A
Last Updated : October 07, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP