मानसारम् - परिवारविधानम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
सर्वेषामपि देवानां प्राकारान्तं प्रविष्टके
परितः परिवाराणां लक्षणं वक्ष्यतेऽधुना ॥१॥
इन्द्रा दिसाष्टदिग्देशे सान्तर्मण्डलसालके
परितो भूतबल्यर्थं क्षुद्र पीठं विनिक्षिपेत् ॥२॥
अष्टकं परिवाराणां कृत्वा चान्तरिहारके
द्वितीये च तृतीये च षोडशपरिवारकम् ॥३॥
द्वात्रिंशच्च तृतीये वा कल्पयेत्परिवारकम्
तृतीयात्पञ्चसालान्तं विनियोगाख्यमण्डपम् ॥४॥
कुर्यात् शिल्पिभिः प्राज्ञैः परिवारमिहोच्यते
इन्द्रे च वृषभं स्थाप्य आग्नेये चार्यकस्तथा ॥५॥
याम्ये तु सप्तमात्र च नैरृत्ये तु गणेश्वरम्
पश्चिमे सुब्रह्मण्यं च ज्येष्ठादेवीं च वायवे ॥६॥
सौम्ये तु केशवं स्थाप्य ईशान्ये भास्करं तथा
एवञ्चाष्टपरीवारं पूर्वद्वारालयं भवेत् ॥७॥
पश्चिमद्वारहर्म्येषु पश्चिमे तु गुहं क्षिपेत्
अथवा विनायकं प्रोक्तं नैरृत्ये स्थापयेत्सुधीः ॥८॥
सोमईशानयोर्मध्ये दिविपञ्च विनिक्षिपेत्
वह्न्यन्तकद्वयोर्मध्ये सुब्रह्मण्यालयं भवेत् ॥९॥
याम्ये कात्यायनी वाथ द्वारं वाथ प्रकल्पयेत्
याम्ये नैरृत्ययोर्मध्ये वीरभद्रा लयं भवेत् ॥१०॥
नैरृत्ये तु गजमुखं पश्चिमे तु पितामहम्
प्रत्यङ्नैरृत्ययोर्मध्ये चैकपादेश्वरालयम् ॥११॥
पश्चिमोत्तरतः स्थाप्यं चाश्विनीदेवतालयम्
वायुकोणे प्रदेशे तु सरस्वत्यालयं भवेत् ॥१२॥
वायुचन्द्र द्वयोर्मध्ये ममोन्मन्यालयं भवेत्
चन्द्र स्थाने धनेशस्य चालयं कल्पयेद्बुधः ॥१३॥
सोमईशानयोर्मध्ये जनार्दनालयं भवेत्
ईशे च क्षेत्रपालं च वटुकं वा प्रतिष्ठयेत् ॥१४॥
ब्रह्मा-ईशानयोर्मध्ये भास्करस्यालयं भवेत्
अथवा वायुकोणे तु षण्मुखालयं भवेत् ॥१५॥
परिवारं षोडशकमेवं प्रोक्तं मुनीश्वरैः
द्वात्रिंशत्परिवारस्य लक्षणं वक्ष्यतेऽधुना ॥१६॥
इन्द्रे च वृषभं स्थाप्य सत्यके नन्दिकेश्वरं
भृङ्गेशं भुवनेशं च कुर्यादन्तरिक्षके ॥१७॥
आग्नेयं च धनस्थानं पूषा स्थाने तु चेन्दिराम्
विदधे चैकदन्तं स्यात् मुनेशं स्याद्गृहक्षते ॥१८॥
याम्ये चामुण्डिकां स्थाप्य गन्धर्वे पुष्पमण्डलम्
भृङ्गराजपदे चैव नैवेद्यार्पणवेश्मकम् ॥१९॥
मृषे च वस्त्रालयं स्यान्नैरृत्ये तु विनायकम्
दौवारिकपदे चैव मूर्तिशूलं समर्चयेत् ॥२०॥
सुग्रीवे च त्रिमूर्तिं स्यात्स्थापयेदेकहर्म्यके
पुष्पदन्तपदे चैव पुष्पबन्धनमण्डपम् ॥२१॥
वरुणस्य पदे स्थाप्य चार्धनारीश्वरालयम्
असुरस्यपदे चैव कुर्यात्तु रत्नमण्डपम् ॥२२॥
देवानां भूषणावासं स्थापयेच्छेषभागिके
पुस्तकावासनं कुर्याद् रोगस्य च पदे तथा ॥२३॥
षण्मुखस्यालयं कुर्याद्वायुकोणे विचक्षणः
नागस्य च पदे चैव कुर्यात्तु रत्नमण्डपम् ॥२४॥
देवानां भूषणावासं स्थाप्यं च मुख्यदेशके
अथवा पार्वतो स्थाप्या भल्लाटस्यपदेऽपि च ॥२५॥
सोमे च विष्णुं संस्थाप्य मनोजस्यालयं तु वा
मृगे च स्थापनार्थं च गन्धद्र व्यादिमण्डपम् ॥२६॥
अदिते दक्षिणामूर्तिमुदिते चान्तदानकम्
ईशे च स्थापयेदेकं रुद्र मूर्तेस्तथालयम् ॥२७॥
अथवा यज्ञशालां च स्थापयेद् भोगमण्डपम्
पर्जन्ये मज्जनार्थाय जलपूरितमण्डपम् ॥२८॥
अथवा रुद्र देवस्य यागमण्डपमेव च
जयन्ते भास्करं स्थाप्य चेशे पाशुपतं तथा ॥२९॥
अथवा कामकोष्ठं स्यादालयं कल्पयेत्सुधीः
द्वात्रिंशन्मूर्तिरेवं स्यात्कुर्यात्तु परिवारकम् ॥३०॥
तृतीये सौम्यभागे तु पानीयस्य जलं क्षिपेत्
भृशे वाथ महेन्द्रे वा भक्तरूपं प्रतिष्ठयेत् ॥३१॥
छत्रं च चामराकारं जयन्तस्य पदे तथा
तण्डुलं मण्डपं याम्ये पावके पचनालयम् ॥३२॥
गृहक्षते धान्यशाला ईशे च यागमण्डपम्
गन्धर्वे भृङ्गराजे च स्थापकान्वद्यायम् ॥३३॥
पूषे च वितथे चैवमालये परिवारकान्
सोमे भल्लाट मुख्ये च कल्पयेत्कोशमण्डपम् ॥३४॥
पुष्पदन्ते सूकरौ च शस्त्रमण्डपसंयुतम्
वरुणे वासुरे वापि वस्तुनिक्षेपमण्डपम् ॥३५॥
नागे वापि मृगे वापि देवभूषणमण्डपम्
आदितौ चोदितौ वापि शयनार्थं च मण्डपम् ॥३६॥
आस्थानमण्डपं चैव चतुर्दिक्षु विदिक्षु च
स्नापनार्थमण्डपं चापि स्नानमण्डपमेव च ॥३७॥
गृहक्षते यमे वापि वाहनस्थानमण्डपम्
मर्यादि भित्तिकस्यान्तं मण्डपं वा नरालयम् ॥३८॥
श्रद्धालिङ्गं तथा स्थाप्य यथा दिक्षु विदिक्षु च
अनलानिलकोणे वा स्थापत्यालयमेव च ॥३९॥
सत्यके वा चान्तरिक्षे वाद्यकरालयं भवेत्
पूषे च वितथे चापि नाट्या कारालयं भवेत् ॥४०॥
गृहक्षते मृषश्चान्तं गणिकादीनां तथालयम्
नैरृत्यादावरुणान्तं च गणिकास्यालयं भवेत् ॥४१॥
वरुणाद्वायुपर्यन्तमारामकारकालयम्
वायुकोणादिसोमान्तं नित्यकर्मकरालयम् ॥४२॥
सोमादीशानपर्यन्तं गान्धर्वालयमेव च
ईशादेरिन्द्र पर्यन्तं संहितार्थं च मण्डपम् ॥४३॥
तद्वाह्ये तत्प्रदेशे वा गोशालां परिकल्पयेत्
ईशस्थाने तु कूपं स्यात्तटाकं वा प्रकल्पयेत् ॥४४॥
चतुष्कोणे तपस्वीनां सत्रावासमठं भवेत्
समीपे वीरभद्रा णां गृहश्रेणीं च कल्पयेत् ॥४५॥
महामर्यादि देशे तु वर्णानां वासयोग्यकम्
पश्चिमे विप्रसङ्ग स्याद्दक्षिणे क्षत्त्रियस्य च ॥४६॥
उत्तरे वैश्यसङ्गः स्यात्पूर्वे तु शूद्र सद्मकम्
तद्बाह्ये सर्वजातीनामालयं कल्पयेत्सुधीः ॥४७॥
द्वारस्य वामभागे तु गजाश्वादेस्तथालयम्
उदिते चेशकोणे तु कल्पयेदर्धमण्डपम् ॥४८॥
वायुकोणे तु बाह्ये वा पुष्पोद्यानं तु कल्पयेत्
प्राकारद्वार सर्वेषां कल्पयेद् वृषभालयम् ॥४९॥
वृषभस्योपरि भागे तु कल्पयेद् बलिपीठकम्
गोपुरस्य बहिर्वापि स्थापयेद् बलिपीठकम् ॥५०॥
प्रासाददण्डमानेन चैकं वा द्वित्रिदण्डकम्
गोपुराद् बलिपीठान्तं सान्तरं मानयेत्सुधिः ॥५१॥
एकद्वित्रिचतुष्पञ्चहस्तं पीठविशालकम्
प्रासादार्धं त्रिभागैकं पञ्चभागत्रिभागिकम् ॥५२॥
अथवा द्वित्रिभागं स्यात्पीठविस्तारमेव च
पीठतारसमोच्चं वा पादार्धाधिकमेव च ॥५३॥
उपानादिपट्टिकान्तं स्यात्पीठतुङ्गमुदीरितम्
पीठतुङ्गोदयार्धेन पद्मतुङ्गं प्रकल्पयेत् ॥५४॥
वप्रे वा पट्टिके वापि विस्तारं परिकल्पयेत्
विस्तारे पञ्चभागे तु वेदार्धं पद्मविस्तृतम् ॥५५॥
पद्मतारत्रिभागैकं कर्णिकाविस्तृतं भवेत्
विस्तारसममुत्सेधं वृत्तं वा पट्टमेव वा ॥५६॥
भद्रं वा पद्मसंयुक्तं तुङ्गं प्रागुक्तवन्नयेत्
वृत्तं वा चतुरश्रं वा मूलप्रासादवद् भवेत् ॥५७॥
अधिष्ठानाकारवत्पीठं हर्म्याधिष्ठानवद् भवेत्
द्वादशाङ्गुलविस्तारमुत्सेधं क्षुद्र विस्तरम् ॥५८॥
उपाब्जं करिकर्णयुक्तं कुर्यात्तत्क्षुद्र पीठकम्
वृषभस्यालयं मानं पूर्ववत्परिकल्पयेत् ॥५९॥
मण्डपाकारवत्कुर्याद्यन्मानोरम्यमानकम् ॥६०॥
विष्णवालयपरिवारम्
विष्णवालयपरिवारलक्षणं वक्ष्यतेऽधुना
पञ्चसालमहाद्वारे द्वारदेवान्प्रकल्पयेत् ॥६१॥
द्वारस्य दक्षिणे स्थाप्य चण्डराक्षसरूपकम्
वामे प्रचण्डसंयुक्तं रूपं राक्षसमेव च ॥६२॥
दक्षिणे चक्रसंयुक्तं वामे तत्पाञ्चजन्यकम्
दक्षिणे च गणेशं च वामे कात्यायनीं तथा ॥६३॥
दक्षिणे भास्करं चैव वामभागे निशापतिम्
दक्षिणे च भुजङ्गे च द्वारवामे दिवः पतिम् ॥६४॥
प्रथमादिपञ्चमान्तं स्यात्स्थापयेद् द्वारपञ्चके
एवं तु दशधा देवान्द्वाराणामुदितं क्रमात् ॥६५॥
वैनतेयः स्यात्सालासालान्तरा भवेत्
प्रमुखे चोत्तरे देशे विष्वक्सेनालयं भवेत् ॥६६॥
अन्तर्मण्डलदेशे तु पूर्ववद् बलिपीठकम्
द्वारस्य दक्षिणे पार्श्वे हर्म्यं कुर्याद्दिवस्पतेः ॥६७॥
यथैवाग्निकोणे तु मृगैः लयमेव च
याम्ये कात्यायनी प्रोक्तं नैरृत्ये तु विनायकम् ॥६८॥
पश्चिमे दिक्ष्वनन्तं स्याद्वायौ वासिष्टकालयम्
उत्तरे धनदं चैव ईशान्ये भास्करं तथा ॥६९॥
कात्यायनी विना याम्ये कुर्याद्वाथ पितामहः
धनदं च विना सौम्ये शङ्करस्यालयं तु वा ॥७०॥
एवं चाष्टपरीवारं षोडशं परिवारकम्
पूर्वोक्तदेवतासङ्घैः किञ्चित्किञ्चिद्विशिष्यते ॥७१॥
आग्नेये च गणेशं स्यान्नैरृत्ये तु गुहं क्षिपेत्
वायव्ये तु महालक्ष्मीं चैशान्ये च सुदर्शनम् ॥७२॥
सोमईशानयोर्मध्ये शङ्करालयमेव च
वायुसोमोभयोर्मध्ये विष्णुदुर्गं तथालयम् ॥७३॥
प्रत्यङ्नैरृत्ययोर्मध्ये चक्रमूर्तेस्तथालयम्
याम्ये च बलभद्रं स्यादनन्तं च जयन्तके ॥७४॥
नैरृत्ये तु बौद्धं स्याज्जयन्ते पौत्रिकालयम्
शेषं प्रागुक्तवत्स्थाप्य षोडशं परिवारकम् ॥७५॥
द्वात्रिंशत्परिवारस्य लक्षणं वक्ष्यतेऽधुना
चतुर्विंशतिमूर्तीनां दिक्पालक सहैव च ॥७६॥
एकानावरणैः स्थाप्य चावतारान्दशापि
मत्स्यः कूर्म विना कुर्यात्तत्फलानां विना तथा ॥७७॥
पूर्वोक्तमण्डपानां च क्तदेवान् यथेष्टवत्
कुर्याद्विष्णुपरीवारं शेषं प्रागुक्तवन्नयेत् ॥७८॥
बौद्धं च जिनकं चैव तत्तच्छास्त्रोक्तमार्गवत्
तत्तद्वाहनं स्थाप्यं बलिपीठं च पूर्ववत् ॥७९॥
यक्ष यक्षीश्च तीर्थानि कुर्यात्तत्परिवारकम्
अन्याश्च क्षुद्र देवाना देवीनां परिवारकम् ॥८०॥
तत्तद्वाहनपूर्वा च भूतपैशाचकं तथा
गणेशं क्षेत्रपालादीन् कुर्यात्तत्परिवारकम् ॥८१॥
अन्तर्बहिश्च बल्यर्थं कुर्यात्पीठं तु पूर्ववत्
चाभुण्डालय शङ्करालय महाविष्णोस्तथालये ॥८२॥
बौद्धस्यालये तज्जिनालयमपि क्षुद्रा लये सर्वशः
शास्त्रस्यालयतोरणे कथितं तत्परिवारक कुर्वीत ॥८३॥
श्रममनु ते क्वपि विना कृत्वा तु संपद् भवेत् ॥८४॥
यन्मूलहर्म्ये वृषभादि विष्णुरादि
मण्डपादि गरुडादि गोपुरादीन्
तन्मूलहर्म्यपरितः स्थित पश्यते अस्मिन्
कुर्यात्तु सर्वपरिवारमिदं प्रशस्तम् ॥८५॥
इति मानसारे वास्तुशास्त्रे परिवारविधानं नाम द्वात्रिंशोऽध्यायः
N/A
References : N/A
Last Updated : October 03, 2022
TOP