संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ७४ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ७४ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ७४ Translation - भाषांतर N/Aअथ चतुस्सप्ततितमोऽध्यायः ।शौनक उवाच ।भूयश्च शृणु राजेन्द्रयज्जगाद जनार्दनः ।नागपर्यङ्कशयने पृष्टः क्षीराब्धिकन्यया १पुरा शयानं गोविन्दं प्रावृट्काले महोदधौ ।शेषभोगिमहाभोगे वीच्यम्बुकणशीतले २वक्षःस्थलस्थिता देवी जगन्माता जगत्पतिम् ।अनन्यासक्तदृष्टिं च किमप्येकाग्रमानसम् ।श्रीवत्सवक्षसं लक्ष्मीः करसंवाहनादृता ३योगनिद्रावसानस्थमच्युतं जगतः पतिम् ।पप्रच्छ पुण्डरीकाक्षं पुण्डरीककरा हरिम् ४श्रीरुवाच ।सृष्टं जगदिदं सर्वं बहुशश्चोपसंहृतम् ।त्वया जगत्पते चात्र किं कश्चिद्दयितस्तव ५देवान्मनुष्यान्गन्धर्वान्यक्षविद्याधरासुरान् ।सृष्ट्वा सृष्टान्निर्घृणत्वादुपसंहरते भवान् ६कश्चिदेतेषु भूतेषु देवादिषु तवाच्युत ।द्वेषोऽस्ति प्रीतिरथवा समः सर्वत्र वा भवान् ७भगवानुवाच ।समोऽस्मि सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।तथापि गुणगृह्योऽहं प्रत्येकहृदयस्थितः ८अन्तरात्मनि सर्वस्य लोकस्याहमवस्थितः ।पुण्यापुण्यकृतौ तेषु प्रीतिद्वेषौ शुभे मम ९पुण्यं प्रीत्यनुभावेन साधु बुद्धिषु वर्तते ।द्वेषानुभावेनापुण्यं फलदं तेषु भामिनि १०श्रूयतां च महाभागे नरेषु शुभचारिषु ।सततं येषु मे प्रीतिस्तथाप्रीतिर्वरानने ११प्रलयोत्पत्तितत्त्वज्ञा आत्मज्ञानपराश्च ये ।एते स्वकर्मणा भद्रेमम प्रीतिपथं गताः १२वाङ्मनःकायिकीं हिंसां ये न कुर्वन्ति कुत्रचित् ।सर्वमैत्रा नरा लक्ष्मि दयितास्ते सदा मम १३स्वकीयद्रव्यसन्तुष्टा निवृत्ताश्चौर्यकर्मणः ।सत्यशीलदयायुक्ता नरा मम सदा प्रियाः १४मातृस्वसृसुतातुल्यान्परदारांश्च ये नराः ।मन्यन्ते ते च मे लक्ष्मि दृढं प्रियतमाः सदा १५न कामान्न च संरम्भान्न द्वेषाद्ये च भामिनि ।सन्त्यजन्ति स्वकं कर्म तेऽतीव दयिता मम १६विश्वास्याः सर्वभूतानामहिंस्राश्च दयालवः ।त्यक्तानृतकथा देवि मनुष्या दयिता मम १७धर्मलब्धांस्तु ये भोगान्भुञ्जते नातिकीकटाः ।परलोकाविरोधेन ते ममातिप्रिया नराः १८न लोभे न च कार्पण्ये न स्तेये न च मत्सरे ।येषां मतिर्मनुष्याणां तेऽतीव दयिता मम १९धर्मलब्धेषु दारेषु ऋतुकालाभिगामिनः ।गृहस्थकर्माभिरता नरास्ते दयिता मम २०पररन्ध्रेषु जात्यन्धाः परदारेष्वपुंसकाः ।परापवादे ये मूका दयितास्ते नरा मम २१परापवादं निन्दां च परमर्मावघट्टनम् ।ये न कुर्वन्ति पुरुषास्ते देवि मम वल्लभाः २२सत्यां श्लक्ष्णां निराबाधां मधुरां प्रीतिदायिनीम् ।ये वाचमीरयन्ति स्म ते मनुष्या मम प्रियाः २३ये ब्राह्मणार्थे सन्त्यज्य सद्यः स्वमपि जीवितम् ।यतन्ते परया भक्त्या ते देवि दयिता मम २४साक्षाद्देवमिवायान्तं या पतिं नित्यमर्चति ।पादशौचादिभिर्नारी तस्या नाहं सुदुर्लभः २५पूर्णचन्द्रमिवोद्यतं भर्तारं या गृहागतम् ।हृष्टा पश्यति तां विद्धि दयितां योषितं मम २६ते भक्ता ये सदा विप्रान्पूजयन्त्यब्धिसम्भवे ।यथाविभवतो भक्त्या स्वकर्माभिरता नराः २७श्रुतिस्मृत्युदितं धर्मं मनसापि न ये नराः ।समुल्लङ्घ्य प्रवर्तन्ते ते भक्ता मम भामिनि २८ब्रह्मरूपधरस्यास्यान्मम वेदा विनिःसृताः ।मन्वादिरूपिणश्चैव समस्ताः स्मृतयः स्मृताः २९श्रुतिः स्मृतिर्ममैवाज्ञा तामुल्लङ्घ्य यजेच्छुभे ।सर्वस्वेनापि मां देवि नाप्नोत्याज्ञाविघातकृत् ३०यः स्वधर्मान्न चलति हिंसाधौ यो न सज्यते ।वहतस्तस्य मद्भक्तिं सदैवाहं न दुर्लभः ३१एतद्देवि मयाख्यातं यत्पृष्टोऽहमिह त्वया ।प्रियाणां मम सर्वेषां शृणु योऽतितरं प्रियः ३२ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्च वरवर्णिनि ।स्वधर्मादचलन्देवि दयावान्सर्वजन्तुषु ३३सत्यवाच्छौचसम्पन्नो न द्रोही न च मत्सरी ।वाङ्मनःकर्मभिः शान्तो दयितः सततं मम ३४शौनक उवाच ।एवं श्रीर्देवदेवेन प्रागुक्ता हरिमेधसा ।तवापि हि नरश्रेष्ठ यथावत्कथितं मया ३५संवादमेतद्देवस्य सह लक्ष्म्या जगत्पतेः ।यः शृणोति स पापेभ्यः समस्तेभ्यः प्रमुच्यते ३६इति विष्णुधर्मेषु वासुदेवश्रीसंवादः । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP