मानसारम् - विमानलक्षणम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
विमानलक्षणं चैव संक्षेपाद्वक्ष्यतेऽधुना
तैतिलानां द्विजातीनां वर्णानां वासयोग्यकम् ॥१॥
एकभूमिविमानादिरविभूम्यवसानकम्
भक्तिसंख्या तदाकारं स्थूपिकाद्यैश्च लक्षणम् ॥२॥
लुपमानक्रमं सर्वं स्तूपिकास्थापनं क्रमात्
खानयेत्भूतलं श्रेष्ठं पुरुषाञ्जलिमात्रकम् ॥३॥
जलान्तं वा शिलान्तं वा पूरयेद्वालुकैर्जलैः
हस्तिपादाकृतिं दारुस्तम्भेन प्रहारयेत् ॥४॥
एवं दृढकरं चोर्ध्वे यथाशास्त्रं तु कारयेत्
एकभूमिविमाने तु चोक्तवत्करसंग्रहम् ॥५॥
एवभक्त्या द्विभक्त्या वा त्रिचतुष्पञ्चभागिकम्
षड्भागं षड्विधं प्रोक्तं क्षुद्र मेकतलं भवेत् ॥६॥
पञ्चषट्सप्तभागं स्यान्मध्यममेकतलं भवेत्
षट्सप्ताष्टविभागं स्यात् श्रेष्ठमेकदलं भवेत् ॥७॥
पञ्चषट्सप्तभक्त्या च क्षुद्रं च द्वितलं भवेत्
षट्सप्ताष्टभक्त्या च मध्यमं द्वितलेन च ॥८॥
सप्ताष्टनवभागं स्यादुत्तमं द्वितलं न्यसेत्
सप्ताष्टभक्तिकं कुर्यात्क्षुद्रं च त्रितलं भवेत् ॥९॥
नन्दपङ्क्त्यंश तेनैव मध्यमं त्रितलं भवेत्॥
एकपङ्क्त्यर्कभागेन चोत्तमं त्रितलं भवेत् ॥१०॥
अष्टनन्ददशांशं स्यात्क्षुद्र माने चतुस्तले
नन्दपङ्क्तिरुद्र भागं स्यान्मध्यमे च चतुस्तले ॥११॥
पङ्क्तिरेकादशार्कं स्याद्भागं श्रेष्ठे चतुस्तले
नन्दपङ्क्त्येकादशार्कं भागं सद्मविशालकम् ॥१२॥
कुर्यात्तु शिल्पविद्द्वभिः क्षुद्र पञ्चतले न्यसेत्
पङ्क्त्येकपङ्क्तिरर्कांशः द्वादशांशे विशालके ॥१३॥
एतत्तु मध्यमं पञ्चतलं हर्म्ये व कारयेत्
ईशद्वादशकैकार्कं मनुभागं तथैव च ॥१४॥
एतद्भागविशाले तु श्रेष्ठं पञ्चतलं भवेत्
अर्कसैकार्कभागं तु मनुपञ्चादशांशकम् ॥१५॥
एतद्वै पूषके कुर्यात्क्षुद्र षट्तलहर्म्यकम्
सैकार्कांशं मुनिं चांशं तिथिषोडशभागिकम् ॥१६॥
षट्तलं मध्यमं प्रोक्तं कुर्याद्धर्म्यविशालके
त्रिचतुः पञ्चषट्सप्तैकाधिकं दशभागिकम् ॥१७॥
श्रेष्ठं षट्तलमित्युक्तं यथा कुर्याद्विचक्षणः
चतुर्दशांशकं पञ्चदशांशं षोडशांशकम् ॥१८॥
सप्तदशाष्टपङ्क्त्यंशं क्षुद्र सप्ततलं तु वा
पञ्चादशांशकं चैव षोडशांशकमेव वा ॥१९॥
सप्तादशांशकं भागं चाष्टपङ्क्यंशभागिकम्
एतन्मध्यममाने तु कुर्यात्तु सप्तभूमिके ॥२०॥
विस्ताराष्टद्विभागं च तत्सप्तदशभागिकम्
तदष्टादशभागं स्यान्नन्दपङ्क्त्यंशमेव वा ॥२१॥
श्रेष्ठं सप्ततलं प्रोक्तं कुर्यात्तत्र विचक्षणः
सप्तादशांशकं चैव विस्ताराष्टादशांशकम् ॥२२॥
नवपङ्क्त्यंशकं चैव विशाले द्विदशांशकम्
क्षुद्र मष्टतलं ह्येवं हर्म्यं कुर्यात्तु भागतः ॥२३॥
नवमेव द्विभागं स्यान्नन्दपङ्क्त्यंशकं तथा
विंशत्यांशकमाधिक्यं भागं हर्म्यविशालके ॥२४॥
मध्यमाष्टतलं कुर्याद्भागमानविमानके
नवाधिकदशांशं स्याद्विंशतिश्चैकविंशतिः ॥२५॥
द्वाविंशतिश्च भागं च श्रेष्ठमष्टतलं तथा
विंशत्यंशं विशाले तु चैक हस्तं तथैव च ॥२६॥
द्वाविंशतिं च भागं च त्रयोविंशतिभागिकम्
क्षुद्रं नवतलं ह्येवं कुर्याद्भागं विमानके ॥२७॥
एकविंशतिभागं च तद्द्वाविंशतिभागिकम्
त्रयोविंशतिभागं स्याच्चतुर्विंशतिभागिकम् ॥२८॥
मध्यमं नवतलं कुर्यान्मध्यमे तद्विशालके
द्वाविंशतिं च भागं स्यात्त्रयोविंशतिभागिकम् ॥२९॥
चतुर्विंशतिकं च पञ्चविंशतिकांशकम्
श्रेष्ठं नवतलं प्रोक्तं कुर्यात्तु शिल्पवित्तमः ॥३०॥
त्रयोविंशतिभागं स्याच्चतुर्विंशतिभागिकम्
पञ्चविंशतिभागं च षड्विंशतिभागिकम् ॥३१॥
क्षुद्रं दशतलं कुर्याद्भागं समविशालके
चतुर्विंशतिकं चैव पञ्चविंशतिक तथा ॥३२॥
षड्विंशतिश्च भागं च सप्तविंशतिभागिकम्
मध्यमं दशतलं कुर्याद्विमानस्य विशालकम् ॥३३॥
पञ्चविंशतिभागं स्यात्षडविंशतिभागिकम्
सप्तविंशतिभागं स्यादष्टाविंशतिभागिकम् ॥३४॥
श्रेष्ठं पङ्क्तितलं कुर्याद्भागं हर्म्यविशालके
षड्विंशतिश्च भागं स्यात्सप्तविंशतिभागिकम् ॥३५॥
अष्टाविंशतिभागं स्यान्नवविंशतिभागिकम्
क्षुद्र मेकादशतलं भागमानविशालके ॥३६॥
सप्तविंशतिभागं च अष्टाविंशतिभागिकम्
नवविंशतिकं चैव त्रिंशद्भागविशालकम् ॥३७॥
एकादशतलं प्रोक्तं मध्यमं तद्विमानके
अष्टाविंशतिभागं स्यान्नवविंशतिभागिकम् ॥३८॥
तत्तत्त्रिंशतिकं चैव चैकत्रिंशांशकं तथा
एकादशतलं श्रेष्ठं हर्म्यमूलविशालके ॥३९॥
नवविंशतिभागं स्यात्त्रिंशदंशविशालके
एकत्रिंशद्विभागं स्याद्द्वात्रिंशांशकं भवेत् ॥४०॥
क्षुद्र द्वादशभूमिः स्याद्भागमेवं प्रकल्पयेत्
विशाले त्रिंशदंशं स्यादेकत्रिंशं च भागिकम् ॥४१॥
द्वात्रिंशद्विभागं चैव त्रयस्त्रिंशद्विभागिकम्
मध्यमं द्वादशभूमिं भागमानं विशालके ॥४२॥
द्वात्रिंशतिभागं स्यात्त्रयस्त्रिंशच्च भागिकम्
चतुस्त्रिंशतिभागं च पञ्चत्रिंशद्विशालके ॥४३॥
श्रेष्ठद्वादशभूम्याश्च भागं कुर्याद्विचक्षणः
कर्णपादस्य बाह्ये तु मध्यपादस्य मध्यमे ॥४४॥
एवं भागावसानं स्याद्युक्तियुक्तं प्रयोजयेत्
मूलादिस्तूपिपर्यन्तं वेदाश्रं चायताश्रकम् ॥४५॥
द्व्यश्रं वृत्ताकृतिं वाथ ग्रीवादिशिखराकृतिः
स्तूपिकात्रयसंयुक्तं द्वयं वा चैकमेव वा ॥४६॥
चतुरश्राकृतिं यस् तु नागरं तत्प्रकीर्तितम्
मूलाग्रं वृत्तमाकारं तद्वृत्तायतमेव वा ॥४७॥
ग्रीवादिस्तूपिपर्यन्तं युक्ताथो तद्युगाश्रकम्
वृत्तस्याग्रे द्व्यश्रकं दद्वेसरीनामकं भवेत् ॥४८॥
मूलाग्रात्स्तूपिपर्यन्तं अष्टाश्रकं वा षडश्रकम्
तदग्रं चायतं वापि ग्रीवस्याधो युगाश्रकम् ॥४९॥
पूर्ववच्चोर्ध्वदेशं स्याद्द्राविडं परिकीर्तितम्
समाश्रकशिखायुक्तं चायामे तच्छिखात्रयम् ॥५०॥
द्व्यश्रवृत्तोपरि स्तूपि वृत्तं वा चतुरश्रकम्
पद्मादिकुड्मलान्तं स्यादुक्तवद्वाकृति न्यसेत् ॥५१॥
सपादरत्निमारभ्य षडङ्गुलिविवर्धनात्
चतुर्हस्तावसानं स्यात्प्रत्येकं तु चतुर्विधम् ॥५२॥
कन्यसादुत्तमान्त स्यादेकाद्यर्कतलान्तकम्
एतेषां स्तूपिकोत्तुङ्गमथजातीवशोच्यते ॥५३॥
शूद्रा णां चैकहस्तं स्याद्द्विहस्तं वैश्यजातिनाम्
सार्धद्विहस्तमानेन युवराजस्य योग्यकम् ॥५४॥
त्रिहस्तं भूपतीनां च सार्धत्रि तु भूसुराम्
तैतलानां चतुर्हस्तं स्तूपितुङ्गं प्रकल्पयेत् ॥५५॥
षोडशैकांशकं कृत्वा पालिकाकुड्मलं कृतम्
सार्धांशं पालिकोच्यं स्यादर्धांशं वाजनं भवेत् ॥५६॥
पद्मतुङ्गं त्रिभागं च कन्धरं चैकभागिकम्
अर्धेन कम्पपद्मं स्यात्कुम्भतुङ्गं द्वयांशकम् ॥५७॥
ऊर्ध्वे च सार्धभागेन दलं पद्मं प्रकल्पयेत्
तदूर्ध्वे च त्रिभागेन तद्दण्डोदयमीरितम् ॥५८॥
अर्धांशं कम्पपद्मं स्याद्वाजनं चोपभागिकम्
तदूर्ध्वे कम्पपद्मं च सार्धभागेन योजयेत् ॥५९॥
द्विभागं कुड्मलोत्तुङ्गं दण्डतुङ्गस्य मध्यमे
यथालङ्कारयुक्तं चेत्पद्मकेसरमावृतम् ॥६०॥
अथवा स्तूपिकोत्तुङ्गं दण्डमानेन कारयेत्
पालिकोत्तुङ्गं दण्डेन पद्मतुङ्गं त्रिदण्डकम् ॥६१॥
कन्धरं चैकदण्डं स्यात् कुम्भोच्यार्धद्विदण्डकम्
एकदण्डोर्ध्वषट्टं स्याद्द्विदण्डं कुड्मलोदयम् ॥६२॥
शेषं तन्मध्यदण्डं स्यात्पूर्ववत्समलङ्कृतम्
शिरतारे तु भूतांशं वह्न्यंशं पालिकायतम् ॥६३॥
तद्विशाले तु भूतांशं सार्धवेदांश विस्तृतम्
अब्जतारं त्रिभागैकं तत्त्रिभागैकभागिकम् ॥६४॥
पद्मस्योपरि कर्णं स्यात्तत्त्रिधा कुम्भविस्तृतम्
कुम्भतारं नवांशैकं भाग दण्डविशालकम् ॥६५॥
दण्डतारं त्रिधा पालि तत्र भागैक कुड्मलम्
महाब्जाष्टदलं कुर्याच्छेषं युक्त्या प्रयोजयेत् ॥६६॥
तद्वयो विहृतं चाधस्तदर्धाधारपट्टिका
तदर्धं च तथा पट्टं स्यात्तद्द्वयं पद्मं तस्याथ ॥६७॥
शेषं तु कुड्मलं कुर्याद्विस्तारं युक्तितो न्यसेत्
शिला वा चेष्टकं दारु लोहं चैव प्रकल्पयत् ॥६८॥
शुद्धं मिश्रं च संकीर्णं विमानं त्रिविधं भवेत्
एकद्र व्यं तु शुद्धं स्याद्द्विद्र व्यं मिश्रहर्म्यकम् ॥६९॥
त्रिद्र व्यं हर्म्य संकीर्णं शिलांचेष्टकदारुणम्
एकद्र व्येण युक्तं च कुर्याच्छिल्पिवित्तमः ॥७०॥
स्तूपिकीलम्
स्तूपिकीलायतं तारं लक्षणं वक्ष्यतेऽधुना
ऊर्ध्वभूम्या यथापादं तस्यायाम समं तु वा ॥७१॥
गलोच्चाध्यर्धतुङ्गं वा स्तूपिकीलायतं तथा
तद्विष्कम्भसम व्यासं स्तूपिकीलस्य मूलके ॥७२॥
अथवाङ्गुलमानेन कीलमूलविशालकम्
त्रिचतुर्विंशाङ्गुलं लोहे दारुकीलं तु पूर्ववत् ॥७३॥
कीलायामं त्रिभागैकं मूले वेदाश्रमीरितम्
मध्ये चाष्टाश्रसंयुक्तं चाग्र वृत्ताकृतिस्तथा ॥७४॥
एकाङ्गुलाग्रविस्तारं मूलाग्रान्तं क्षयं क्रमात्
अथवा शिखराकारं कीलं मध्याकृतिस्तथा ॥७५॥
स्तूपिकीलविधृता त्रिगुणा स्यात् बहिश्चरणाद्दैर्घ्यमुक्तम्
कीलाधारविस्तृतार्ध तद्घनं तत्कीलमूलमथ तत्र योज्यम् ॥७६॥
ताम्रजं चायसं दारु लभेत कीलं प्रकल्पयेत्
खदिरं खादिरं चैव तिन्त्रिणी खारमेव च ॥७७॥
उक्तवद्दारु संगृह्य स्थपतिः स्थापकैः सह
तत्काले ज्ञापयेद्विद्वान् स्तूपिकीलस्य वक्त्रकम् ॥७८॥
ऋज्वङ्गं च न भिन्नानि तक्षणात्तक्षकेण तु
स्तूपिकीलमिदं प्रोक्तं तदूर्ध्वष्टकलक्षणम् ॥७९॥
मानं प्रागुक्तवत्कुर्यात्पुंस्त्री चेष्टकां विदुः
मूलाग्रं च समतारं तु चेष्टका पुरुष स्मृतम् ॥८०॥
आनुपूर्व्यं कृशं तारं वनिता चेष्टका तथा
शिलाहर्म्ये शिलायुक्तं चेष्टके चेष्टका तथा ॥८१॥
पुंविमानाच्च पुरुषं वनिता वनितां क्षिपेत्
शिलासंग्रहकाले तु ज्ञापयेत्पुंस्त्रियं तथा ॥८२॥
एषा मूर्ध्नीष्टका प्रोक्ता लुपालक्षणमुच्यते
लुपालक्षणम्
स्तूपितुङ्गद्वयं वाथ विमानं च वशोदयम् ॥८३॥
एतत्तु शिखरोत्तुङ्गं तदर्धं गलतुङ्गकम्
लुपारूपं शिखरं स्याद्ग्रीवान्तं तल्पवासनम् ॥८४॥
उत्तरादिमृणालान्तं प्रस्तरस्योक्तवद्गले
तदूर्ध्वे दण्डकं कुर्याल्लुपमानमिहोच्यते ॥८५॥
देवानां मानुषाणां च लुपमानं यथाक्रमम्
अम्बरं च व्ययं ज्योतिर्गगनं च विहायसि ॥८६॥
अनन्तं चान्तरीक्षं च पुष्कलं चाष्टधालुपाः
देवानां हर्म्यके कुर्यादुक्तमेवं पुरातनैः ॥८७॥
मही ज्या काश्यपी क्षौणी चोर्वी गोत्रा वसुंधरा
वसुधा चाष्टधा प्रोक्ता कारयेन्मानुषालये ॥८८॥
सर्वेषां देवतायोग्यं नराणां चोक्तयोग्यकम्
सुराणामुक्तमानं यन्मर्त्यैस्तन्रेष्य यत्नतः ॥८९॥
शिखरोदयतत्तुल्यं विस्तारोन्नतमम्बरम्
अष्टांशं चैकहीनं तु विस्तारोन्नतो वियत् ॥९०॥
सप्तभागैकहीनं तु विस्तृतं ज्योतिर्मानतः
षट्भागैकहीनं तु विस्तारं गगनस्य स्मृतम् ॥९१॥
पञ्चभागैकहीनं तु विस्तारं तद्विहायसि
चतुर्भागैकहीनं तु चानन्ते तद्विशालकम् ॥९२॥
उत्तुङ्गं त्रित्रिभागैकहीनं तारान्तरिक्षकम्
तुङ्गे द्व्यंशैकहीनं स्याद्वासं पुष्कलमीरितम् ॥९३॥
तुङ्गद्वयान्तं यत्कर्णं मानं हस्तायतं तथा
अथवा शिखरोत्तुङ्गमष्टभाग विभाजिते ॥९४॥
एकांशाधिकविस्तारमुक्तमेतन्मही बुधैः
तुङ्गे सप्ताङ्ग चाष्टभागाद्यं ज्या चेति स्मृतम् ॥९५॥
तुङ्गे षड्भागविस्तारे सप्तांशं काश्यपी तथा
तुङ्गे पञ्चांश षड्भागं व्यास क्षौणिरिति स्मृतम् ॥९६॥
तुङ्गे वेदांशकं व्यासं पञ्चांशं चोर्वी कथ्यते
तुङ्गे गुणांश वेदांशं विस्तारं गोत्रमीरितम् ॥९७॥
तुङ्गे द्व्यंशं च विस्तारं त्र्! यंशमेव वसुधरा
तुङ्गमेकांशकं व्यासं द्विभागं वसुधा भवेत् ॥९८॥
पूर्ववत्कर्णमानेन हस्तदीर्घमुदीरितम्
शिखरे चावृते पारे सभामण्डपगोपुरे ॥९९॥
शाला च नासिकाभद्रे कूटनीयैस्तु तोरणैः
कपोतो पञ्जरं चैव मुष्टिबन्धादि सर्वशः ॥१००॥
हस्तिहस्तादिमानानां मानयेच्छिल्पिवित्तमः
एतत्तु मध्यदेशे तु तस्मात्कर्णावसानकम् ॥१०१॥
क्रमात्सोपानवत्कुर्यात्तन्मानं वक्ष्यतेऽधुना
मध्यकर्णद्वयोर्मध्ये विकल्पं कल्पयेत्सुधीः ॥१०२॥
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टकरत्निकम्
दशमेकादशं चैव द्वादशं च लुपान्वितम् ॥१०३॥
केचित्त्वेकेन वृद्ध्या तु एकपञ्चलुपान्तकम्
यत्सोपानक्रमं कुर्यादेतच्छायालुपादिकम् ॥१०४॥
देवानां चक्रवर्तीनां विकल्प योग्य सावरः
तस्माद्विद्वान् लुपेनैव हीनं शूद्र तः क्रमात् ॥१०५॥
मुख्यं हर्म्यमिदं कुर्यात्क्षुद्र हर्म्ये विशेषतः
एकादशविकल्पान्तं भूसुराणां तु योग्यकम् ॥१०६॥
नवान्तं भूपतीनां चैकाद्विकल्पमीरितम्
एकाद्यष्टविकल्पान्तं युवराजस्य योग्यकम् ॥१०७॥
एकात्सप्तविकल्पान्तं वैश्यानां च प्रकीर्तितम्
एकात्पञ्चविकल्पान्तं शूद्रा णां तु योग्यकम् ॥१०८॥
अन्यदितरजातीनां विकल्पत्रय पूर्ववत्
एवमुक्तं लुपाश्रेणीं कुर्यात्तु शिल्पिवित्तमः ॥१०९॥
मध्ये लुपायतं मानं कर्णविस्तारमिष्यते
मध्यादि चान्यथा सर्वं विकल्पं तद्विभाजितम् ॥११०॥
तत्तत्कर्णस्य मानेन विशालं स्यात्पूर्ववत्
तत्तत्कर्णस्य मानेन लुपादीर्घमुदीरितम् ॥१११॥
तत्समं वा सपादं वा सार्धार्धकमेव वा
दीर्घत्वमालम्बनं लम्ब्य विस्तारस्य तु निर्गमम् ॥११२॥
तस्य मानं यथाभागं युक्त्या तत्रैव योजयेत्
त्रिचतुष्पञ्चषण्मात्रं लुपामूलविशालकम् ॥११३॥
समं वाथ त्रिपादं वा चार्ध वालम्बनान्तकम्
एकद्वित्र्! यङ्गुलं वापि घनं सूर्याङ्गसंमतम् ॥११४॥
अन्यत्सर्वाङ्गविस्तारं यथायुक्तिवशान्न्यसेत्
एकद्वित्र्! यवसानान्तं स्तम्भस्योपरि विन्यसेत् ॥११५॥
लुपां प्रागुक्तविस्तारं तत्तद्वंशाङ्घ्रिकान्तकम्
अधः पादस्य लुपाद्यैश्च तत्र दोषो न विद्यते ॥११६॥
कर्णात्कन्या वसानं स्यान्नवसूत्रं प्रसारयेत्
तत्सूत्रादधोदेशे कुक्षि ज्ञात्वा पुरोर्ध्वके ॥११७॥
लुपाकुक्षिप्रदेशे तु चत्वासूत्रावसानकम्
अर्धचन्द्र वदाकारं युक्त्या चन्द्रं यथेष्टकम् ॥११८॥
मूलादिवासनान्तं स्याच्छिद्र मेकं द्वयं तु वा
चन्द्रा न्ते क्षेपणं युक्तं छिद्रं सूत्रादधो न्यसेत् ॥११९॥
तच्छिद्रे वेत्रसंयुक्तं लुपाधारात्तु वित्तमः
श्रेण्यां मध्यलुपाः सर्वे लुपासंख्या यथेष्टका ॥१२०॥
करवीरबहुवर्णा संपुटाभं विकल्पयेत्
एककुड्मलयुग्येन कर्णायां च लुपान्वितम् ॥१२१॥
अग्रं विकासिताभं स्यान्मूलं च निविडान्वितम्
कर्णे चैकलुपा पार्श्वे लुपाबहुल योजयेत् ॥१२२॥
ह्रस्वदीर्घायतः सर्वं नालिकेरदलान्वितम्
बहुवाहुलुपाकर्णेषु बहुकुड्मल योजयेत् ॥१२३॥
एवं च लक्षणं प्रोक्तं कटकाकारं तु योजयेत्
दण्डिकोर्ध्वे वाजनं स्याल्लुपान्तस्योपरि न्यसेत् ॥१२४॥
क्षेपणेन रूषाकारं वामावामं तु योजयेत्
एतत्तु ममला वृत्तं देवानां हर्म्यके न्यसेत् ॥१२५॥
वृत्तं वाथ षडश्रं वा अष्टाश्रं वा तदायते
कुर्यात्तत्तल्लुपामानं पूर्ववत्परिकल्पयेत् ॥१२६॥
अहमेतं चैकपञ्चांशं लुपा वर्णयथाक्रमम्
तस्माद्विहस्तहीनेन सत्रि चत्वारिकान्तकम् ॥१२७॥
देवानां मानुषाणां च शूद्र जात्यावसानकम्
मध्यकर्णलुपान्येतत्सर्वं सोपानवत्कुरु ॥१२८॥
शङ्खतुण्डवदाकारं शङ्खावर्तविकल्पकम्
प्रगुक्तदक्षिणावर्तं कुर्यात्तु बहुवाजनम् ॥१२९॥
शङ्खावर्तमिदं प्रोक्तं देवहर्म्ये तु योजयेत्
सर्वेषां च लुपानां च ऋजुवक्रं तु वा पुनः ॥१३०॥
बहुचित्रं बहुच्छिद्रं बहुवेत्रं यथाबलम्
यथाशोभं तथा कुर्याच्छेषं युक्त्या प्रयोजयेत् ॥१३१॥
एवमुक्तं लुपा चोर्ध्वं शिखरे वाम्बरेऽपि वा
फलकाक्षेपणं वापि ताम्रं वायसा कीलयेत् ॥१३२॥
हेमजेन करोटी वा मृत्करोटी विधानयेत्
गुडोदकसुधायुक्तं युक्त्या च लेपयेत्सुधीः ॥१३३॥
अन्तर्वापि बहिर्वपि चोर्ध्वे च प्रतिसंयुत
प्रस्तरस्योक्तवत्कुर्याच्चोपपीठमिति स्तथा ॥१३४॥
कुर्यत्तु लुपमूले तु यत्तद्बलार्थ शोभितम्
उक्तादनुक्तमानं चेद्विपत्ती हित्यमावहेत् ॥१३५॥
तस्मादा चोक्तवत्सर्वं कुर्यात्तु संपदास्पदम्
कम्पवृत्तं च लुपामूले शोभार्थं तु बलार्थकम् ॥१३६॥
मुखभद्र म
सर्वेषां मुखभद्रं स्याल्लक्षणं वक्ष्यतेऽधुना
शिखरालम्बनं चादौ तत्पालिकावसानकम् ॥१३७॥
अथवा प्रस्तरोर्ध्वादौ चोत्तरावनितं तदा
मुखभद्रो दयमेवं चोक्तवद्विस्तृतं भवेत् ॥१३८॥
सप्तदशांशकं तुङ्गे द्विभागं प्रस्तरोदयम्
एकंशं वेदिकोत्तुङ्गं गलतुङ्गं गुणांशकम् ॥१३९॥
तद्द्वयं तलतुङ्गं स्यात्तस्मादूर्ध्वे शिखान्तकम्
वेदांशं तच्छिखांशेन गल वक्त्रं गुणांशकम् ॥१४०॥
शेषं तु मौलिकान्तं च पञ्चदशांशमेव च
प्रस्तरस्य कुर्यादन्यच्छेषं प्रागुक्तवन्नयेत् ॥१४१॥
नासिकं लम्बनं चैकं लम्बनं तद्द्वयं तु वा
पञ्चांशद्विंशतारं स्यात्तदर्धं कुक्षिविस्तृतम् ॥१४२॥
कुक्ष्यन्तस् सद्मसंयुक्तं वातायनमथापि वा
गवाक्षाकारपत्रं वा पट्टिकास्पदपत्रयुत् ॥१४३॥
अथवा चित्रसंयुक्तं सर्वालङ्कारसंयुतम्
नासिकावृतबाह्ये तु गवाक्षाकारं तु पत्रयुक् ॥१४४॥
तस्मादन्तर्गताश्चादिदेवभूतादिरूपकैः
व्यालसिंहादिहंसाद्यैर्द्रुमवल्यादिभूषितम् ॥१४५॥
तदूर्ध्वे कीर्तिवक्त्रं तु निर्गमाकृतिं भावयेत्
तन्नोडलम्बनं पार्श्वे तद्वक्षस्थलपार्श्वयोः ॥१४६॥
विद्याधरादिसंयुक्तं ग्रहपत्रैर्विभूषितम्
दीर्घनेत्र विशालं स्याद्वृत्त गण्डस्थलं तथा ॥१४७॥
गजश्रोत्राकृति श्रोत्रं गण्डं चा तरङ्गवत्
आस्याग्रे तद्द्विदन्तं स्याद्वेदपादं मृगाङ्घ्रिवत् ॥१४८॥
नेत्राधो वशगादूर्ध्वे चोर्ध्वमेवं त्रिवक्त्रकम्
अब्जमत्स्याननाकारं क्षुद्र दन्ते च जिह्वयुक् ॥१४९॥
वक्त्रपार्श्वादि सर्वाङ्गं पत्रवल्यादिभूषितम्
मानं युक्त्या प्रकुर्वीत ग्राहमेवमुदीरितम् ॥१५०॥
कीर्तिवक्त्रं हरिर्वक्त्रं चोक्तवत्कारयेत्सुधीः
कर्णमूले कपोलाग्रे स्तूपिके शृङ्गदेशके ॥१५१॥
वक्त्रयुङ्नेत्रयोर्मध्याच्छिखिमूलं तु विन्यसेत्
मन्दस्मिताननाकारं सर्वं दृष्ट्वा कृतिं दृशि ॥१५२॥
वराहश्रोत्रवत्कर्णौ शृङ्गौ मेषस्य शृङ्गवत्
दन्तैक करालदन्ताभाद् दंष्ट्रादथ तदन्तयुत् ॥१५३॥
पार्श्वके सस्मृते गण्डं अग्रयोरृजुगायतम्
वेगादूनं च कुर्यात्तु उग्रदृष्टिं पुटोज्ज्वलम् ॥१५४॥
श्यामवर्णं मुखं सर्वं किंबरीमकराननम्
दन्तौष्ठ धवलवर्णं स्याद्धास्येक्षे श्रोत्रमत्रयुक् ॥१५५॥
मकरस्य तु निष्क्रम्य भुजपुच्छादि सर्वशः
ग्रामश्यामा कृतिव्यालैः स्तूपिशृङ्गयुतोक्तवत् ॥१५६॥
ग्रीवे च लम्बकेशं स्याच्चतुर्थ्या दीर्घपुच्छकम्
श्यामवर्णनिभं सर्वं हंससिंहोक्तवत् कुरु ॥१५७॥
गजमश्वादिसर्वेषां शिल्पिर्युक्त्या प्रयोजयेत्
देवभूतादिरूपैस्तु यक्षविद्याधरस्तथा ॥१५८॥
उक्तवत्कारयेद्देवीं भूपतीनां च हर्म्यके
अन्येषां चालयं सर्वे देवैर्भूतैर्विना न्यसेत् ॥१५९॥
सरस्वत्या च लक्ष्म्या च सर्वहर्म्येषु कारयेत्
प्रासादे मण्डपे सर्वे गोपुरे द्वारके तथा ॥१६०॥
देवानां भूसुरादीनां वर्णानां सर्वहर्म्यके
कुर्यात्तन्मुखभद्रं स्यात् सर्वालङ्कारसंयुतम् ॥१६१॥
नीडस्य चाधो ग्रीवो वातायनं कारयेद्बुधः
मध्ये च द्वारसंयुक्तं वातायनं कवाटयुक् ॥१६२॥
प्रधानोर्ध्वतले वापि शिखरे वाथ कल्पयेत्
मध्ये तु चाग्रके वापि चान्तरालैरलङ्कृतम् ॥१६३॥
लुपाकारादि जडानां मानयेन्मानवित्तमः
अम्बराद्यष्टधामानि नीढानां लुप मानयेत् ॥१६४॥
विना कर्ण लुपायुक्तं युक्त्या संख्यामजा लुपा
यत्र हर्म्येषु संकल्प्य तत्र दोषो न विद्यते ॥१६५॥
शालाकुटे च नीढे च शिखरे चोर्ध्वकूटके
लुपायुक्तभ्रमाकारे तत्तदुष्णीषदेशिके ॥१६६॥
स्थूलवस्तु तदग्रार्धं स्तूपिकावाहनं भवेत् ॥१६७॥
विंशोत्सैकं तैतलानां सर्वेषां
भूपालानां वैश्यकानां परेषाम्
सैकाकान्तं युग्मयुक्तं त्यजेत्
तद्धर्म्योर्ध्वके कल्पकं तद्विकल्पकम् ॥१६८॥
स्तूपिकीलम्
स्तूपिकीलप्रतिष्ठा च लक्षणं वक्ष्यतेऽधुना
प्रासादाभिमुखो वापि चोत्तरे चैशके वापि ॥१६९॥
यागमण्डप संकल्प्य चोक्तवल्लक्षणान्वितम्
अङ्कुरार्पणमादौ च कारयेदधिवासनम् ॥१७०॥
मण्डपे स्थण्डिलं कृत्वा शालिभिश्च स्थलं न्यसेत्
पञ्चविंशत्पदं न्यस्य शुद्धतण्डुलरेखया ॥१७१॥
दर्भैरास्तीर्य तत्पश्चात्पादप्रक्षालनं कुरु
ततश्चाचमनं कुर्यात्सकलीकरणं कुरु ॥१७२॥
पुण्याहं वाचयित्वा तु स्थपतिर्ब्राह्मणैः सह
ब्रह्मादिदेवतानां च गन्धपुष्पादिधूपकैः ॥१७३॥
स्तूपिकीलं समुद्धृत्य स्थण्डिलोपरि विन्यसेत्
कीलस्य परितो देशे निक्षिपेच्चतुरिष्टका ॥१७४॥
तद्बहिः परितः शुद्धतोयपूर्णान्घटान्न्यसेत्
ईशस्यान्तः प्रदेशे तु मूलकुम्भं विनिक्षिपेत् ॥१७५॥
ससूत्राङ्ग सवस्त्रं च सकुर्चान् रुद्र पल्लवान्
सविधानफलं युक्तं परितोऽष्टघटान्न्यसेत् ॥१७६॥
कीलस्य पूर्वदिग्देशे रत्नलोहैश्च निक्षिपेत्
नववस्त्रे सकुर्चं च आच्छाद्य रत्नपात्रकम् ॥१७७॥
स्तूपिकीलं च संछाद्य नववस्त्रेण कूर्चकम्
आराध्य मूलकुम्भे तु भुवनाधिपतिं जपेत् ॥१७८॥
गन्धपुष्पैः समभ्यर्च्य नैवेद्यानि निवेदयेत्
धूपदीपं दद्येत्पश्चान्नृत्तगीतादिघोषणैः ॥१७९॥
इन्द्रा दि चाष्टकुम्भानामष्टशक्तीः प्रपूजयेत्
प्रणवादि नमोऽन्तेन तत्तन्नाम्ना प्रपूजयेत् ॥१८०॥
स्तूपिकीलं समभ्यर्च्य गन्धपुष्पैश्च धूपकैः
कुण्डे वा स्थण्डिले वापि होमं कुर्यात्तदग्रके ॥१८१॥
समिदा चरुं लाजान्प्रत्येकं पञ्चविंशति
हृल्लेखाबीजमुच्चार्य प्रणवादिनमोऽन्तकम् ॥१८२॥
व्याहृत्यान्ते ततः शिल्पी स्थण्डिले प्रान्तमाश्रयेत्
यद्यद्देवालये कीलं ध्यात्वा तत्पररुपकम् ॥१८३॥
तत्तन्मन्त्रं समुच्चार्य चार्चयेत्स्तूपिकीलकम्
तत्तद्देवासनं ध्यात्वा चतुर्मूर्ध्नेष्टकान् सुधीः ॥१८४॥
नववस्त्रेण गोप्याङ्गमिष्टकैरक्षरं लिखेत्
प्रागाच्च सहकारादि शस्त्रेण रेखयेत् ॥१८५॥
स्तूपिकीलं चतुर्दिक्षु सूत्रं प्रागादि लेखयेत्
श्रीवत्साकारमग्रे तु वक्त्रं धृत्वा लिखेद्बुधः ॥१८६॥
स्वस्तिवाचकघोषेण जयशब्दादिमङ्गलैः
गैरिकं वै मधुक्षीरं स्वर्णतूलिकया लिखेत् ॥१८७॥
वस्त्रमाच्छादनं तत्र वत्सगोकन्यकैः सह
मधुसर्पिर्धान्यराशिं दर्शयेच्छिल्पिवित्तमः ॥१८८॥
आराध्य गन्धपुष्पैश्च सर्वमङ्गलघोषणैः
नानावस्त्रेण संवेष्ट्य पुष्पमाल्यैरलङ्कृतम् ॥१८९॥
लम्बकूर्चं समभ्यर्च्य ग्रामादीनां प्रदक्षिणम्
स्तूपिकीलं समादाय आरुरोह विमानकम् ॥१९०॥
पालिकोपरि तत्प्रान्ते नासिकोपरि प्रान्ते च
रत्नगर्तं तु संकल्प्य कीलं प्राग्दर्शनं न्यसेत् ॥१९१॥
नवरत्नानि लोहैश्च तत्तन्मन्त्रेण चार्चयेत्
त्रित्रिकोष्ठे तु तद्गर्भे तन्मध्ये स्वर्णं विनिक्षिपेत् ॥१९२॥
इन्द्रे ताम्रं विनिक्षिप्य याम्ये निक्षिप्य चायसम्
पश्चिमेऽत्र प्रविप्रवालं न्यस्य चोत्तरे रजतं क्षिपेत् ॥१९३॥
मध्ये तु पद्मरागं तु वज्रं चैवेन्द्र कोष्ठके
विद्रुमं चाग्निकोणे तु याम्ये नीलं तु विन्यसेत् ॥१९४॥
नैरृत्ये पुष्परागं तु प्रत्यङ्मरतकं क्षिपेत्
गोमेदकं न्यसेद्वायौ सौम्ये मौक्तिक विन्यसेत् ॥१९५॥
ईशे स्फाटिक निक्षिप्य तत्तद्देवान्स्वनामतः
प्रणवादिनमोऽन्तेन चोच्चरन् रत्नं विन्यसेत् ॥१९६॥
स्थपतिर्वरवेषाढ्यः प्राप्तपञ्चाङ्गभूषणः
सुमुहूर्ते सुलग्ने च जयशब्दादिमङ्गलैः ॥१९७॥
ब्राह्मणैश्च यथाशक्त्या वाचयेत्स्वस्तिवाचनम्
स्तूपिकीलं समुद्धृत्य स्थपतिः स्थापकैः सह ॥१९८॥
एतद्गर्तोपरि स्थाप्य मूलमन्त्रं समुच्चरन्
स्तूपिकीलस्य परितः स्थापयेच्चतुरिष्टकम् ॥१९९॥
पूर्वादि च शकारादीन्नन्द्यावर्तं क्रमान्न्यसेत्
प्राक् मूलकुम्भमुद्धृत्य चालयद्भिः प्रदक्षिणम् ॥२००॥
स्थपतिः स्तूपिमूर्धाग्रे तज्जलेनाभिषेचयेत्
इन्द्रा दिकुम्भतोयेन पूजयेच्चतुरिष्टकान् ॥२०१॥
शुद्धतोयेन संपूर्य गन्धपुष्पैः समर्चयेत्
पूर्ववत्समलङ्कृत्य नैवेद्यादि निवेदयेत् ॥२०२॥
षोडशोपचारांश्च कुर्याद्गन्धाक्षतैः सह
स्तूपिहर्म्ये मूर्ध्नस्तु हंसपादः स्थितो भवेत् ॥२०३॥
नमस्ते कर्तृराज्यादि ग्रामं रक्षतु सर्वदा
सुधागुलोदकं चापि इष्टकैर्बदुभिस्ततः ॥२०४॥
स्तूपिकीलं दृढीकृत्य पश्चात्प्रागुक्तवत्कुरु
ब्रह्माविष्णुमहेश्वरस्य स्तूपिप्रतिष्ठां कुरु ॥२०५॥
कुर्वन्तद्यजमानगृहे नृपालये भुक्तिं मुक्तिमावहेत्
यस्मादकुर्वन्नारदनरनृपतयोः कर्ताश्च पीडा भवेत् ॥२०६॥
तस्मात्सर्वसुखप्रदं नृपगृहे कुर्यात्स देवालये
विप्रवाहनयुतं च सद्गुरुं शिल्पिनान्दिगजवाजनस्तथा ॥२०७॥
नृत्तगीत सह सर्वघोषणैः सेवितानि स्वगृहं प्रवेशयेत् ॥२०८॥
इति मानसारे वास्तुशास्त्रे विमानविधानं नाम अष्टादशोऽध्यायः
N/A
References : N/A
Last Updated : October 02, 2022
TOP