संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ७५

विष्णुधर्माः - अध्याय ७५

विष्णुधर्माः


अथ पञ्चसप्ततितमोऽध्यायः ।
शतानीक उवाच ।
भूयोऽखिलं जगद्धातुर्वासुदेवस्य भार्गव ।
सम्यगाराधनायालं क्रियायोगं ब्रवीहि मे १

यत्फलं केशवस्यार्चां प्रतिष्ठाप्य लभेन्नरः ।
यच्च देवकुलं विष्णोः कारयित्वा फलं लभेत् २

यद्दीपधूपपुष्पाणां गन्धानां च निवेदने ।
ध्वजादिदाने यत्पुण्यं यत्पुण्यं गीतवादिते ३

तथा पवित्रपठने जयशब्दाद्युदीरणे ।
सम्मार्जनादौ यत्पुण्यं नमस्कारे प्रदक्षिणे ४

शीर्णस्फुटितसंस्कारकरणे चापि यत्फलम् ।
तन्मे विस्तरतः सर्वं भगवन्वक्तुमर्हसि ५

यैश्चोपवासैर्भगवान्नरैराराध्यते हरिः ।
तेषां फलं च यत्कृत्स्नं तन्ममाचक्ष्व विस्तरात् ६

शौनक उवाच ।
सङ्क्षेपात्पूर्वमेवैतद्भवतः कथितं मया ।
विस्तरेण महाराज श्रूयतां ब्रुवतो मम ७

अदितिर्नाम देवानां माता परमदुश्चरम् ।
तपश्चचार वर्षाणां सहस्रं पृथिवीपते ८

आराधनाय कृष्णस्य वाग्यता वायुभोजना ।
दैत्यैर्निराकृतान्दृष्ट्वा तनयान्कुरुनन्दन ९

वृथापुत्राहमस्मीति निर्वेदात्प्रणता हरिम् ।
तुष्टाव वाग्भिरिष्टाभिः परमार्थावबोधिनी ।
शरण्यं शरणं विष्णुं प्रणता भक्तवत्सलम् ।
देवदैत्यनृपश्वापव्योमवाय्वादिरूपिणम् १०

अदितिरुवाच ।
नमः स्मृतार्तिनाशाय नमः पुष्करमालिने ।
नमः परमकल्याणकल्याणायादिवेधसे ११

नमः पङ्कजनेत्राय नमः पङ्कजनाभये ।
नमः पङ्कजसम्भूतिसम्भवायात्मयोनये १२

श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे ।
नमः शङ्खासिहस्ताय नमः कनकरेतसे १३

तथात्मज्ञानविज्ञानयोगचित्तात्मयोगिने ।
निर्गुणाय विशेषाय हरये ब्रह्मरूपिणे १४

जगत्प्रतिष्ठितं यत्र जगता यो न दृश्यते ।
नमः स्थूलातिसूक्ष्माय तस्मै देवाय शङ्खिने १५

यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः ।
अपश्यद्भिर्जगद्यच्च दृश्यते स्वहृदि स्थितः १६

बहिर्ज्योतिषि लक्ष्यो यो लक्ष्यते ज्योतिषः परः ।
यस्मिन्नेतद्यतश्चैतद्यश्चैतदखिलं जगत् ।
तस्मै समस्तजगतामाधाराय नमो नमः १७

आद्यः प्रजापतिपतिर्यः पितॄणां परः पतिः ।
पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे १८

यः प्रवृत्तैर्निवृत्तैश्च कर्मभिर्विभुरिज्यते ।
स्वर्गापवर्गफलदो नमस्तस्मै गदाधृते १९

यश्चिन्त्यमानो मनसा सद्यः पापं व्यपोहति ।
नमस्तस्मै विशुद्धाय परस्मै हरिमेधसे २०

यं प्रविश्याखिलाधारमीशानमजमव्ययम् ।
न पुनर्जन्ममरणे प्राप्नुवन्ति नमामि तम् २१

यो यज्ञे यज्ञपरमैरिज्यते यज्ञसंस्थितिः ।
तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् २२

गीयते सर्ववेदेषु वेदविद्भिर्विदां गतिः ।
यस्तस्मै वेदवेद्याय विष्णवे जिष्णवे नमः २३

यतो विश्वं समुद्भूतं यस्मिंश्च लयमेष्यति ।
विश्वोद्भवप्रतिष्ठाय नमस्तस्मै महात्मने २४

ब्रह्मादिस्तम्बपर्यन्तं विना येन ततामिमाम् ।
मायां नालं समुत्तर्तुं तमुपेन्द्रंनमाम्यहम् २५

यमाराध्य विशुद्धेन मनसा कर्मणा गिरा ।
हरत्यविद्यामखिलां तमुपेन्द्रंनमाम्यहम् ।
विषादतोषरोषाद्यैर्योऽजस्रं सुखदुःखजैः ।
नृत्यत्यखिलभूतस्थस्तमुपेन्द्रंनमाम्यहम् ।
योऽन्नतोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः ।
विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् २६

मूर्तं तमोऽसुरमयं तद्वधाद्विनिहन्ति यः ।
रात्रिजं सूर्यरूपी च तमुपेन्द्रंनमाम्यहम् २७

कपिलादिस्वरूपस्थो यश्चाज्ञानमयं तमः ।
हन्ति ज्ञानप्रदानेन तमुपेन्द्रंनमाम्यहम् २८

यस्याक्षिणी चन्द्रसूर्यौ सर्वलोकशुभाशुभम् ।
पश्येते कर्म सततं तमुपेन्द्रंनमाम्यहम् २९

यस्मिन्सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम् ।
नानृतं तमजं विष्णुं नमामि प्रभवाव्ययम् ३०

यथैतत्सत्यमुक्तं मे भूयश्चातो जनार्दनः ।
सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ३१

शौनक उवाच ।
एवं स्तुतोऽथ भगवान्वासुदेव उवाच ताम् ।
अदृश्यः सर्वभूतानां तस्याः सन्दर्शने स्थितः ३२

भगवानुवाच ।
मनोरथांस्त्वमदिते यानिच्छस्यभिपूरितान् ।
तांस्तान्प्राप्स्यसि धर्मज्ञे मत्प्रसादादसंशयम् ३३

शृणुष्व च महाभागे वरं यस्ते हृदि स्थितः ।
तं प्रयच्छामि नियतं मात्र कार्या विचारणा ।
मद्दर्शनं हि विफलं न कदाचिद्भविष्यति ३४

अदितिरुवाच ।
यदि देव प्रसन्नस्त्वं भक्ताया भक्तवत्सल ।
त्रैलोक्याधिपतिः पुत्रस्तदस्तु मम वासवः ३५

हृतराज्यो हृतश्चास्य यज्ञभागो महासुरैः ।
त्वयि प्रसन्ने वरद तं प्राप्नोतु सुतो मम ३६

हृतं राज्यं न दुःखाय मम पुत्रस्य केशव ।
सपत्नादायतिभ्रंशो बाधां नः कुरुते हृदि ३७

भगवानुवाच ।
कृतः प्रसादो हि मया तव देवि यथेप्सितः ।
स्वांशेन चैव ते गर्भे सम्भविष्यामि कश्यपात् ३८

तव गर्भसमुद्भूतः सुतस्ते ये सुरारयः ।
तानहं निहनिष्यामि निर्वृता भव नन्दिनि ३९

अदितिरुवाच ।
प्रसीद देवदेवेश नमस्ते विश्वभावन ।
नाहं त्वामुदरेणेश वोढुं शक्ष्यामि केशव ४०

यस्मिन्प्रतिष्ठितं विश्वं यो विश्वं स्वयमीश्वर ।
तदहं नोदरेण त्वां वोढुं शक्ष्यामि दुर्धरम् ४१

भगवानुवाच ।
सत्यमात्थ महाभागे मयि सर्वमिदं जगत् ।
प्रतिष्ठितं न मां शक्ता वोढुं सेन्द्रादिवौकसः ४२

किन्त्वहं सकलांल्लोकान्सदेवासुरमानुषान् ।
जङ्गमाजङ्गमं सर्वं त्वां च देवि सकाश्यपाम् ।
धारयिष्यामि भद्रंते तव गर्भशयोऽदिते ४३

न ते ग्लानिर्न ते खेदो गर्भस्थे भविता मयि ।
दाक्षायणि प्रसादं ते करोम्यन्यैः सुदुर्लभम् ४४

गर्भस्थे मयि पुत्राणां तव योऽरिर्भविष्यति ।
तेजसस्तस्य हानिं च करिष्ये मा व्यथां कृताः ४५

शौनक उवाच ।
एवमुक्त्वा ततः सद्यो गतोऽन्तर्धानमीश्वरः ।
सापि कालेन तं गर्भमवाप कुरुसत्तम ४६

गर्भस्थिते ततः कृष्णे चचाल सकला क्षितिः ।
चकम्पिरे महाशैला जग्मुः क्षोभमथाब्धयः ४७

यतो यतोऽदितिर्यान्ती ददाति ललितं पदम् ।
ततस्ततः क्षितिः खेदान्ननाम वसुधाधिप ४८

दैत्यानामपि सर्वेषां गर्भस्थे मधुसूदने ।
बभूव तेजसो हानिर्यथोक्तं परमेष्ठिना ४९

इति विष्णुधर्मेष्वदितिस्तवः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP