संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय २१

विष्णुधर्माः - अध्याय २१

विष्णुधर्माः


अथ एकद्विंशोऽध्यायः ।
दाल्भ्य उवाच ।
स्त्रीणां धर्मं द्विजश्रेष्ठ उपवासं भवन्मम ।
कथयेह यथातत्त्वमुपवासविधिश्च यः १

कौमारके गृहस्थाया विधवायाश्च सत्तम ।
धर्मं प्रब्रूह्यशेषेण भगवन्प्रीतिकारकम् २

पुलस्त्य उवाच ।
श्रूयतामखिलं ब्रह्मन्यद्येतदनुपृच्छसि ।
उपकाआय च स्त्रीणां त्रिषु लोकेष्वनुत्तमम् ३

प्रश्नमेतत्पुरा देवी शैलराजसुता पतिम् ।
पप्रच्छ शङ्करं ब्रह्मन्कैलासशिखरे स्थितम् ४

देव्युवाच ।
कुमारिकाभिर्देवेश गृहस्थाभिश्च केशवः ।
विधवाभिस्तथा स्त्रीभिः कथमाराध्यते वद ५

ईश्वर उवाच ।
साधु साध्वि त्वया पृष्टमेतन्नारायणाश्रितम् ।
उपवासादि यत्तत्त्वं श्रूयतामस्य यो विधिः ६

योग्यं पतिं समासाद्य नारी धर्ममवाप्नुते ।
दुःशीलेऽपि हि कामार्ते नारी प्राप्नोति भर्तरि ७

अनाराध्य जगन्नाथं सर्वलोकेश्वरं हरिम् ।
कथमाप्नोति वै नारी पतिं शीलगुणान्वितम् ८

सुकलत्रप्रदं तस्माद्व्रतमच्युततुष्टिदम् ।
कर्तव्यं लक्षणं तस्य श्रूयतां वरवर्णिनि ९

यच्चीर्त्वा सर्वनारीणां श्रेष्ठमाप्नोत्यसंशयम् ।
ऐहिकं च सुखं प्राप्य स्वर्गे भुङ्क्ते सुखान्यपि १०

अनुज्ञां प्राप्य पितृतो मातृतश्च कुमारिका ।
पूजयेच्च जगन्नाथं भक्त्या पापहरं हरिम् ११

त्रिषूत्तरेषु स्वृक्षेषु पतिकामा कुमारिका ।
माधवाख्यं तु वै नाम जपेन्नित्यमतन्द्रिता १२

प्रियङ्गुणा रक्तपुष्पैर्बन्धूककुसुमैस्तथा ।
समभ्यर्च्य ततो दद्याद्रक्तमेवानुलेपनम् १३

सर्वौषध्या स्वयं स्नात्वा समभ्यर्च्य जगत्पतिम् ।
नमोऽस्तु माधवायेति होमयेन्मधुसर्पिषी १४

स देवमुत्तरायोगे समभ्यर्च्य जनार्दनम् ।
शोभनं पतिमाप्नोति प्रेत्य स्वर्गं च गच्छति १५

अतिबाल्ये च यत्किञ्चित्तया पापमनुष्ठितम् ।
तस्माच्च मुच्यते देवि सुखिनी चैव जायते १६

अब्देनैकेन तन्वङ्गि धूतपापा यदिच्छति ।
तदेव प्राप्नुयाद्भद्रेनारायणपरायणा १७

षण्मासं प्रीणनं कार्यं भक्त्या शक्त्या च वै हरेः ।
पारणान्ते महाभगे तथा ब्राह्मणतर्पणम् १८

इति विष्णुधर्मेषु सुकलत्रप्राप्तिव्रतं नाम एकद्विंशोऽध्यायः ।

N/A

References : N/A
Last Updated : February 19, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP