संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः| अध्याय ७९ विष्णुधर्माः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ विष्णुधर्माः - अध्याय ७९ विष्णुधर्माः Tags : puransanskritVishnu dharmaपुराणविष्णुधर्माःसंस्कृत विष्णुधर्माः - अध्याय ७९ Translation - भाषांतर अथैकोनाशीतितमोऽध्यायः ।शौनक उवाच ।एवं स्तुते ततस्तस्मिन्विष्णुचक्रे सुदर्शने ।पुष्पवृष्टिर्बलेर्मूर्ध्नि निपपातान्तरिक्षतः ।परिहृत्य च दैत्येन्द्रंययौ चक्रं यथेच्छया १भ्रमदेव च दैत्यानां ययौ तद्भयमावहत् ।ततस्तदद्भुतं दृष्ट्वा चक्रस्यागमनं हरेः ।पूर्ववत्स्मरणं प्राप्य सस्मार स्वपितामहम् २गच्छता पूर्वमार्येण स्मर्तव्योऽहमितीरितम् ।तं स्मरिष्यामि दैत्येन्द्रंस नः श्रेयोऽभिधास्यति ३इत्येतदधिसंस्मृत्य बलिरात्मपितामहम् ।सस्मार दैत्याधिपतिं प्रह्लादं भगवत्प्रियम् ४संस्मृतश्च स पातालमाजगाम महामतिः ।चक्रोद्यतकरः साक्षाद्भगवानिव केशवः ५तमागतमथोत्थाय यथावत्स महामतिः ।अभिवाद्य बलिर्भक्त्या निवेद्यार्घमभाषत ६बलिरुवाच ।तातांह्रिदर्शनादद्य पावितोऽस्म्यपकल्मषः ।दिवश्च्युतोऽप्यहं मन्ये शक्रादात्मानमुत्तमम् ७त्रैलोक्यहरणादुग्रं यद्दुःखं हृदये मम ।तच्छान्तं पादसम्पर्कमुपेत्य भवतो मम ८शौनक उवाच ।इति संस्तूय दत्त्वा च वरासनमुदारधीः ।पर्युपासत राजेन्द्रोदैत्यानां स्वपितामहम् ९तमुपासीनमनघः प्रह्रादो दैत्यपुङ्गवः ।प्रत्युवाच महात्मानं बलिं वैरोचनिं नृप १०प्रह्लाद उवाच ।बले ब्रूहि यदर्थं ते स्मृतोऽहमरिसूदन ।तवोपकारणे विद्धि धर्मे मां सततोद्यतम् ११बलिरुवाच ।तातेनाहं पुरा ज्ञप्तो भ्रष्टराज्येन ते बले ।संस्मर्तव्योऽस्म्यसन्दिग्धं श्रेयो वक्ष्याम्यहं तदा १२सोऽहं राज्यपरिभ्रष्टो विषयासक्तिहृषितः ।इन्द्रियैरवशस्तात यत्कार्यं तत्प्रशाधि माम् १३प्रह्लाद उवाच ।यदि मद्वचनं तात श्रद्धधासि हितं बले ।तं देवदेवमनघं प्रयाहि शरणं हरिम् १४शब्दादिष्वनुरक्तानि तवाक्षाण्यसुराधिप ।शब्दादयश्च गोविन्दे सन्त्येव व्यवहारतः १५गीतकैर्गीयतां विष्णुर्मनोहारिभिरात्मनः ।अन्यालम्बनतश्चित्तमाकृष्याधत्स्व केशवे १६गन्धानुदारान्भक्षांश्च स्रजो वासांसि चासुर ।प्रयच्छ देवदेवाय तच्छेषाण्युपयुञ्ज च १७यत्र यत्र च ते प्रीतिर्विषये दितिजेश्वर ।तत्तमच्युतमुद्दिश्य विप्रेभ्यः प्रतिपादय १८सर्वभूतेषु गोविन्दो बहुरूपो व्यवस्थितः ।इति मत्वा महाबाहो सर्वभूतहितो भव १९आत्मानमच्युतं विद्धि शत्रुं च रिपुमात्मनः ।इतिज्ञानवतः कोपस्तव कुत्र भविष्यति २०शब्दादयो ये विषया विषयी यश्च पुरुषः ।तदशेषं विजानीहि स्वरूपं परमात्मनः २१परमात्मा च भगवान्विष्वक्सेनो जनार्दनः ।तद्भक्तिमान्भागवतो नाल्पपुण्यो हि जायते २२भगवच्छासनालम्बी भगवच्छासनप्रियः ।भगवद्भक्तिमाथाय वत्स भागवतो भव २३भगवान्भूतकृद्भव्यो भूतानां प्रभवो हि यः ।भावेन तं भजस्वेशं भवभङ्गकरं हरिम् २४भजस्व भावेन विभुं भगवन्तं महेश्वरम् ।ततो भागवतो भूत्वा भवबन्धाद्विमोक्ष्यसे २५सर्वभूते मनस्तस्मिन्समाधाय महामते ।प्राप्स्यसे परमाह्लादकारिणीं परमां गतिम् २६यत्रानन्दपरं ज्ञानं सर्वदुःखविवर्जितम् ।तत्र चित्तं समावेष्टुं न शक्नोति भवान्यदि ।तदभ्यासपरस्तस्मिन्कुरु योगं दिवानिशम् २७तत्राप्यसामर्थ्यवतः क्रियायोगो महात्मना ।ब्रह्मणा यः समाख्यातस्तन्मनाः सततं भव २८करोषि यानि कर्माणि तानि देवे जगत्पतौ ।समर्पयस्व भद्रंते ततः कर्म प्रहास्यसि २९क्षीणकर्मा महाबाहो शुभाशुभविवर्जितः ।लयमभ्येति गोविन्दे तद्ब्रह्म परमं महत् ३०भोक्तुमिच्छसि दैत्येन्द्रकर्मणामथ चेत्फलम् ।ततस्तमर्चयेशेशं ततः कर्मफलोदयः ३१योऽर्थमिच्छति दैत्येन्द्रससमाराध्य केशवम् ।निःसंशयमवाप्नोति धुन्धुमारो यथा नृपः ३२अत्रिगेहसमुद्भूतं दत्तात्रेयस्वरूपिणम् ।राज्यमाराध्य गोविन्दं कार्तवीर्यस्तथाप्तवान् ३३धर्मं कृष्णप्रसादेन मुद्गलो जाजलिः कुणिः ।प्रापुरन्ये तथा कामान्नरेन्द्रानहुषादयः ३४जनकः सुध्वजो नाम जनकः समितिध्वजः ।धर्मध्वजस्तथा मुक्तिं केशवाराधनाद्गतः ३५तथान्ये मुनयो दैत्य राजानश्च सहस्रशः ।प्रापुर्मुक्तिं महाभागाः कृत्वा भक्तिं जनार्दने ३६यथा हि ज्वलितो वह्निस्तमोहानिं तदर्थिनाम् ।शीतहानिं तथान्येषां स्वेदं स्वेदाभिलाषिणाम् ३७करोति क्षुधितानां च भोज्यपाकं तथोत्कटम् ।तथैव कामान्भूतेशः स ददाति यथेप्सितान् ३८तदेतदखिलं ज्ञात्वा यत्तवेष्टं शृणुष्व तत् ।कल्पद्रुमादिव हरेर्यत्ते मनसि वर्तते ३९-—————–शौनक उवाच ।एतत्प्रह्लादवचनं निशाम्य दितिजेश्वरः ।प्रत्युवाच महाभागं प्रणिपत्य पितामहम् ४०सम्प्राप्तस्यामृतस्येव तव वाक्यस्य नास्ति मे ।तृप्तिरेतदहं तात श्रोतुमिच्छामि विस्तरात् ४१अक्षीणकर्मा पुरुषो मरणे समुपस्थिते ।कीदृशं लोकमायाति यः संस्मरति केशवम् ४२यथा च वासुदेवस्य स्मरणं तात मानवैः ।मुमूर्षुभिः प्रकर्तव्यं तन्ममाचक्ष्व विस्तरात् ४३किं जप्यं कीदृशं रूपं स्मर्तव्यं च हरेस्तदा ।कथं ध्येयं च विद्वद्भिस्तदाचक्ष्व यथातथम् ४४प्रह्लाद उवाच ।साधु वत्स त्वया प्रश्नः सुगुह्योऽयमुदाहृतः ।तपसां तात सर्वेषां तपो नानशनात्परम् ४५कथ्यते च महाबाहो संवादोऽयं पुरातनः ।भगीरथस्य राजर्षेर्ब्रह्मणश्च प्रजापतेः ४६अतीत्यामरलोकं च गवां लोकं च मानद ।ऋषिलोकं च योऽगच्छद्भगीरथ इति श्रुतः ४७तं दृष्ट्वा स वचः प्राह ब्रह्मा लोकपितामहः ।कथं भगीरथागास्त्वमिमं देशं दुरासदम् ४८न हि देवा न गन्धर्वा न मनुषा भगीरथ ।आयान्त्यतप्ततपसः कथं वै त्वमिहागतः ४९भगीरथ उवाच ।निःशङ्कमन्नमददं ब्राह्मणेभ्यः ।शतं सहस्राणि सदैव दायम् ।ब्राह्मणं व्रतं नित्यमास्थाय विद्वन् ।न त्वेवाहं तस्य फलादिहागाम् ५०दशैकरात्रान्दश पञ्चरात्रानेकादशैकादशकांस्तथैव ।ज्योतिष्टोमानां च शतं यदिष्टं फलेन तेनापि न चागतोऽहम् ५१यच्चावसं जाह्नवीतीरनित्यः शतं समास्तप्यमानस्तपोऽहम् ।प्रदाय तत्राश्वतरीसहस्रं फलेन तस्यापि न चागतोऽहम् ५२दश धेनुसहस्राणि मणिरत्नविभूषिताः ।दशार्बुदानि चाश्वानामयुतानि च विंशतिः ।पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः ५३सुवर्णचन्द्रोत्तमधारिणीनां कन्योत्तमानामददं स्रग्विणीनाम् ।षष्टिं सहस्राणि विभूषितानां जाम्बूनदैराभरणैर्न तेन ५४दशार्बुदान्यददं गोसवे यास्त्वेकैकशो दश गा लोकनाथ ।समानवत्साः पयसा समन्विताः सुवर्णकांस्योपदुहा न तेन ५५अहन्यहनि विप्रेषु एकैकं त्रिंशतोऽददम् ।गृष्टीनां क्षीरदात्रीणां रोहिणीनां शतानि च ५६दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव तु ।प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः ५७कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम् ।एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः ५८वाजिनां श्यामकर्णानां हरितानां पितामह ।प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च ५९ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान् ।पत्नीवतः सहस्राणि प्रायच्छं दश सप्त च ६०अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः ।रथानां काआङ्गानां सहस्राण्यददं दश ।सप्त चान्यानि युक्तानां वाजिभिः समलङ्कृतैः ६१दक्षिणावयवाः केचिद्देवैर्ये सम्प्रकीर्तिताः ।वाजपेयेषु दशसु प्रादां तेनापि नागतः ६२शक्रतुल्यप्रभावानामीज्यया विक्रमेण च ।सहस्रं निष्ककण्ठानां प्रददन्दक्षिणामहम् ६३विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह ।अष्टाभ्यो राजसूयेभ्यो न च तेनाहमागतः ६४स्रोतश्च यावद्गङ्गायां छिन्नमासीज्जगत्पते ।दक्षिणाभिः प्रवृत्ताभिर्मम नागं च तत्कृते ६५वाजिनां च सहस्रे द्वे सुवर्णमणिभूषिते ।वारणानां शतं चाहमेकैकस्य त्रिधाददम् ।वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम् ६६तपस्वी नियताहारः शममास्थाय वाग्यतः ।दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम् ६७मूर्ध्ना धारां महादेवः शिरसा यामधारयत् ।न तेनाप्यहमागच्छं फलेनेह पितामह ६८शम्याक्षेपैरयजं देवदेव तथा क्रतूनामयुतैश्चापि यत्तः ।त्रयोदशद्वादशाहैश्च देव सपुण्डरीकैर्न च तेषां फलेन ६९अष्टौ सहस्राणि ककुद्मिनामहं ।शुक्लर्षभाणामदं ब्राह्मणेभ्यः ।पत्नीश्चैषामददं निष्ककण्ठीस् ।तेषां फलेनेह न चागतोऽस्मि ७०हिरण्यरत्नरचितानददं रत्नपर्वतान् ।धनधान्यसहस्रांश्च ग्रामाञ्शतसहस्रशः ७१शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः ।इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो धनेन च ७२एकादशाहैरयजं सुदक्षिणैर्द्विर्द्वादशाहैरश्वमेधैश्च देव ।बृहद्भिर्द्वादशाहैश्च अश्वमेधैः पितामह ।अर्कायणैः षोडशभिश्च ब्रह्मंस्तेषां फलेनेह न चागतोऽस्मि ७३निष्क्रामकं चाप्यददं योजनानां द्विर्विस्तीर्णं काञ्चनपादपानाम् ।वनं चूतानां रत्नविभूषितानां न चैव तेषामागतोऽहं फलेन ७४तुरायणं तु व्रतमप्रधृष्यमक्रोधनोऽकरवं त्रिंशतोऽब्दान् ।शतं गवामष्ट शतानि चाहं दिने दिने प्राददं ब्राह्मणेभ्यः ७५पयस्विनीनां अथ रोहिणीनां तथैव चाप्यनडुहां लोकनाथ ।प्रादां नित्यं ब्राह्मणेभ्यः सुरेश नेहागतस्तेन फलेन चाहम् ७६त्रिंशतं विधिवद्वह्नीनयजं यच्च नित्यशः ।अष्टाभिः सर्वमेधैश्च नृमेधैर्द्विगुणैस्तथा ७७दशभिर्विश्वजिद्भिश्च स्तोभैरष्टादशोत्तरैः ।न चैव तेषां देवेश फलेनाहमिहागमम् ७८सरव्यां बाहुदायां च गयायामथ नैमिषे ।गवां शतानामयुतमददं न च तेन वै ७९उत्क्रान्तिकाले गोविन्दं स्मरन्ननशनस्थितः ।त्यक्तवानस्मि यद्देहं तेनेदृक् प्राप्तवान्फलम् ८०एवमेतदितीत्याह ब्रह्मा लोकपितामहः ।भगीरथं महीपालं पुण्यलोकनिवासिनम् ८१तदेतदुक्तं तपसां समस्तानां महामते ।गुणैरनशनं ब्रह्मा प्रधानतरमब्रवीत् ८२त्यजत्यनशनस्थो हि प्राणान्यः संस्मरन्हरिम् ।स याति विष्णुसालोक्यं यावदिन्द्राश्चतुर्दश ८३अतीतानागतानीह कुलानि पुरुषर्षभ ।पुनात्यनशनं कुर्वन्सप्त सप्त च सप्त च ८४श्लोकाश्चात्र महाबाहो श्रूयन्ते यान्भगीरथः ।जगाद ब्रह्मणो लोकमुपेतः पृथिवीपतिः ८५ब्रह्म ब्रह्ममयं विष्णोर्यः पदं परमात्मनः ।संस्मरंस्त्यजति प्राणान्स विष्णुं प्रविशत्यजम् ८६यः क्षीणकर्मा भोगेन तपसा वापि संस्मरन् ।करोति कालं कालेन न परिच्छेद्यते हि सः ८७अक्षीणकर्मा मरणे संस्मरन्देवमच्युतम् ।यथा त्वमेव देवानां लोके भोगानुपाश्नुते ८८क्षुतितेऽपि कुले कश्चिज्जायेयं कर्मणः क्षये ।मनुष्यो येन सर्वेशं चिन्तयेयं सदा हरिम् ८९तच्चिन्तयाधुनाशेषपुण्यपापविवर्जितः ।मरणे तन्मनस्तत्र लयमेत्य तमाप्नुयात् ९०कर्मभूमौ समस्तानां कर्मणामुत्तमोत्तमम् ।यदन्तकाले पुरुषैः स्मर्यते पुरुषोत्तमः ९१इत्येतानाह राजर्षिः श्लोकानाद्यो भगीरथः ।विष्णुसंस्मरणात्प्राप्य लोकाननशने मृतः ९२एवमत्यन्तशस्तानां कर्मणामसुरेश्वर ।नान्यदुत्कृष्टमुद्दिष्टं तज्ज्ञैरनशनात्परम् ९३तस्याहं लक्षणं वक्ष्ये यच्च जप्यं मुमूर्षुभिः ।यादृग्रूपश्च भगवांश्चिन्तनीयो जनार्दनः ९४आसन्नमात्मनः कालं ज्ञात्वा प्राज्ञो महासुर ।निर्धूतमलदोषश्च स्नातो नियतमानसः ९५समभ्यर्च्य हृषीकेशं पुष्पधूपादिभिस्ततः ।प्रणिपातैः स्तवैः पुण्यैर्ध्यानयोगैश्च पूजयेत् ९६दत्त्वा दानं च विप्रेभ्यो विकलादिभ्य एव च ।सभाप्रपाब्राह्मणौकदेवौकाद्युपयोगि च ९७बन्धुपुत्रकलत्रौकक्षेत्रधान्यधनादिषु ।मित्रवर्गे च दैत्येन्द्रममत्वं विनिवर्तयेत् ९८मित्रानमित्रान्मध्यस्थान्परान्स्वांश्च पुनः पुनः ।अभ्यर्थनोपचारेण क्षामयेत्कुकृतं स्वकम् ९९ततश्च प्रयतः कुर्यादुत्सर्गं सर्वकर्मणाम् ।शुभाशुभानां दैत्येन्द्रवाक्यं चेदमुदाहरेत् १००परित्यजाम्यहं भोगांस्त्यजामि सुहृदोऽखिलान् ।भोजनादि मयोत्सृष्टमुत्सृष्टमनुलेपनम् १०१स्रग्भूषणादिकं गेयं दानमादानमेव च ।होमादयः पदार्था ये याश्च नित्यक्रिया मम १०२नैमित्तिकास्तथा काम्या वर्णधर्मास्तथोज्झिताः ।गुणधर्मादयो धर्मा याश्च काश्चिन्मम क्रियाः १०३पद्भ्यां कराभ्यां विहरन्कुर्वन्वा कर्म न त्वहम् ।करिष्ये प्राणिनां पीडां प्राणिनः सन्तु निर्भयाः १०४नभसि प्राणिनो ये तु ये जले ये च भूतले ।क्षितेरन्तरगा ये च ये च पाषाणसम्पुटे १०५ये धान्यादिषु वस्त्रेषु शयनेष्वासनेषु च ।ते स्वपन्तु विबुध्यन्तु सुखं मत्तो भयं विना १०६न मेऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुम् ।मित्रपक्षे च मे विष्णुरधश्चोर्ध्वं तथाग्रतः १०७पार्श्वतो मूर्ध्नि पृष्ठे च हृदये वाचि चक्षुषि ।श्रोत्रादिषु च सर्वेषु मम विष्णुः प्रतिष्ठितः १०८इति सर्वं समुत्सृज्य ध्यात्वा सर्वत्र चाच्युतम् ।वासुदेवेत्यविरतं नाम देवस्य कीर्तयन् १०९दक्षिणाग्रेषु दर्भेषु शयीत प्राच्छिरास्ततः ।उदच्छिरा वा दैत्येन्द्रचिन्तयञ्जगतः पतिम् ११०विष्णुं जिष्णुं हृषीकेशं केशवं मधुसूदनम् ।नारायणं नरं कृष्णं वासुदेवं जनार्दनम् १११वाराहं यज्ञपुरुषं पुण्डरीकाक्षमच्युतम् ।वामनं श्रीधरं श्रीशं नृसिंहमपराजितम् ११२पद्मनाभमजं शौरिं दामोदरमधोक्षजम् ।सर्वेश्वरेश्वरं शुद्धमनन्तं राममीश्वरम् ११३चक्रिणं गदिनं शार्ङ्गिं शङ्खिनं गरुडध्वजम् ।किरीटकौस्तुभधरं प्रणमाम्यहमव्ययम् ११४अहमत्र जगन्नाथे मयि चास्तु जनार्दनः ।आवयोरन्तरं मास्तु समीरनभसोरिव ११५अयं विष्णुरयं शौरिरयं कृष्णः पुरो मम ।नीलोत्पलदलश्यामः पद्मपत्त्रोपमेक्षणः ११६एष पश्यतु मामीशः पश्याम्यहमधोक्षजम् ।यतो न व्यतिरिक्तोऽहं यन्मयोऽहं यदाश्रयः ११७इत्थं जपन्नेकमनाः स्मरन्सर्वेश्वरं हरिम् ।आसीनः सुखदुःखेषु समो मित्राहितेषु च ११८ॐ नमो वासुदेवायेत्येतद्वा सततं वदन् ।यद्वोदीरयितुं नाम समर्थस्तदुदीरयन् ।ध्यायेत देवदेवस्य रूपं विष्णोर्मनोरमम् ११९प्रशान्तनेत्रभ्रूवक्त्रं शङ्खचक्रगदाधरम् ।श्रीवत्सवक्षसं चैव चतुर्बाहुं किरीटिनम् १२०पीताम्बरधरं विष्णुं चारुकेयूरधारिणम् ।चिन्तयेच्च तदा रूपं मनः कृत्वैकनिश्चयम् १२१यादृशे वा मनः स्थैर्यं रूपे बध्नाति चक्रिणः ।तदेव चिन्तयन्नाम वासुदेवेति कीर्तयेत् १२२इत्तं जपन्स्मरन्वेत्थं स्वरूपं परमात्मनः ।आ प्राणोपरमाद्वीरस्तच्चित्तस्तत्परायणः १२३निर्विकल्पेन मनसा यः स्मरेत्पुरुषोत्तमम् ।सर्वपातकयुक्तोऽपि पुरुषः पुरुषर्षभ ।प्रयाति देवदेवेशे लयमीड्यतमेऽच्युते १२४यथाग्निस्तृणजालानि दहत्यनिलसङ्गतः ।तथानशनसङ्कल्पः पुंसां पापमसंशयम् १२५विष्णोः संस्मरणे प्राप्य लोकमनशने मृतः ।एवमत्यन्तशस्तानां कर्मणामसुरेश्वर ।नास्ति सत्यात्परो धर्मो नास्त्यधर्म तथानृतात् ।नास्ति विद्यासमं चक्षुस्तपो नानशनात्परम् १२६नास्ति ज्ञानसमं दानं न सन्तोषसमं सुखम् ।न चैवेर्ष्यासमं दुःखं तपो नानशनात्परम् १२७नास्त्यरोगसमं धन्यं नास्ति गङ्गासमा सरित् ।नास्ति विष्णुसमं ध्येयं तपो नानशनात्परम् १२८बलिरुवाच ।उत्क्रान्तिकाले भूतानां मुह्यन्ते चित्तवृत्तयः ।जराव्याधिविधीनानां किमु व्याध्यादिदोषतः १२९अत्यन्तवयसा वृद्ध्या व्याधिना चातिपीडितः ।यदि स्थातुं न शक्नोति क्षितिस्थे दर्भसंस्तरे १३०तत्किमन्योऽप्युपायोऽस्ति न वानशनकर्मणि ।विफल्यं येन नाप्नोति तन्मे ब्रूहि पितामह १३१प्रह्लाद उवाच ।नात्र भूमिर्न च कुशाः संस्तरश्च न कारणम् ।चित्तस्यालम्बनीभूतो विष्णुरेवात्र कारणम् १३२भुञ्जन्नभुञ्जन्गच्छंश्च स्वपंस्तिष्ठन्नथापि वा ।उत्क्रान्तिकाले गोविन्दं संस्मरंस्तन्मयो भवेत् १३३किं जपैः किं भुवा कृत्यं किं कुशैर्दैत्यसत्तम ।तथापि कुर्वतो यस्य हृदये न जनार्दनः १३४तस्मात्प्रधानमन्त्रोक्तं वासुदेवस्य कीर्तनम् ।तन्मयत्वेन दैत्येन्द्रतस्योपायश्च विस्तरः १३५इत्येतत्कथितं सर्वं पृष्टोऽहं यत्त्वया बले ।उत्क्रान्तिकाले स्मरणं किं भूयः कथयामि ते १३६इति विष्णुधर्मेषूत्क्रान्तिस्मरणम् । N/A References : N/A Last Updated : February 28, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP