संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथविष्णुलक्षपूजाव्रतम्

व्रतोदयान - अथविष्णुलक्षपूजाव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ तिथ्यादिसंकीर्त्य अखिलनानाविधपातकशमनपूंर्वकमैहिकामुष्मिकनिर
तिशयानंदप्राप्तिद्वाराश्रीलक्ष्मीनारायणप्रीत्यर्थंतुलस्यादिलक्षव्रतोध्यापनंकरिष्ये ॥
वृताचार्योवेदिकायांसर्वतोभद्रेब्रह्मादिदेवतास्थापनपूर्वकलशंप्रतिष्ठाप्य तत्रसौवर्णंचतुर्भुजंल
क्ष्म्यालिंगितवामांगंनारायणंसहस्त्रशीर्षेतिमंत्रेणसंस्थाप्य पुरत:सौवर्णंराजतंवागरुडं ॥
सामध्वनिशरीरस्त्वंवाहनंपरमेष्ठिन: ॥ विषपापहरोनित्यमत:शांतिप्रयच्छमे इति ॥
ततईशान्यादिविदिक्षुशंखंचक्रंगदांपद्मंच ॥ तत:परितोलोकेशान्संस्थाप्यपूजयेत् ॥
प्रातरग्निंप्रतिष्ठाप्यान्वादध्यात् ॥ अत्रप्रधानं लक्ष्मीनारायणं ॐ नमोनारायणायेतिमंत्रेण
मधुलाजमिश्रिततिल १ पायस २ घृत ३ चरु ४ द्रव्यचतुष्टयेनप्रतिद्रव्यमष्टोत्तरसहस्त्राहु
तिभिरष्टोत्तरशताहुतिभिर्वातथाचतुष्टयेन अयुताहुतिभि: सहस्त्राहुतिभिर्वासहस्त्रनाममंत्रैर्य
क्ष्ये परिवारदेवतामंडलदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥ वायनमंत्र: ॥
जलाशायीब्रह्मपितायद्गर्भेसचराचरं ॥ अनंतभोगशयन:प्रीयतांमेजनार्दन: ॥
इतिदत्त्वापयस्विनींगांचदत्त्वाधिकफलप्राप्तयेसोपस्करांशय्यांचदत्त्वापंचाधिकान्द्विजान्सदन्नेनभोजयेदिति ॥ एवमेवविधानेनगणेशांबिकयोर्नृप ॥
तत्तन्मंत्रेणपूजातुतत्तन्नामसहस्त्रकै: ॥ गणेशेलड्डुकैर्होमंपंचखाद्यैरथापिवा ॥ पायसेनतुदे
व्याश्चतिलैर्वाकेवलैरपि ॥ एवंकृत्वाविधानेनस्वर्गलोकेमहीयते ॥
इतिविष्णुलक्षपूजाव्रतम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP