संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ५७

विष्णुधर्माः - अध्याय ५७

विष्णुधर्माः


अथ सप्तपञ्चाशोऽध्यायः ।
भगवानुवाच ।
ब्राह्मणत्वं सुदुष्प्रापं निसर्गाद्ब्राह्मणो भवेत् ।
क्षत्रियो वाथवा वैश्यो निसर्गादेव जायते १

दुष्कृतेन तु दुष्टात्मा स्थानाद्भ्रश्यति मानवः ।
श्रेष्ठं स्थानं समासाद्य तस्माद्रक्षेत पण्डितः २

यस्तु विप्रत्वमुत्सृज्य क्षत्रियत्वं निषेवते ।
ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोन्यां प्रसूयते ३

वैश्यकर्माणि वा कुर्वन्वैश्ययोनौ प्रजायते ।
शूद्रकर्माणि कुर्वाणः शूद्रत्वमुपपद्यते ४

स तत्र दुर्गतिं प्राप्य स्थानाद्भ्रष्टो युधिष्ठिर ।
शूद्रयोनिमनुप्राप्तो यदि धर्मं न सेवते ५

मानुष्यात्स परिभ्रष्टस्तिर्यग्योनौ प्रजायते ।
अधर्मसेवनान्मूढस्तमोपहतचेतनः ६

जात्यन्तरसहस्राणि तत्रैव परिवर्तते ।
तस्मात्प्राप्य शुभं स्थानं प्रमादान्न तु नाशयेत् ७

शूद्रान्नेनावशेषेण यो म्रियेज्जठरे द्विजः ।
आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ८

क्षत्रान्नेनावशेषेण क्षत्रत्वमुपपद्यते ।
वैश्यान्नेनावशेषेण वैश्यत्वमुपपद्यते ।
तां योनिं लभते विप्रो भुक्त्वान्नं यस्य वै मृतः ९

ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते ।
भोज्याभोज्यं न जानाति स भवेत्क्षत्रियो द्विजः १०

कर्मणा येन मेधावी शूद्रोवैश्योऽभिजायते ।
तत्ते वक्ष्यामि निखिलं येन वर्णोत्तमो भवेत् ११

शूद्रकर्म यथोद्दिष्टं शूद्रोभूत्वा समाचरेत् ।
यथावत्परिचर्यां तु त्रिषु वर्णेषु नित्यदा ।
कुरुतेऽविमना यस्तु स शूद्रोवैश्यतां व्रजेत् १२

क्षत्रियत्वं यथा वैश्यस्तद्वक्ष्याम्यनुपूर्वशः ।
चौक्षः पापजनद्वेष्टा शेषान्नकृतभोजनः १३

अग्निहोत्रमुपादाय जुह्वानश्च यथाविधि ।
स वैश्यः क्षत्रियकुले जायते नात्र संशयः १४

क्षत्रियो ब्रह्मयोन्यां तु जायते शृणु तद्यथा ।
ददाति यजते यज्ञैर्विधिवच्चाप्तदक्षिणैः ।
अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा १५

आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् ।
ऋतुकाले तु स्वां भार्यामभिगच्छन्विधानतः १६

सर्वातिथ्यं त्रिवर्गस्य दीयतां भुज्यतामिति ।
शूद्राणां याचकानां च नित्यं सिद्धिमिति ब्रुवन् १७

गोब्राह्मणस्य चार्थाय रणे चाभिमुखो हतः ।
त्रेताग्निमन्त्रपूतात्मा क्षत्रियो ब्राह्मणो भवेत् ।
विधिज्ञः क्षत्रियकुले याजकः स तु जायते १८

प्राप्यतेऽविकलः स्वर्गो वर्णैः सत्पथमास्थितैः ।
ब्राह्मणत्वं सुदुष्प्रापं कृच्छ्रेणासाद्यते नरैः ।
तस्मात्सर्वप्रयत्नेन रक्षेद्ब्राह्मण्यमुत्तमम् १९

इति विष्णुधर्मेषु वर्णान्यत्वप्राप्तिः ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP