मानसारम् - प्रलम्बलक्षणम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
सर्वेषां देवदेवीनां ऋजुस्थानके चासने
मानसूत्रविधिं सम्यग्लक्षणं वक्ष्यतेऽधुना ॥१॥
बेरायामसमं वापि त्रिपादं चार्धमेव वा
आयामं त्रिविधं प्रोक्तं तत्तदूर्ध्वविशालकम् २॥
देवलब्धाङ्गुलं चैव चतुस्त्रिद्व्यङ्गुलं घनम्
एवं प्रलम्बफलका प्रक्षणं चतुरश्रकम् ॥३॥
तत्समं चासनं कुर्याद् घनं मानाङ्गुलेन च
चतुष्पादं त्रिपादं च द्विपादैकाङ्घ्रिमेव वा ॥४॥
आसनस्योपरि स्थाप्य मध्यबेरं विनिक्षिपेत्
सपादबेरायतं वाप्यध्यर्धेनाङ्घ्रितुङ्गकम् ॥५॥
पादतारं यथायुक्त्या कारयेत्तक्षकेन तु
फलका चासने चैव मुनिसूत्रं प्रसारयेत् ॥६॥
कुर्याद्युक्त्या च पादोर्ध्वे प्रलम्बफलकां न्यसेत्
सूत्राग्रे कन्दुकाकारं लौहे पाषाणकेऽथवा ॥७॥
तन्मध्ये सुषिरं कृत्वा बन्धयेच्छिल्पिवित्तमः
फलके योजयेत्सर्वं सूत्रमेवं प्रशस्यते ॥८॥
पूर्वापरपार्श्वे तु कायमध्ये प्रलम्बयेत्
स्थानके चासने वापि पञ्चसूत्रमुदीरितम् ॥९॥
मुखान्तं द्विद्विमात्रं स्याल्लम्बं सप्तमिति स्मृतम्
तत्पृष्ठशिरःपार्श्वे तु वक्त्रान्तं रज्जुं लम्बयेत् ॥१०॥
नवसूत्रमिति प्रोक्तमेकादशमिहोच्यते
कक्षतारं द्वयो सूत्रं लम्बयेद् रुद्र सूत्रकम् ॥११॥
अथवा पृष्ठमध्ये तु सूत्र मन्वन्त लम्बयेत्
चतुर्दिक्षु चतुर्मध्ये पञ्चसूत्रं प्रधानकम् ॥१२॥
अन्यथा पुरतो देशे सर्वं मध्यादि लम्बयेत्
पुटपार्श्वौ मखान्तौ च कुक्षौ बाहुपार्श्वकौ ॥१३॥
लम्बयेत्सूत्रमित्युक्तमेतदेकादश तथा
परहस्तौ पुटपार्श्वे सूत्रं त्यक्त्वा चतुष्टयम् ॥१४॥
शेषं तु सर्वसूत्रं स्यादासने च प्रकल्पयेत्
स्थानके रुद्र सूत्रं स्याल्लम्बयेद् विचक्षणः ॥१५॥
शिखामणिस् तु मौल्यग्रे मध्यमे मौलिमध्यमे
मौलिमूलं च पट्टं च ललाटस्य तु मध्यमे ॥१६॥
भ्रुवयोर्मध्यमे नासिमध्यमे हनुमध्यमे
हिक्काच मध्यमे चैव तथा हृदयमध्यमे ॥१७॥
तस्याधो नाभिमध्ये च मेढ्रमध्यं तथैव च
ऊरुमूलद्वयोर्मध्ये जान्वयोर्मध्यमे तथा ॥१८॥
नलका द्वयोर्मध्ये पार्ष्णियोर्मध्यमे तथा
तलमध्यद्वयोर्मध्यमङ्गुष्ठयोर्मध्यमे तथा ॥१९॥
एवं तु लम्बयेत्कुक्षिनासाग्रे स्पर्शयेद् बुधः
सूत्रात् शिखामणिं स्याद् द्व्यन्तरं द्वादशाङ्गुलम् ॥२०॥
सूत्रान्मौलिमूलान्तं रसमात्रान्तरं भवेत्
सूत्रं ललाटमध्यं तद् द्व्यन्तरं द्व्यङ्गुलं भवेत् ॥२१॥
हिक्कामध्यं तु सूत्रान्तं द्व्यन्तरं तु षडङ्गुलम्
तत्सूत्राद्धृदयान्तं च द्व्यन्तरं चार्धमात्रकम् ॥२२॥
तत्सूत्रान्नाभिसीमान्तं द्व्यन्तरं तु शिवाङ्गुलम्
तत्सूत्रान्मेढ्रमूलान्तं द्व्यन्तरं तु गुणाङ्गुलम् ॥२३॥
स्थानके चासने वापि स्थानकेषु विशेषतः
पार्श्वसूत्रद्वयं काये द्व्यन्तरं तदिहोच्यते ॥२४॥
तत्सूत्रादूरुमूलान्तं द्व्यन्तरं तद् द्विमात्रकम्
सूत्रं च जानुमध्यं तत्सार्धवेदाङ्गुलान्तरम् ॥२५॥
तत्सूत्राज्जङ्घयोर्मध्यं द्व्यन्तरं तु षडङ्गुलम्
सूत्रान्तं नलकान्तं स्यात्सार्धसप्ताङ्गुलं भवेत् ॥२६॥
समाङ्घ्रि स्थानकं कुर्यात् कायमृज्वायतं भवेत्
पादाङ्गुष्ठद्वयोर्मध्ये द्व्यन्तरं चाष्टमात्रकम् ॥२७॥
तलमध्यद्वयोर्मध्ये द्व्यन्तरं तु षडङ्गुलम्
तत्पार्ष्णि द्वयोर्मध्ये द्व्यन्तरं वेदमात्रकम् ॥२८॥
नलकान्तं द्वयोर्मध्ये द्व्यन्तरं तु रसाङ्गुलम्
जङ्घामध्यं द्वयोर्मध्ये द्वन्तरं तु शराङ्गुलम् ॥२९॥
जानुमध्यद्वयोर्मध्ये द्व्यन्तरं वेदमात्रकम्
ऊरुमध्यं द्व्ययोर्मध्ये द्व्यङ्गुलं चान्तरं भवेत् ॥३०॥
ऊरुमूलद्वयोर्मध्ये शिवमात्रान्तरं भवेत्
हस्तौ च लम्बनं कुर्यात्तदन्तरमिहोच्यते ॥३१॥
श्रोण्या कूर्परं पार्श्व च द्व्यन्तरं तु षडङ्गुलम्
प्रकोष्ठात्कट्यन्तरं द्व्यन्तरं च त्र्! यङ्गुलम् ॥३२॥
अथवा द्व्यङ्गुलं वापि मणिबन्ध दशाङ्गुलम्
मध्याङ्गुलं च पार्श्वं च द्व्यन्तरं दशमात्रकम् ॥३३॥
एवं तु देवदेवीनां स्थानके चासनेऽपि वा
ऊर्ध्वकायसमं कुर्यात् पद्मासनविशालकम् ॥३४॥
जान्वर्ध्वात्केशपर्यन्तं तत्समं त्रिभुजाविति
मानयेज्जानुबाह्ये तु बाहुबाह्यं तु तत्समम् ॥३५॥
बाहुजानुद्वयं चैव सव्यापसव्यं मानयेत्
मेढ्रान्तं गुल्फस्याक्षान्तं द्व्यन्तरं तु षडङ्गुलम् ॥३६॥
श्रोणिकूर्परपार्श्वे तु चान्तरं तु षडङ्गुलम्
प्रकोष्ठाग्रतलं चैव पञ्चांसौ परि विन्यस्येत् ॥३७॥
अर्धान्तस्यासनं चेत्तु एपादं प्रलम्बयेत्
तज्जानुपार्श्वके तस्य द्व्यत्र्! यङ्गुलोनमेव च ॥३८॥
तत्सूत्राल्लम्बपादादौ द्व्यन्तरं द्वादशाङ्गुलम्
सर्वेषां देवदेवीनामेवं प्रोक्तं तदासनम् ॥३९॥
पूर्वे च मध्यसूत्रं तु पृष्ठसूत्रं प्रलम्बयेत्
तदेव मौल्यग्रमध्ये मौलिमूलस्य मध्यमे ॥४०॥
तत्कृत्वाथ ककुन्मध्ये वंशमध्ये तु लम्बयेत्
जघनस्य द्वयोर्मध्ये ऊरुद्वयोश्च मध्यमे ॥४१॥
पृष्ठजानुद्वयोर्मध्ये पाणियोर्मध्ये लम्बयेत्
एवं तु वरसूत्रं स्यात्पार्श्वसूत्रमिहोच्यते ॥४२॥
कर्णयोः सुषिरमध्ये पार्श्वकायस्य मध्यमे
गुल्फस्य मध्यमे चैव पार्श्वसूत्रं प्रलम्बयेत् ॥४३॥
पिप्पलीबाह्यदेशे तु स्तनचूचुकमध्यमे
ऊरुजानु यथादेशे तर्जन्यङ्गुलमध्यमे ॥४४॥
कक्षसूत्रात्कटिपार्श्वेऽपरे साङ्गुलाष्टकम्
शक्तीनां कटिदेशे तु लम्बयेत्तु कनिष्ठके ॥४५॥
बाह्यके मध्यमे वापि कटी च पुटपार्श्वके
एवं तु कार्यसूत्रं स्याल्लम्बयेच्छिल्पिवित्तमः ॥४६॥
परहस्तपार्श्वयोः सूत्रं मानयेज्जानुपार्श्वकम्
सर्वाङ्गं च ऋजुं कुर्यात्पूर्वापर योजयेत् ॥४७॥
ऋज्वाङ्गकभावं सामान्यमिति विद्यते
सर्वेषां देवदेवीनां भङ्गमानमिहोच्यते ॥४८॥
आभङ्गं समभङ्गं च अतिभङ्गं त्रिधा भवेत्
त्रिचतुष्पञ्चमात्रं स्यात्तुङ्गमानमिति क्रमात् ॥४९॥
उष्णीषमध्यमे चैव ललाटं चैव मध्यमे
नासिकाग्रस्य मध्ये तु हिक्का यथोक्तपार्श्वके ॥५०॥
यथोक्तचूचुकस्यान्तं नाभिपार्श्वे यथोक्तवत्
यथोक्तश्चोरुगुल्फस्य पार्श्वसूत्रं प्रलम्बयेत् ॥५१॥
एवमाभङ्गसूत्रं स्यात् समभङ्गमिहोच्यते
उष्णीषात् तु यथापार्श्वे ललाटस्य तु पार्श्वके ॥५२॥
यत्तत्पुटपार्श्वे तु स्तनचूचुकमध्यमे
नाभिश्चोरुस्तथा जङ्घा यथोक्तं गुल्फपार्श्वके ॥५३॥
एवं तु लम्बयेत्सूत्रं समभङ्गमिति स्मृतम्
उष्णीषात् पूर्वपर्श्वे तु यथोक्तं नेत्रमध्यमे ॥५४॥
स्तनपार्श्वे चोरुमध्ये जानुजङ्घा मध्यतः
तद् गुल्फाक्षयोर्द्व्ययोर्मध्ये द्व्यन्तरं तु गुणाङ्गुलम् ॥५५॥
जानुद्वयोरन्तरं चाष्टमात्रं युक्त्या प्रयोजयेत्
ऊरुमूलद्वयोर्मध्ये द्व्यन्तरं द्व्यर्धमात्रकम् ॥५६॥
अङ्गुष्ठाग्रं द्वयोर्मध्यं द्व्यन्तरं द्वादशाङ्गुलम्
आभङ्गान्तरं प्रोक्तं समभङ्गमिहोच्यते ॥५७॥
तत्पादाङ्गुष्ठद्वयोर्मध्ये द्व्यन्तरं षोडशाङ्गुलम्
पार्ष्ण्यन्तरं चतुर्मात्रं दशाङ्गुलं जानुकान्तकम् ॥५८॥
ऊरुमूलद्वयोर्मध्ये द्व्यन्तरं त्वङ्गुलं भवेत्
एवं तु समभङ्गं स्यादतिभङ्गमिहोच्यते ॥५९॥
पार्ष्ण्यन्तरं शराङ्गुल्यं तत्पादाङ्गुष्ठयोरग्रके
तद्द्वयोर्मध्यमे विंशदङ्गुल्यं द्व्यन्तरं भवेत् ॥६०॥
तज्जानुद्वयोर्मध्ये द्व्यन्तरं द्वादशाङ्गुलम्
ऊरुमूलद्वयोर्मध्ये सार्धद्व्यङ्गुलकान्तकम् ॥६१॥
एवमतिभङ्गं स्यादेतानि युक्तितो न्यसेत्
एवं त्रिभङ्गसूत्रं तु द्व्यन्तरं मानमुच्यते ॥६२॥
सूत्रात्तु तल्ललाटान्तं द्व्यन्तरं च द्विमात्रकम्
तत्सूत्राज्जानुकान्तं च द्व्यन्तरं तु षडङ्गुलम् ॥६३॥
तत्सूत्रात् हृदयान्तं च द्व्यन्तरं चाङ्गुलं भवेत्
तत्सूत्रान्नाभिसीमान्तमध्यर्धाङ्गुलकान्तकम् ॥६४॥
तत्सूत्रान्मेढ्रसीमान्तं द्व्यन्तरं तु गुणांशकम्
तत्सूत्रादूरुमध्ये तु द्व्यन्तरं च द्विमात्रकम् ॥६५॥
तत्सूत्राज्जानुकान्तं स्याद् रसमात्रान्तरं भवेत्
तत्सूत्रं नलकान्तं स्याद् द्व्यन्तरं चाष्टमात्रकम् ॥६६॥
स्थितपादान्तरे चैव कुर्यात्तु वर्धकिस्तथा
नासाग्रे कुक्षिदेशे सूत्रं तु स्पर्शनं भवेत् ॥६७॥
शक्तीनां कुक्षिदेशे तु एकाङ्गुलान्तरं तु वा
शक्तीनां पुष्पहस्तं तु स्तनान्तं कटकाग्रकम् ॥६८॥
तदङ्गुष्ठावसनान्तं च द्व्यन्तरं चतुरङ्गुलम्
तच्छ्रोण्या कूर्परान्तं तु द्व्यन्तरं षडङ्गुलम् ॥६९॥
अंसादालम्बनं हस्तं द्व्यन्तरं पूर्ववद् भवेत्
तत्तद् विचिह्नवर्णादिभूषणाद्यैरलङ्कृतम् ॥७०॥
सर्वेषां वास्तुवस्तूनि प्रतिमादि यथोक्तवत्
कारयेत्सर्वसम्पत्त्यै भुक्तिमुक्तिफलप्रदम् ॥७१॥
अज्ञानाद् वास्तुवस्त्वादि विपरीतं चेद् विपत्करम्
तस्मात्परिहरेद् विद्वान्यथा पूर्वोक्तं सर्वतः ॥७२॥
एवं प्रोक्तं वास्तुवास्त्वादि हर्म्यैः
प्राकाराद्यैर्मण्डपाद्यैश्च शाला
भूपालाङ्गं भूपतीनां च लिङ्गैर्देवादीनां कारयेत्संपदार्थम् ॥७३॥
इति मानसारे वास्तुशास्त्रे प्रतिमाधिकारे प्रलम्बलक्षणविधानं नाम सप्तषष्टितमोऽध्यायः
N/A
References : N/A
Last Updated : October 07, 2022
TOP