मानसारम् - भक्तलक्षणम्
प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.
अधुना वक्ष्यते सर्वभक्तानां लक्षणं क्रमात्
पादं चतुर्विधं प्रोक्तं तद्वशान्मानं गृह्यते ॥१॥
प्रथमं सालोक्यमथ द्वितीयं सामीप्यमुच्यते
सारूप्यं च तृतीयं स्यात्सायुज्यं तु चतुर्थकम् ॥२॥
भक्तिज्ञानं च वैराग्यं युक्तं सालोक्यमीरितम्
ज्ञानं वैराग्यसंयुक्तं सामीप्यमिति कथ्यते ॥३॥
केवलं ध्यानसंयुक्तं सारूप्यमिति निश्चयम्
शुद्धज्ञानसमायुक्तं सायुज्यं परमार्थवत् ॥४॥
उत्तमं नवतालेन सालोक्याङ्गं प्रमीयते
अधमं दशतालेन सामीप्याङ्गस्य निर्मितम् ॥५॥
मध्यमं दशतालेन सारूप्यं मानयेत्सुधीः
उत्तमं दशतालेन सायुज्यं कथितं बुधैः ॥६॥
एवं क्रमेण भक्तानां तालमानं प्रवक्ष्यते
उष्णीषात्पादपर्यन्तं भावोत्तरशतांशकम् ॥७॥
उष्णीषं तु चतुर्मात्रं नेत्रान्तं तु युगाङ्गुलम्
पुटान्तं वेदमात्रं स्यात्तत्समं हनुसीमकम् ॥८॥
कर्णोच्चं वेदमात्रं स्याद् भद्र काद्धृदयान्तकम्
हृदयं नाभिसीमान्तं नाभिर्मेढ्रं तु सीमकम् ॥९॥
तत्समं भानुभागं स्याच्चोरुदीर्घं मुखद्वयम्
जानु कर्ण समं कुर्याज्जङ्घा चोरुतुल्यकम् ॥१०॥
पादं जानुसमोच्चं स्यादेवमुत्तुङ्गं मापयेत्
अङ्गुष्ठात्पार्ष्णिपर्यन्तं तलं षोडशमात्रकम् ॥११॥
चतुर्विंशतिमात्रं स्याद्बाहुदीर्घं प्रशस्यते
कूर्परं च द्विमात्रं स्यात्प्रकोष्ठाष्टादशाङ्गुलम् ॥१२॥
मध्याङ्गुल्यग्रसीमान्तं तलं द्वादशमात्रकम्
रुद्रा शं! मुखतारं स्याद् गलतारं युगद्वयम् ॥१३॥
तत्समं बाहुमूलं स्याज्जानुविस्तारं तत्समम्
बाहुपर्यन्तविस्तारं षट्त्रिंशाङ्गुलकं तथा ॥१४॥
कक्षयोरन्तरं तारं विशमात्रं प्रशस्यते
मध्योदरतारं च पञ्चादशाङ्गुलं भवेत् ॥१५॥
श्रोणिदेशविशालं स्यात्सप्तादशाङ्गुलं भवेत्
नवाधिक्यं दशाङ्गुल्यं कटिदेशविशालकम् ॥१६॥
ऊरुमूलविशालं तु सार्धं द्वादशाङ्गुलं भवेत्
जङ्घामूलविशालं तु सार्धसप्ताङ्गुलं तथा ॥१७॥
जङ्घामध्यं षडङ्गुल्यं विस्तारं तु युगाङ्गुलम्
नलकागुल्फविस्तारं सत्रिपादाङ्घ्रिमात्रकम् ॥१८॥
सार्धवेदाङ्गुलं पार्ष्णिविस्तारं परिकीर्तितम्
षड्भागिकं च पञ्चांशं प्रपदं विस्तृतं भवेत् ॥१९॥
तलातारं शराङ्गुल्यं वेदांशमङ्गुष्ठदीर्घकम्
द्विमात्रं तत्रविस्तारं तारार्धं नखविस्तृतम् ॥२०॥
तर्जन्याङ्गुष्ठतत्तुल्यं दीर्घं विस्तारमंशकम्
त्र्! यङ्गुलं सार्धपक्षांशं द्व्यङ्गुलं च क्रमेण वै ॥२१॥
मध्यमादि कनिष्ठान्तं दीर्घमेवं प्रशस्यते
विस्तारं सप्तषट्पञ्चयवमानमुदीरितम् ॥२२॥
तदर्धं च तदर्धं च नखविस्तारमुच्यते
बाहुमध्यविशालं तु सप्तांशं कूर्परं तथा ॥२३॥
वेदाङ्गुलं प्रकोष्ठं च मणिबन्धं त्रियङ्गुलम्
षडंशं तलमूलं चाग्रं तारं युगाङ्गुलम् ॥२४॥
तलदीर्घं षडङ्गुल्यं शेषांशं मध्यमाङ्गुलम्
सार्धपञ्चाङ्गुलं दीर्घं तर्जन्यनामिकाद्वयम् ॥२५॥
सार्धवह्न्यङ्गुलं दीर्घं कनिष्ठाङ्गुष्ठयोस्तथा
अंशकं षड्यवं सप्त षड्यवं तुर्यवं भवेत् ॥२६॥
अङ्गष्ठादिकनिष्ठान्तं विस्तारं परिकीर्तितम्
स्थूलमूल कृशाग्रं तु उक्तमानेन योजयेत् ॥२७॥
अग्रे च त्रित्रिभागेन नखतारं प्रशस्यते
त्रिचतुर्भागमाधिक्यं नखायाममुदाहृतम् ॥२८॥
एकद्वित्रियवं वापि नखाग्रं कारयेत्सुधीः
अङ्गुष्ठे च द्विपर्वं स्यात्त्रिपर्वं चान्यथाङ्गुलैः ॥२९॥
ज्ञानरेखादिरेखैश्च कुर्यात्तु तलमध्यमे
फेशान्तं दक्षसूत्रान्तं द्वयोर्मध्ये भ्रुवः स्थितिः ॥३०॥
अक्षायाम द्वयाङ्गुल्यं तदर्धं तस्यविस्तृतम्
कर्णायामं युगाङ्गुल्यं कर्णनालं तु तत्समम् ॥३१॥
विस्तारं द्व्यङ्गुलं प्रोक्तं शेषमूह्यं विचक्षणः
नवतालोत्तमं प्रोक्तं शेषं च दशतालवत् ॥३२॥
सद्विरष्टशतं भागं द्वितीये च पदं तथा
पादादुष्णीषसीमान्तं कन्यसपङ्क्तितालवत् ॥३३॥
उष्णीषात्केशपर्यन्तमुत्तुङ्गं वेदमात्रकम्
तस्मान्नेत्रं तु सूत्रान्तं सार्धवेदङ्गुलं भवेत् ॥३४॥
तस्मात्तु पुटसीमान्तं वेदमात्रं प्रशस्यते
पुटान्ताद्धनुसीमान्तं सार्धवह्न्यङ्गुलं भवेत् ॥३५॥
गलमध्यर्धमात्रं स्याद् गलतुङ्गं युगाङ्गुलम्
कर्णाद्धृदयमानं हृदयं नाभिसीमकम् ॥३६॥
नाभ्यन्तं मेढ्रसीमान्तं समं वा युगत्रयम्
मेढ्रमूरुदीर्घं स्यात्पञ्चविंशाङ्गुलं भवेत् ॥३७॥
जानुपादतलं वेदमात्रं जङ्घोरुतुल्यकम्
पार्ष्णिद्व्यङ्गुष्ठसीमान्तं सार्धषोडशमात्रकम् ॥३८॥
हिक्कासूत्रादधो बाहुदीर्घं पञ्चशराङ्गुलम्
कूर्परं च द्विमात्रं स्यात्प्रकोष्ठमेकोनविंशतिः ॥३९॥
मध्याङ्गुल्यग्रसीमान्तं सार्धभान्वंशकं तलम्
सार्धरुद्रा शं! वक्त्रं च विस्तारं परिकीर्तितम् ॥४०॥
गलतारं सार्धमष्टांशं बाहुजानु च तत्समम्
षट्षट्सार्धैकभागं स्याद्बाहुपर्यन्तविस्तृतम् ॥४१॥
सार्धविंशतिमात्रं स्यात्कक्षान्तरमुदाहृतम्
सार्धपञ्चादशाङ्गुल्यं मध्योदरविशालकम् ॥४२॥
सार्धमष्टादशाङ्गुल्यं श्रोणिदेष विशालकम्
एकोनविंशतिभागं कटिविस्तारमिष्यते ॥४३॥
सार्धद्वादशमात्रं स्यादूरुमूलविशालकम्
जङ्घामध्ये तु विस्तारं सार्धषड्द्व्यङ्गुलं भवेत् ॥४४॥
नलकान्तर युगाङ्गुलं गुल्फतारं शराङ्गुलम्
प्रपदं तु षडङ्गुल्यं वेदांशमङ्गुष्ठदीर्घकम् ॥४५॥
तत्समं तर्जनीदीर्घमर्धाङ्गुलविहीनकम्
अन्याङ्गुली च दीर्घं स्याद् विस्तारं तत्समूह्यताम् ॥४६॥
कूर्परस्य तु विस्तारं सार्धषट्द्व्यङ्गुलं भवेत्
प्रकोष्ठतारं शराङ्गुल्यं मणिबन्धं युगाङ्गुलम् ॥४७॥
तलतारं शराङ्गुल्यं तलदीर्घं सप्तमात्रकम्
मध्याङ्गुलायतं सार्धपञ्चमात्रं प्रशस्यते ॥४८॥
तर्जन्यायामदीर्घं स्याद्बाणांशं तत्प्रकल्पयेत्
सार्धवद्व्यङ्गुलं दीर्घम् कनिष्ठाङ्गुष्ठयोस्तथा ॥४९॥
श्रोत्रदीर्घं युगाङ्गुल्यं नालालम्बनं तत्समम्
अन्यान्यनुक्तसर्वाङ्गमत्तमं दशतालवत् ॥५०॥
कारयेच्छिल्पिभिः कुर्यात्तत्र दोषो न विद्यते ॥५१॥
इति मानसारे वास्तुशास्त्रे भक्तलक्षणविधानं नाम एकोनषष्टितमोऽध्यायः
N/A
References : N/A
Last Updated : October 07, 2022
TOP