संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १५

विष्णुधर्माः - अध्याय १५

विष्णुधर्माः


अथ पञ्चदशोऽध्यायः ।
याज्ञवल्क्य उवाच ।
तस्मिन्नेव दिने पुण्ये गोविन्दद्वादशीं शृणु ।
यस्यां सम्यगनुष्ठानात्प्राप्नोत्यभिमतं फलम् १

पौषमासे सिते पक्षे द्वादश्यां समुपोषितः ।
संयक् सम्पूज्य गोविन्दं नाम्ना देवमधोक्षजम् ।
पुष्पधूपोपहाराद्यैरुपवासैः समाहितः २

गोविन्देति जपन्नाम पुनस्तद्गतमानसः ।
विप्राय दक्षिणां दद्याद्यथाशक्ति तपोधने ३

स्वपन्विबुद्धः स्खलितो गोविन्देति च कीर्तयेत् ।
पाषण्डादिविकर्मस्थैरालापं च विवर्जयेत् ४

गोमूत्रं गोमयं वापि दधि क्षीरमथापि वा ।
गोदेहतः समुत्पन्नं सम्प्राश्नीतात्मशुद्धये ५

द्वितीयेऽह्नि पुनः स्नातस्तथैवाभ्यर्च्य तं प्रभुम् ।
तेनैव नाम्ना संस्तूय दत्त्वा विप्राय दक्षिणाम् ।
ततो भुञ्जीत गोदेहसम्भूतेन समन्वितम् ६

एवमेवाखिलान्मासानुपोष्य प्रयतः शुचिः ।
दद्याद्गवाह्निकं भक्त्या प्रतिमासं स्वशक्तितः ७

पारिते च पुनर्वर्षे यथाशक्ति गवाह्निकम् ।
दत्त्वा परगवे भूयः शृणु यत्फलमश्नुते ८

सुवर्णशृङ्गाः पञ्च गाः षष्ठं च वृषभं नरः ।
प्रतिमासं द्विजाग्रेभ्यो यद्दत्त्वा फलमश्नुते ९

तदाप्नोत्यखिलं सम्यग्व्रतमेतदुपोषितः ।
तं च लोकमवाप्नोति गोविन्दो यत्र तिष्ठति १०

गोविन्दद्वादशीमेतामुपोष्य दिवि तारकाः ।
विद्योतमाना दृश्यन्ते लोकैरद्यापि शोभने ११

इति विष्णुधर्मेषु गोविन्दद्वादशी ।

N/A

References : N/A
Last Updated : February 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP