मानसारम् - गरुडलक्षणम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
विहङ्गराजमानं च लक्षणं वक्ष्यतेऽधुना
मूलबेरसेमोत्तुङ्गं त्रिपादमर्धमेव वा ॥१॥
उत्सवोच्चं समं वापि द्विगुणं त्रिगुणमेव वा
त्रिगुणार्धाधिकं वापि तच्चतुर्गुणमेव वा ॥२॥
एवं नवोदयं प्रोक्तमुत्तमादि त्रयं त्रयम्
तत्तत्त्रिंशतिकं कृत्वा एकैकांशविवर्धनात् ॥३॥
पञ्चविंशच्छतान्तं स्याद्यच्छुभायादिसंभवम्
अथवाङ्गुलमानेन कल्पयेद् गरुडोदयम् ॥४॥
एकाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात्
त्रयोविंशच्छतान्तं स्यान्मानायादिं कारयेत् ॥५॥
द्विजराजायं वापि मानयेद् गरुडोदयम्
पीठतारसमाध्यर्धं पादोनं द्विगुणं तु वा ॥६॥
द्विगुणात्पादमाधिक्यं द्विगुणार्धाधिकं तु वा
पादोनत्रिगुणं वापि त्रिगुणं पादमधिकम् ॥७॥
एवं नवविधं मानं कन्यसादीनि कारयेत्
तदायामसमं वापि त्रिपादं चार्धमेव वा ॥८॥
उत्तमादि त्रयं प्रोक्तं गरुडस्योदयं विदुः
न कुर्यात्षट्शुभायादि कुर्यात्तदंशमानतः ॥९॥
स्थानकं चासनं चैव गमनं च यथाविधि
उष्णीषात्पादपर्यन्तं गृहितोत्तुङ्गं मानतः ॥१०॥
तत्तन्मानवशात्केचिन्मूलबेरवशान्न्यसेत्
उत्सवे चोत्सवं प्रोक्तमङ्गुलं मानविश्वतः ॥११॥
एवं मानं तु संग्राह्य यावत्प्रागुक्तवद् भवेत्
चलं वाप्यचलं वापि कारयेच्छिल्पवित्तमः ॥१२॥
षड्वर्गायादिषु सुलक्षणं वक्ष्यतेऽधुना
सर्वेषां वाहनानां चायादांश्च यथा तथा ॥१३॥
यथावाहनतुङ्गे तु वृद्धिहान्या यथाक्रम
गरुडं चैव हंसं च वृषभं चैव सिंहके ॥१४॥
आयमष्टाभिर्वृद्धिः स्याद् द्वादशाक्षयमेव च
पञ्चवेदैश्च वृद्धिः स्याद् व्ययं हत्वा दशमेव वा ॥१५॥
योनिश्च त्रय वृद्धिः स्याद् धृदे चाष्टकमेव च
तदृक्षोऽष्टकवृद्धिः स्याद् गुप्तविंशक्षयो भवेत् ॥१६॥
वारं ग्रहेण वृद्धिः स्यात्सप्तमी च क्षयो भवेत्
अंशं च चतुर्वृद्धिः च नवमी च क्षयो भवेत् ॥१७॥
तच्छेषं सर्वमायादि षड्वर्गं चैव कारयेत्
आयाधिक्यं व्ययं हीनं चोत्तरं तु व्ययाधिकम् ॥१८॥
ध्वजो सिंहो वृषो हस्तो शुभयोनिरिति स्मृतम्
सिंहे च गजयोनिश्चेत् शुभं तस्माद्विना गजम् ॥१९॥
विवत्प्रत्यरगोहस्ति हीनान्यानदिनं शुभम्
सौर्यार्काङ्गारवारं च वर्जयेच्छुभमन्यथा ॥२०॥
तस्करादि न षण्डं च प्रेष्यांशानि विवर्जयेत्
एवमायादिकं कुर्यादङ्गमानं प्रवक्ष्यते ॥२१॥
उवार चरणरविबन्धैः द्वादशार्कार्कभानु
द्वयरसगुणचतुष्कं बन्धकेशाननं च
गलधरमधरगुह्ये स्थाणुजान्वस्त्रिकं तत्
पदमिति गरुडतुङ्गं नन्दतालं क्रमेण ॥२२॥
अथ सिंहपदतलानां पञ्चादशदशांशम् ॥२३॥
वदनं द्विगुणं बाह्यायतं कूर्पराक्षं प्रमुखकरैर्याष्टिपदम्
तलातलं तत्कथितमिति पुराणैः सुरिभिस्तत्र तन्त्रज्ञैः ॥२४॥
वनविपुलतालं कर्णमष्टांशतारम्
विस्तृतं शरयुगांशं कक्षयोरन्तरस्त्रम्
हृदयविस्तृतं चैकाधिक्यमष्टद्वयांशम्
उदरतति युगष्टं श्रोणितुल्यं च तारम् ॥२५॥
तस्याधः कटिविशालं सप्तपङ्क्त्यंशं चोरुः
वृत्तं तत्समविशालं मूलपिण्डाष्टभागम्
तत्र जैनन जङ्घामूलविस्तारमध्ये
विस्तृतचर युगांशं गुल्फविस्तारमेव ॥२६॥
पदमिति विपुल भूताङ्गुष्ठदीर्घं गुणांशम्
तदपि च सम विमूह्यातर्जनीदीर्घमुक्तम्
नवपदसदृशमन्यैरङ्गुली चान्यतुर्यम्
नराभिमानं शिल्पिविद्वद्भिरेव ॥२७॥
मुनिरसशरयुगंशं बाहुसन्धिप्रदेशे
प्रमुखरविबिशालैर्मध्यमाग्रक्रमेण
अनलमणिविशालां तत्तदायामषड्भिः
प्रसृतरसयुगांशं मध्यमात्रायतं च ॥२८॥
शरयुगयवाधिकांशानामिका तर्जनीयौ
गुणमलं कनिष्ठदीर्घाङ्गुष्ठकायाममेतत्
त्रयकृतमुखविधिज्ञैः स्मायते चाक्षिकान्तम्
स्फुटमिति मतिः वेन्द्रै श्च सदृक् तारम् ॥२९॥
भ्रुवयुतनयनकेशान्तयोर्मध्यदेशे
गुणयुतनयनमेवं तत्पुटान्तयोस्तत्
युग यवविहृतदीर्घं तद्गोजिमूलात्तु नाभि
तदुदयविपरीतमंशं विहृतस्याग्रमंशम् ॥३०॥
विशालाधिकगोजिकाग्र चोत्तरमष्टार्धमात्रम्
विस्तृततमिव तदुच्चं वेदमात्रायतं च
अधरविहृतपादत्रितुङ्गश्रायतान्तम्
विस्तृतदीर्घशेषमन्तं तु युक्त्या ॥३१॥
वक्त्रायामं तत्समं नासिकाग्रम्
युक्त्या मानं कर्णरन्ध्रावसानम्
हन्वंशं तं श्रोत्रतुङ्गं तदर्धम्
तदर्धं विस्तारं नालमेवं तथैव ॥३२॥
एवं प्रोक्तानुक्तमानं तु सर्वम्
मानं कुर्यात्पङ्क्तितालोक्तवत्
हावं यावत्कूर्परबन्धकान्तम्
बाहुपक्षौ चाङ्गुलं कञ्चुकेन ॥३३॥
नासिका शुकतुण्डं पदाग्रे
हंसकास्यदंष्ट्रवत्कुर्यात्
श्वेतवर्णनखैरपि वक्त्रयुक्
श्यामवर्णमतितुण्डाग्रके ॥३४॥
अष्टनागविभूषणपक्षिवत्पक्षयुक्
उग्रदृक् मकुटं सकरण्डकम्
वर्णनीलसमरत्नमण्डलं कृतम्
तप्तहेमनिभं गरुडं भवेत् ॥३५॥
पञ्चवर्णसमन्त्रितपक्षयुक्
अङ्कुरवत्कर्णशिरावृतम्
कुञ्चितः सहितगमनेऽपि च
सञ्चितस्थितभावमिति स्मृतम् ॥३६॥
मूर्ध्नि शङ्खं क्षीरवर्णावृतं च
वामे कर्णे पद्मवर्णाभपद्मा
सव्ये कर्णे तन्महापद्ममेव
धुम्रवर्णं हारकार्कोटकं च ॥३७॥
गुलिकस्कन्धौ लम्बयेत्कृष्णवर्णम्
व्याधृक्वर्णं वा सङ्गिवक्त्रसूत्रम्
अन्तन्तं शुक्लवर्णाभं वामप्रकोष्ठे
हिरण्यवर्णं तार्क्ष्यकस्य कटकम् ॥३८॥
केचित्तच्छ्रयार्थं तु तार्क्ष्ये वर्णं विशेषतः
केशान्तात्कर्णसीमान्तं श्यामनीलाग्रसीमकम् ॥३९॥
भित्तिकाद्धृदयान्तं च तद्द्वयो कूर्परान्तकौ
पञ्चवर्णसमं श्रितपक्षकांशुककञ्चुकी ॥४०॥
हृदयात्कटिसूत्रान्तं प्रकोष्ठादिकराग्रयोः
पीतवर्णमिति प्रोक्तं तस्माद् जानुकान्तकम् ॥४१॥
रक्तवर्णं तु पादान्तं श्वेतवर्णनिभं भवेत्
द्विभुजाग्रं च वक्त्रं च द्विपादौ कुञ्चितौ भवेत् ॥४२॥
स्थानकं चासनं वापि विष्णुं ध्यात्वा कृताञ्जलिः
सर्वालङ्कारसंयुक्तं ग्रामे स्थाप्यं स्वतन्त्रकम् ॥४३॥
एवमैश्वर्यसिद्धिः स्यात्तन्मात्रैरर्चयेत्सुधीः
अभिचारादिकाम्यर्थं तार्क्ष्यरूपं विशेषतः ॥४४॥
पाद स्थानकं कुर्याद् वक्त्रं चासनं भागतः
सर्वाङ्गं स्वर्णवर्णं स्यात्पक्षकञ्चुकिपूर्वकम् ॥४५॥
वपुषं तु निर्वाणमधोहस्तौ कृताञ्जलिम्
शीर्षं च सिंहपत्रैश्च संयुक्तं पञ्चवर्णयुक् ॥४६॥
नाभिषेकं शिरोर्ध्वे तु कुक्कुटस्य शिरोऽग्रवत्
रक्तवर्णं तु पुच्छाग्रं पञ्चमान्तं तदायतम् ॥४७॥
घनं चोर्ध्ववक्त्रं च न प्रच्छादनमास्यकम्
सप्ताष्टपूर्ववत्साङ्गेर्वर्णवैपर्यं विश्वतः ॥४८॥
सौग्रामे क्षेत्रसीमान्ते चान्यग्र निरीक्षणम्
क्षणिकालयं संस्थाप्य पूजयेत्तन्त्रवित्तमः ॥४९॥
त्रिनाडि त्रिदिने वापि त्रिपक्षे वा त्रिमासके
नित्यं त्रिकालं संपूज्य शत्रुनाशं न संशयः ॥५०॥
रिपुसंग्रहणार्थं चेद्धस्तौ रात्रौ च कारयेत्
युद्धकाले रिपुसंभं स्तम्भं हस्तौ च बन्धनम् ॥५१॥
शिलामृण्मये वापि दारुजे कटिशर्करा
एतेषां वैनतेयं च वर्णसंस्कारमेव च ॥५२॥
त्रिंशत्यंशमग्रपक्षम्
तस्मादूके पक्षकैकांशहीनम्
तद्वदग्रे मूलतारं शरांशम्
पक्षैः सर्वैश्चाग्रतारं यथेष्टम् ॥५३॥
बाह्याबाह्ये पक्षसंयुक्तमेतत्
बाह्योश्चाग्रे संयुक्तं चाग्रपत्रम्
मानं कृत्वा पञ्चपक्षैः प्रधानम्
मानानुक्तं कन्यसा शोभनार्थम् ॥५४॥
पीतं श्वेतं श्यामरक्तं च कृष्णम्
मूलाग्रान्तं पञ्चवर्णं क्रमेण ॥५५॥
मालावर्धांशवत् कर्णसंयुक्तम्
श्रोण्यां च पक्षैः पङ्क्तितः पक्षधा स्यात्
वक्त्रं तुङ्गं विस्तृतं विहीनके
कर्तुर्मरणं न संशयः ॥५६॥
यत्र मानं विधिवत्प्रकारयेत्पुत्रवृद्धिः ॥५७॥
इति मानसारे वास्तुशास्त्रे गरुडमानविधानं एकषष्टितमोऽध्यायः
N/A
References : N/A
Last Updated : October 07, 2022
TOP