अरुणाचलमाहात्म्योत्तरार्धम् - अध्यायः १६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ ब्रह्मोवाच ॥
देवदेव तवैश्वर्यं केन शक्येत वेदितुम् ॥
विना भायैक्यसुलभं भवदीयमनुग्रहम् ॥१॥
अकर्तृकाणि वाक्यानि ऐश्वर्यं ते निरत्ययम् ॥
न स्तोतुं शक्यते किं तु नमस्कुर्वंति दूरतः ॥२॥
को विष्णुः कोऽहमेते वा दिक्पाला वासवादयः ॥
त्वमेव देव कर्त्तासि जगत्सृजनरक्षयोः ॥३॥
पतिस्त्वं पार्वतीनाथ पशवो वयमप्यमी ॥
बद्धं पाशेन मोक्तुं वा त्वमेवास्मान्प्रगल्भसे ॥४॥
षड्विंशत्तत्त्वरूपस्त्वमभितश्चाभिवर्त्तसे ॥
कोविदः को विनिर्णेतुं तव याथात्म्यमीश्वरः ॥५॥
किरातः किल देवस्त्वं सारमेयैः किलागमैः ॥
षड्वर्गहिंस्रान्संहर्तुं करोष्याखेटकौतुकम् ॥६॥
देव दक्षाध्वरे पूर्वं वरिभद्रस्त्वदाज्ञया ॥
कांकां शिक्षामकार्षीन्न इति कापि विडम्बना ॥७॥
तव कालाग्निरूपस्य सर्वब्रह्मांडदाहिनः ॥
पोषणात्पुष्पचापस्य प्रायो जिह्वेति शेमुषी ॥८॥
कृतापराधः शूलेन त्वया दीर्णो जलंधरः ॥
अन्तकोंधकदैत्यश्च प्रतिवीरश्च कोऽस्ति ते ॥९॥
अधारयिष्यत्कण्ठेन कालकूटं न चेद्भवान् ॥
कथं च धारयिष्यामो वयं सर्वेऽपि जीवितम् ॥१०॥
देवदारुवने पूर्वं मुनीन्केवलकर्मठान् ॥
प्रक्षोभ्य धूर्तवेषस्त्वं दययान्वग्रहीस्तथा ॥११॥
अंघ्रिणाक्रांतवान्नो चेदत्युग्रां त्वमपस्मृतिम् ॥
तयाक्रांतमिदं कृत्स्नमंधकारायते जगत् ॥१२॥
अर्धनारीश्वरं रूपं त्वया चेन्न प्रकाशितम् ॥
प्रभवामि कथं स्रष्टुं जगदेतच्चराचरम् ॥१३॥
भवता स्तंभितः शम्भो संरंभाज्जंभजिद्भुजः ॥
कियंतं हंत कालं ते जयस्तंभ इव स्थितः ॥१४॥
भिक्षोः कपालमापूर्य रुधिरेणात्मनो हरिः ॥
शूलेनोत्क्षिप्य मुमुहे ह्येतत्त्वमवधारय ॥१५॥
न चेदशिक्षयः सर्वशस्त्रास्त्राण्यनुकंपया ॥
निर्वापयेत्कथं वैरं क्रुद्धोपि जमदग्निभूः ॥१६॥
नृहरिं शरभाकारः समहार्षीन्न चेद्भवान् ॥
स एव संहरेद्विश्वं हिरण्यकशिपोरपि ॥१७॥
त्वमाचकृक्षः कल्पाब्धौ कैवर्त्तो मत्स्यकच्छपौ ॥
हरिं बद्ध्वाहिराट्सूत्रैर्नृसिंहमथ सूकरम् ॥१८॥
एकोने पद्मसाहस्रे स्वनेत्रेण कृतार्चनम् ॥
शूलिन्सुदर्शनं दत्त्वा दैत्यद्विषमतूतुपः ॥१९॥
 ॥ नंदिकेश्वर उवाच ॥
स्तुत्यैवमस्य विष्णोश्च प्रार्थनेन प्रसेदिवान् ॥
धूर्जटिः सृष्टिकर्तृत्वं पुनरस्याभ्यमन्यत ॥२०॥
समँज्यासु द्विजानां च पूजनं चानुशिष्टवान् ॥
उभावप्यब्रवीदेतौ वात्सल्याच्चद्रशेखरः ॥२१॥
 ॥ श्रीशिव उवाच ॥
वत्सौ युवां न ज्ञात्वैवं भूयो भवतमुद्धतौ ॥
गुरुं स्मरतो मामेव जाग्रतं सृष्टिरक्षयोः ॥२२॥
इह प्रदेशे युवयोर्यन्मयानुग्रहः कृतः ॥
पुण्यक्षेत्रमिदं पुंसां ततो मोक्षाय कल्पताम् ॥२३॥
योजनत्रयमात्रेऽस्मिन्क्षेत्रे निवसतां नृणाम् ॥
दीक्षादिकं विनाप्यस्तु मत्सायुज्यं ममाज्ञया ॥२४॥
यद्वा तिरश्चामप्यत्र स्थावराणां च देहिनाम् ॥
अबुद्धिपूर्विका बुद्धिरपवर्गस्य जायताम् ॥२५॥
नृणां च दर्शनाद्दूरे कैवल्यं स्मरणेन वा ॥
अस्तु वेदांतविज्ञानं न साध्यं निष्प्रयासतः ॥२६॥
शुभाय तैजसी मूर्तिः स्थावरा मम शाश्वती ॥
अरुणाद्रिरिति ख्याता नित्यमेवात्र वर्त्तताम् ॥२७॥
युगात्ययेपि नैनं तु मज्जयेयुर्महाब्धयः ॥
न चालयेयुर्मरुतो न दहेयुश्च वह्नयः ॥२८॥
ज्योतिर्मयमिदं लिंगं ज्योतिःष्वपि न जातुचित् ॥
क्रमंता निर्गमागत्या खेचराणि समंततः ॥२९॥
यस्यानुग्रहमिच्छामि जंतो्तस्यात्र संभवः ॥
देहांते कल्पतां मुक्त्यै विनौपनिषदीर्गिरः ॥३०॥
एष दूरात्प्रणामेन निकर्षाच्च प्रदक्षिणात् ॥
अपि पापात्मनां पुंसामस्तु निश्रेयसप्रदः ॥३१॥
अत्रैव नियतं वासाः संभवंति महात्मनाम् ॥
तस्मात्स्थलमिदं हित्वा न गंतव्यं कदाचन ॥३२॥
शोणाचलमनादृत्य क्वचित्स्थित्वापि मुक्तये ॥
तस्माद्युवां विधिहरी वसतं चात्र नित्यशः ॥३३॥
 ॥ नंदिकेश्वर उवाच ॥
इत्युक्तवंतं कामारिं प्रणम्य विधिमाधवौ ॥
तौ व्यज्ञापयतां देवं दूरीभवदहंक्रियौ ॥३४॥
 ॥ विधिमाधवावूचतुः ॥
एवमेतज्जगदाधार जगदाधारतां गतः ॥
आस्तां गिरिरसौ किं तु तेजो ह्यस्य सुदुस्सहम् ॥३५॥
अतोयमुत्तमो रुद्र तेजः सामान्यशैलवत् ॥
तिष्ठत्वभेद्यमहिमा निश्रेयसमहाखनिः ॥३६॥
विवृणोति निजं ज्योतिर्विश्वस्यास्य समृद्धये ॥
प्रत्यब्दं कार्त्तिके मासि कृत्तिकासु दिनात्यये ॥३७॥
शर्मदोपि नृणां देव शोणाद्रिस्तव शासनात् ॥
महत्त्वादर्चितुं शक्यो न स्याद्भक्तस्य कस्यचित् ॥३८॥
एतस्योपत्यकायां तदद्यारभ्यास्मदर्थनात् ॥
देवेन सन्निधातव्यमवन्यां लिंगरूपिणा ॥३९॥
तच्चारुणगिरीशानमावामाराधयावहे ॥
अभिषेकानुलेपाद्यैरुपचारैर्यथाविधि ॥४०॥
संत्यत्र केशराश्चूता नागपुंनागकेसराः ॥
आरग्वधाः कुरबका मालूराः पाटला अपि ॥४१॥
अत्रैव सन्निधातव्यं देवदेव दयानिधे ॥
यतस्त्वद्भक्तिदार्ढ्यं नौ भवतात्त्वदुपासनात् ॥४२॥
नान्यथा चित्तशुद्धिर्न्नौ देवेऽप्येवं प्रसेदुषि ॥
अनाद्यविद्यावृतये यो भविष्यति नित्यशः ॥४३॥
शोणाद्रेः पूर्वदिग्भागे स एष भृशमुन्नतः ॥
स एवालं निवासाय देवस्य हृदयंगमः ४४॥
सांगवेदा धर्मशास्त्रं पुराणानि शिवागमाः ॥
कृत्वा च सकलाः प्रोक्ता भवतैव भवावयोः ॥४५॥
निश्रेयसाय भक्तानां त्वयैव गुरुरूपिणा ॥
अष्टाविंशतिराख्याता आगमाः शैवसंज्ञिताः ॥४६॥
तेषु कस्य प्रकारेण कुर्वाणौ त्वदुपासनाम् ॥
कदाप्यज्ञानजामार्तिं नाधिगच्छाव शंकर ॥४७॥
 ॥ नंदिकेश्वर उवाच ॥
इति तौ धातृगोविंदौ पादपद्मावलंबिनौ ॥
जगाद करुणामूर्त्तिर्जगतीभृत्सुतापतिः ॥४८॥
 ॥ श्रीमहादेव उवाच ॥
युक्तमुक्तमिदं भद्रौ मयाप्येवं मनीषितम् ॥
कामिकोक्तेन मार्गेण मामर्चयितुमर्हथः ॥४९॥
मोहतो विस्मृता मन्ये भवद्भ्यां शैवसंहिता ॥
अधुना मत्प्रसादेन पुनरुद्भासतां हृदि ॥५०॥
 ॥ नन्दीश उवाच ॥
इत्युक्त्वा श्रीशवागीशौ गिरिशोऽन्तरधादथ ॥
तदा प्रादुरभूत्तत्र लिंगं किमपि मंगलम् ॥५१॥
तच्चावलोक्य साश्चर्य्यौ मुकुन्दकमलासनौ ॥
मुहुः प्रणम्य सानंदं प्रार्च्य तुष्टुवतुश्चिरम् ॥५२॥
तावकारयतां शोणगिरिनाथस्य चालयम् ॥
नानाशिल्पाद्भुतं विश्वकर्मणा प्रचयेन च ॥५३॥
खानयामासतुस्तत्र सरः किमपि पावनम् ॥
अभिषेकाय देवस्य सर्वतीर्थमयं नवम् ॥५४॥
अरुणाख्यं पुरं चारात्कल्पयामासतुश्चिरम् ॥
सिद्ध्यै नोत्कंठते लब्ध्वा कैलासायापि धूर्जटिः ॥५५॥
तस्यां ब्रह्मर्षयो देवा गंधर्वा दिव्ययोषितः ॥
सिद्धविद्याधरा यक्षाः पौरत्वं समुपाययुः ॥५६॥
तीर्थानि धार्य कूपत्वं गंगाद्याः सरितस्तथा ॥
नंदनादीनि च वनान्यभवन्निष्कुटत्वतः ॥५७॥
गोलोको गोगोष्ठतया नैगमत्वं किलागमाः ॥
शैलाश्च गोपुरादित्वं स्मृतयो विधितां ययुः ॥५८॥
भूताः प्रेताः पिशाचाश्च वेतालाः कटपूतनाः ॥
प्रपन्ना मानुषं देहं तस्यां किल पृथग्जनाः ॥५९॥
देवोपि धूर्जटिस्तस्यां कौतुकी सिद्धरूपधृक् ॥
योगित्वं समुपास्थाय मात्राकौपीनमुण्डधृक् ॥६०॥
न केनचिदविज्ञातः सदा सर्वत्र दीप्यति ॥
तौ च केशवलोकेशौ जटिलौ भस्मगुण्ठितौ ॥६१॥
दांतौ शोणाद्रिनाथं तमर्चयामासतुश्चिरम् ॥
तत्रत्यानां च सर्वेषां वर्णानामानुगुण्यतः ॥६२॥
दीक्षादिकानि चक्राते स्वयमाचार्यतां गतौ ॥
क्रमेण हृतनिर्माल्यौ सर्वागमरहोविदौ ॥६३॥
प्रातः स्नात्वा समाहृत्य पुष्पपत्रादिकं फलम् ॥
मंत्रं चारुणनाथस्य तत एव रहः श्रुतम् ॥६४॥
जंजल्पाकौ जजपतुः सर्वमंत्राधिकं सदा ॥
धूपप्रदीपनैवेद्यैर्गीतवादित्रनर्तनैः ॥६५॥
प्रदक्षिणानमस्कारैर्मुद्राबंधैर्नवैर्नवैः ॥
आसनेन च मूर्त्त्या च मूलेन च यथाविधि ॥६६॥
पंचब्रह्मषडंगाद्यैरर्चयामासतुः शिवम् ॥
एवं वर्षसहस्राणि षोडशारुणशंकरम् ॥६७॥
वेधोविष्णू समाराध्य शिवज्ञानमवापतुः ॥६८॥
इतीदमश्रावि मया रहस्यं पितुः शिलादस्य मुखात्पुरा यत् ॥
निवेदितं चाद्य तदेव तुभ्यं किमन्यदाकर्णयितुं मनीषा ॥६९
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डेऽरुणाचलमाहात्म्य उत्तरार्धे ब्रह्मविष्णुकृतारुणाचलेश मंदिरवर्णनंनाम षोडशोऽध्यायः ॥१६॥

N/A

References : N/A
Last Updated : July 23, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP