संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ९६

विष्णुधर्माः - अध्याय ९६

विष्णुधर्माः


अथ षड्नवतितमोध्यायः ।
शतानीक उवाच ।
आख्यातं भवता ब्रह्मन्नेतद्ब्रह्म सनातनम् ।
यस्मादुत्पद्यते कृत्स्नं जगदेतच्चराचरम् १

किन्तु कौतुकमत्रास्ति मम भार्गवनन्दन ।
तदहं श्रोतुमिच्छामि त्वत्तः सन्देहमुत्तमम् २

यदेतद्भवताख्यातं ब्रह्म ब्रह्मविदां वर ।
परिणामो न तस्यास्ति निर्गुणं सर्वगं यतः ३

सनातनात्सर्वगतात्परिणामविवर्जितात् ।
कथं सञ्जायते कृत्स्नं तस्मादपगुणादपि ४

शौनक उवाच ।
द्विविधं कारणं भूप निबोध गदतो मम ।
निमित्तकारणं पूर्वं द्वितीयं परिणामि च ५

यथा कुम्भस्य करणे कुलालः प्रथमं नृप ।
कारणं परिणामाख्यं मृद्द्रव्यमपरं स्मृतम् ६

धर्माधर्मादयस्तद्वज्जगत्सृष्टेर्महीपते ।
कारणं परिणामाख्यं निमित्ताख्यं तु तत्परम् ७

कारणं कालगगने यथा सन्निधिमात्रतः ।
अविकारितया ब्रह्म तथा सृष्टेर्नरेश्वर ८

अज्ञानपटलाच्छनैरेकदेशात्मवृत्तिभिः ।
अनात्मवेदिभिर्जीवैर्निजकर्मनिबन्धनैः ९

कुर्वद्भिर्नृपते कर्म कर्तृत्वमुपचारतः ।
क्रियते सर्वभूतस्य सर्वगस्याव्ययात्मनः १०

यतः सम्बन्धवानेभिरशेषैः प्राणिभिः प्रभुः ।
कर्तृत्वमुपचारेण ततस्तस्यापि भूपते ११

भेदाभेदस्वरूपेण तत्र ब्रह्म व्यवस्थितम् ।
तयोः स्वरूपं नृपते श्रूयतामुभयोरपि १२

अनादिसम्बन्धवत्या क्षेत्रज्ञः क्षेत्रविद्यया ।
व्याप्तः पश्यत्यभेदेन ब्रह्म तद्ध्यात्मनि स्थितम् १३

पश्यत्वात्मानमन्यत्र यावद्वै परमात्मनः ।
तावत्सम्भ्राम्यते जन्तुर्मोहितो निजकर्मणा १४

सङ्क्षीनाशेषकर्मा तु परं ब्रह्म प्रपश्यति ।
अभेदेनात्मनः शुद्धं शुद्धत्वादक्षयोऽक्षयम् १५

भेदश्च कर्मजनितः क्षेत्रज्ञपरमात्मनोः ।
सङ्क्षीणकर्मबन्धस्य न भेदो ब्रह्मणा सह १६

उपास्योपास्यकतया भेदो यैरपि कथ्यते ।
तौ हि शुद्ध्यर्थमिच्छन्ति मलानां तदुपासनम् ।
परोऽसावपरेणात्मा सन्त्यक्तममतेन तु ।
उपास्यते तदा सोऽपि तद्भावं प्रतिपद्यते ।
कर्मिणां कर्मभेदेन भेदादेवादयो यतः ।
कर्मक्षयादशेषाणां भेदानां सङ्क्षयस्ततः १७

अविद्या तु क्रिया सर्वा विद्या ज्ञानं प्रचक्षते ।
कर्मणा जायते जन्तुर्विद्यया तु विमुच्यते १८

अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते ।
उभयं ब्रह्मणो रूपं द्वैताद्वैतविभेदतः ।
तयोः स्वरूपं वदतो निबोध मम पार्थिव १९

देवतिर्यङ्मनुष्याख्यस्तथैव नृप तारकः ।
चतुर्विधो हि भेदो यो मिथ्याज्ञाननिबन्धनः २०

अहमन्योऽपरश्चायममी चात्र तथापरे ।
विज्ञानमेतत्तद्द्वैतं यदन्यच्छ्रूयतां परम् २१

ममेत्यहमितिप्रज्ञावियुक्तमविकल्पवत् ।
अविकारमनाख्येयमद्वैतमपि भूपते २२

अभेदेन तवाख्यातं यदेतद्ब्रह्म शाश्वतम् ।
ज्ञानज्ञेयैक्यसद्भावं तदेवाद्वैतसञ्ज्ञितम् २३

यश्च द्वैते प्रपञ्चः स्यान्निवर्त्योभयचेतसः ।
मनोवृत्तिमयं द्वैतमद्वैतं परमाथतः २४

मनसो वृत्तयस्तस्माद्धर्माधर्मनिमित्तजाः ।
निरोधव्यास्तन्निरोधाद्द्वैतं नैवोपपद्यते २५

मनोदृश्यमिदं द्वैतं यत्किञ्चित्सचराचरम् ।
मनसो ह्यमतीभावे द्वैताभावात्तदाप्नुयात् २६

मनो हि विषयं यद्वदादत्ते तद्वदेव तत् ।
भवत्यपास्तविषयं ग्राहिधर्मे च जायते २७

अग्राहि तच्च विधृतं योगिनां विषयं प्रति ।
निरोधे योगसामर्थ्याद्ब्रह्मग्राह्येव जायते २८

ग्राह्यं च परमं ब्रह्म योगिचित्तस्य पार्थिव ।
समुज्झितग्राह्यवृत्तिरमलस्य मलं महत् २९

क्षीणक्लेशास्तु संसारविमुक्तिपथमाश्रिताः ।
येऽपि कर्माणि कुर्वन्ति भगवन्तमपाश्रिताः ।
क्रियायोगपरा राजन्कामाकाङ्क्षाविवर्जिताः ।
ब्रह्मनिष्ठा ध्यानपरा ब्रह्मण्येव व्यवस्थिताः ।
तेऽपि तद्भावमायान्ति विमुक्तिपथमाश्रिताः ।
योगिनस्तं प्रपश्यन्ति समर्था नैव चोदितुम् ३०

कर्मणो भावना येयं सा ब्रह्मपरिपन्थिनी ।
कर्मभावनया तुल्यं विज्ञानमुपपद्यते ३१

तादृग्भवतो विज्ञप्तिर्यादृशी कर्मभावना ।
क्षये तस्याः परं ब्रह्म स्वयमेव प्रकाशते ३२

एवमेतन्मया भूप यथावत्कथितं तव ।
द्वैताद्वैतस्वरूपेण यथा ब्रह्म व्यवस्थितम् ३३

यथावत्कर्मनिष्ठानां तत्प्राप्तिः कथितं तथा ।
स्वरूपं ब्रह्मणश्चोक्तमुभयत्रापि ते पृथक् ।
वासुदेवमयस्यान्यत्किं भूयः कथयामि ते ३४

इति विष्णुधर्मेषु ब्रह्माभिव्यञ्जकः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP