संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथजीवतोमृतिवार्ताश्रवणेविधानम्

व्रतोदयान - अथजीवतोमृतिवार्ताश्रवणेविधानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


N/A॥ श्री: ॥ वि० मा० गर्गसंहितायां ॥ दुष्टस्थानेयदापुंसोभवेत्क्रूरोनभश्चर: ॥
प्रकोपोवादैवतस्यतदाविघ्नऽभिजायते ॥
मृतएवेतिवार्तास्यात्सर्वदेशेदुरत्यया ॥ विधानंतत्रकर्तव्यंनरेणहितमिच्छता ॥
आहूयब्राह्मणान्भक्त्याचतुर्वेदपरायणान् ॥
स्नात्वातैलेनशुध्देनपूजयेत्कुलदेवतां ॥ पितृन्संतर्प्यविधिवत्स्वस्तिवाच्याद्विजोत्तमा: ॥
जुहुयाद्विधिवद्वह्नाविंद्रप्रीत्यैसमाहित: ॥ स्वादिष्ठयेतिमंत्रेणजुहुयादयुतंसुगंधी: ॥
पायसंसर्पिषायुक्तंप्रधानंद्रव्यमुत्तमं ॥ मूर्तिमिंद्रस्यहेम्नस्तुपीठेदेवतरो:शुभे ॥
पूजितांविधिवभ्दक्त्त्या आचार्यायनिवेदयेत् ॥
हुत्वास्विष्टकृतंविद्वान्गांचदध्यात्पयस्विनीं ॥ तैलंदध्याद्दिविजातिभ्योविघ्ननाशायभूरि
श: ॥
ब्राह्मणान्भोजयेत्पश्चाच्छतंवाशक्त्यपेक्षया॥ आत्मनस्त्वायसींमूर्तिंपलैस्तुदशभि:कृतां ॥
तैलाभ्यक्तांततोदध्याब्राह्मणायसदक्षिणां ॥ तंत्रमंत्रौ ॥ सहस्त्राक्षमहाबाहोसर्वविघ्नविना
शन ॥
अनेनमूर्तिदानेनसुप्रीतोभवमेसदा ॥ अपमृत्युविनाशायमूर्तिमेतांददाम्यहं ॥
तुष्टेनमृत्युनानेनपातकंमेव्यपोहतु ॥ तत:पुण्यस्त्रियोवृध्दाविप्राश्चगुरवस्तथा ॥
नीराजनंतुदुर्वार्ताहरणायपुन:पुन: ॥
ततोभिषेचनंकुर्युर्दुर्वार्तापीडितस्यतु ॥ वृध्दान्प्रणमतस्तस्यदध्युराशीर्वचोद्विजा: ॥
शतंजीवेत्यादयआशीर्मंत्रा: ॥ ग्रहंतुपूजयेदृष्टंप्रणमेत्कुलदेवतां ॥ एवंतेविधानेचविघ्न:कोपि
नजायते” योजीवन्नेवस्वस्यमृतवार्तांश्रृणुयात्सआहिताग्निश्चेदग्नयेसुरभिमतेवाष्टाकपाले
नेष्टिंकुर्यात् ॥
तत्रममस्वमृतिवार्ताश्रवणसूचितसकलानिष्टनिरसनद्वाराश्रीपरमेश्वरप्रीत्यर्थं सौरभिमते
वाष्टाकपालेनेष्टिंकुर्यात् ॥
तत्रममस्वमृतिवार्ताश्रवणसूचितसकलानिष्टनिरसनद्वाराश्रीपरमेश्वरप्रीत्यर्थं सौरभिमते
ष्ठायक्ष्य इतिसंकल्प: ॥
गृह्याग्निमांस्तुलौकिकेग्नौस्थालीपाकंकुर्यात् ॥ इतिजीवतोमृतिवार्ताश्रवणेविधि: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP