अथ माहेश्वरखण्डे तृतीयेऽरुणाचलमाहात्म्य उत्तरार्धम् ॥
१ सूतशौनकसंवादे मार्कण्डेयनन्दीश्वरयोः संवादारम्भः, तत्र मार्कण्डेयेन विविधमुनिवरैः सहितेन नन्दिकेश्वरं प्रति शैवागमप्रोक्तशिवधर्मजिज्ञासया प्रार्थनाकरणरूपेण स्थानमाहात्म्यप्रस्ताववर्णनम् ॥
२ अथ नन्दिकेश्वरेण श्रीशिवनिवासभूतमहीमण्डलस्थविविधक्षेत्रतीर्थस्थानवर्णनम् ॥
३ अथ मार्कण्डेयेन नन्दिकेश्वरं प्रति सर्वफलमाप्तिकर सर्वश्रेष्ठरहस्यस्थानजिज्ञासया सह
महर्षिगणैः श्रोतुमुत्सुकताप्रदर्शनपूर्वकं प्रश्नकरणम् ॥
४ अथ नन्दिकेश्वरेण सशिष्यं मार्कण्डेयमहर्षिं प्रति संश्लाघ्य दक्षिणदिक्स्थद्राविडदेशान्तर्गत श्रीमदरुणाचलेश्वरस्थानस्य सविस्तरमहावैभवमाहात्म्यवर्णनम् ॥
५ अथ नन्दिकेश्वरेण शिवभक्तिदार्ढ्याय सात्त्विकराजसतामसवृत्तिपुरुषवर्णनप्रसंगेन
विविधकर्मविपाकवर्णनम्
६ सकलमहापापापनोदकप्रायश्चित्तवर्णनप्रसंगेन श्रीमदरुणाचले कर्त्तव्यविविधधर्मवर्णनम्. ॥
७ अथ शोणाद्रीश्वरस्य सूर्यादिवार प्रतिपदादितिथ्यश्विन्यादिनक्षत्र मेषादिराशि पूर्वाह्न मध्याह्न सायाह्नायनमासादिसमयविशेषपरत्वेन पूजाविशेषोपचारमाहात्म्यपूर्वककाम्यकर्मवर्णनम ॥
८ अथ विस्तरेण श्रीमदरुणाचलेश्वरश्रीशंकरचरित्रमाहालत्म्यकथनारम्भः तत्र श्रीशंकरेण निजदक्षिणवामाङ्गाभ्यां ब्रह्मविष्ण्वोरुत्पत्तिः, रजोगुणसत्त्वगुणाभ्यां ब्रह्मविष्ण्वोर्योगकरणम्, ततो भगवदाज्ञया ब्रह्मणः सृष्टिकार्ये महाविष्णोश्च स्थितिकार्ये ऽधिकारप्रवृत्त्या निजोत्पादकभगवद्विस्मृत्या स्वस्वगुणकार्यवशेन गर्वप्राप्तिवृत्तान्तवर्णनम ॥
९ विरंच्यच्युतयोः स्वाधिकारगर्वेण मोहजन्यस्वश्रैष्ठ्यविषयकमहाविवादवर्णनम् ॥
१० अथ भृशं सासूयं विवदमानयोर्ब्रह्मविष्ण्वोर्मध्ये तद्विवादशान्तये तेजोमयश्रीशंकर- भगवल्लिंगप्रादुर्भाववृत्तान्तवर्णनम् ततो ब्रह्मविष्ण्वोस्तस्य लिङ्गस्योर्ध्वाधोभागपर्यन्तशोधनार्थं निश्चयकरणपूर्वकमन्तशोधस्य निर्धारणम् ॥
११ अथ तस्य तेजोमयलिंगस्याधोऽन्तपर्यन्तपरिच्छित्तये वराहरूपधारिणो विप्णोरधो लोकगमनम्, लिंगाधोभागशोधनं कृत्वा तस्य लिंगस्यानन्तता निश्चित्यः ततो निवृत्य पुनः पूर्वस्थलं प्रत्यागमनम् ॥
१२ अथ तस्य तेजोमयलिंगस्योर्ध्वान्तपर्यन्तपरिच्छित्तये हंसरूपधाारिणा ब्रह्मण ऊर्ध्वलोकगमनम्, तत्र लिंगोपरितनभागशोधनप्रवृत्तस्य ब्रह्मणोऽतिदूरऽतिचिरागतकेतकीपत्रेण सह समागमः ॥
१३ अथ मिथ्यासाक्ष्यप्रदानाय प्रार्थितेन केतकीपत्रेण सह ब्रह्मणो मूलस्थानं प्रत्यागत्य विष्णवे लिङ्गोर्ध्वपर्यंतदर्शनस्य केतकीपत्रद्वारा मिथ्यासाक्ष्येण सत्यापनम्व
१४ अथ विष्णुना हृदयेन तदसत्यं विनिश्चित्य स्वात्मरक्षार्थं ब्रह्मणश्च मदनिवृत्तये तेजोमयलिंगस्वरूपस्य भगवतः स्तुतिकरणम्. ॥
१५ अथ विष्णुकृतस्तुत्या प्रसन्नेन शंकरेण तेजःस्तंभं विनिर्भिद्य सगुणपञ्चवदनमूर्तिप्रकटनम्, तं सगुणरूपं परमेश्वरं श्रीशंकरं दृष्ट्वा विष्णोरानन्दः,तथा च ब्रह्मणो लज्जाप्राप्तिः, महेश्वरेण ब्रह्मणेऽपूज्यतारूपशापप्रदानम्, केतकच्छदस्य च स्वपूजानर्हतारूपशापप्रदानम्, अथ ब्रह्मदेवकृतशिवस्तुत्युद्यमः ॥
१६ अथ ब्रह्मदेवेन शिवस्तुतिकरणम्, एवं ब्रह्मविष्णुस्तुतिप्रसन्नेन भगवता श्रीशंकरेण ब्रह्मविष्ण्वोर्वरप्रदानपूर्वकं पुनः स्वाधिकारपालनार्थमाज्ञाकरणम् ,श्रीशोणाचलेऽवस्थित्यर्थमाज्ञाकरणं च, ततो भगवदन्तर्धानानन्तरं ब्रह्मविष्णुभ्यां श्रीशोणाचले सरः खननपूर्वकमरुणपुरनिर्माणपुरःसरारुणाचलेश्वरमन्दिरनिर्माणम् ॥
१७ अथ शिवपार्वत्योर्विहारवर्णनम्, कृतस्य तपसो वृत्तान्तवर्णने तत्र चानेकचरितपुरःसरं चतुर्मुखनारायणयोर्हेरम्बषडाननत्वादिवृत्तान्तवर्णनम् ॥
१८ अथ प्रणयकोपकुपितायाः पार्वत्याः शिवसकाशतो निष्क्रम्य निजदेहकालिमनिवृत्तये तपःकरणार्थं सखीभिः सह गौतमाश्रमं प्रत्यागमनम्, अथ गौतमोपदेशेन देव्या तदाश्रमसमीपे तीव्रतरनियमधारणपूर्वकमनुदिनमरुणाचलेश्वरपरिचरणरूपतपःकरणम् ॥
१९ अथ तत्र तपःस्थिताया देव्या लोभनार्थं महिषासुरेण निजप्रशंसानिवेदनाय देवीं प्रति दूतीप्रेषणम, देवीसख्या महिषासुरदूत्यां ततः स्थानान्निसारितायां महिषासुरस्य महता सैन्येन सह देवीं प्रत्यागमनम्, अथ देव्या महिषासुरसैन्यकोलाहलं श्रुत्वा दैत्यसंहारार्थं दुर्गां प्रत्याज्ञाकरणम्, दुर्गादेव्या स्वांगेभ्यो विविधयोगिनीचक्रमातृकादिसैन्यनिर्माणम, ततो देवीसैन्यदैत्यसैन्ययोस्तुमुलद्वन्द्वयुद्धवर्णनम्, ततो महिषासुरस्याजय्यतां दृष्ट्वा मातृकादिभिर्दुर्गादेवीस्तुतिकरणम्, ततो दुर्गादेव्या महिषासुरेण सह संग्रामे दुर्गादेवीकृतमहिषासुरवधवृत्तान्तवर्णनम् ॥
२० अथ दुर्गाहस्ते महिषासुरमस्तकेसंलग्नतायां देव्या उपदेशेन दुर्गया खड्गेन शिलापट्टपाटनपूर्वकं खड्गतीर्थं निर्माय तत्र निमज्जनम्, तन्निमज्जनसमये महिषासुरकण्ठ-स्थितलिङ्गपतनम्, तस्य लिङ्गस्य पापनाशनसंज्ञया खङ्गतीर्थतीरे स्थापनम्, ततो दुर्गादेव्या हस्तात्तस्मात्तीर्थादुन्मज्जनसमये महिषासुरमस्तकपतनम्, अथ पार्वत्या दुर्गादेव्यै शिवभक्तमहिषासुरहननार्थं निजानुमतिप्रदानात्पापशङ्काप्राप्त्यनन्तरं पापापनोदाय प्रायश्चित्तजिज्ञासया गौतमप्रार्थनम्, ततो गौतमेन कार्तिकपूर्णिमायामरुणा चलेश्वरज्योतिर्दर्शनपर्यन्तं तपश्चर्याकरणार्थमुपदेशकरणम्, अथ गौतमोपदेशेन पार्वत्या तपश्चर्याकरणम्, ततः कार्तिकपौर्णमास्यां दिनांते श्रीशोणाचलशिखरे ज्योतिर्दृष्ट्वा पार्वत्या श्रीशोणाद्रीश्वरस्तुतिकरणम्, अथ तत्कृतस्तुतिसंतुष्टेन भगवता सद्यः सुस्वरूपरूपदर्शनपूर्वकं जगदम्बायाः पार्वत्याः सान्त्वनवर्णनम् ॥
२१ अथ श्रीशङ्करेण जगदम्बायाः प्रशंसापूर्वकं पार्श्वे निवेशनम्, स्तन्यार्थिनं स्कन्दं विहाय तपोऽर्थं पार्वत्याः शिवसकाशतो निर्गमनकारणाच्छ्रीशंकरेण जगदम्बायां अपीतकुचेति नामकरणम्, महिषासुरमर्दिन्या दुर्गायाः श्रीजगदम्बासमीपेऽवस्थानम्, खड्गतीर्थस्य गौतममहर्षेः सप्तमातृकादीनां च श्रीशङ्करेण वरप्रदानवर्णनम् ॥
२२ अथ पाण्ड्यदेशीय सार्वभौम वज्रांगद भूपाल चरित्र वर्णनम्, तत्र वज्रांगदस्य हयमारुह्य मृगमनु शोणाचलं गतस्य मध्येमार्गं वाहात्पतनम्, तुरङ्गस्य कस्तूरीमृगस्य चेत्युभयोरपि शोणाद्रौ देहपतनेन तत्क्षण एव मरणान्खेचरत्वप्राप्तिः, अथ राज्ञा पृष्टयोस्तयोः खेचरयोर्विद्याधरयोर्मध्ये कान्तिशालिना विद्याधरेण वज्रांगदायात्मनो दुर्वासःशापकारणकथनप्रसंगेन श्रीशोणशैलप्रदक्षिणामाहात्म्यकथनम्, तत्र श्रीशोणाद्रीशेन शम्भुना निजप्रदक्षिणां कृतवते हेरम्बाय फलप्रदानपूर्वकं स्वस्य श्रीशोणाद्रीश्वरस्य प्रदक्षिणामाहात्म्यकथनम् ॥
२३ अथ कलाधराख्येन विद्याधरेण वज्रांगदाय भूपतये निजशापवृत्तान्तनिवेदनम्, अथ कान्तिशालिकलाधरयोर्विद्याधरयोरुपदेशेन वज्रांगदभूपस्य श्रीमदरुणाचलभक्तिविषये दृढनिश्चयकरणम् ॥
२४ अथ वज्रांगदभूपतिना श्रीमदरुणाचलसेवार्थं निजसर्वसंपत्त्युपयोगेन ब्राह्मणेभ्यो
विविधाग्रहारादिसमर्पणपूर्वकं गौतमश्रमसमीपे निजतपोवनं विधाय सर्वतीर्थ स्नान सर्वदेवपूजापूर्वकशिवार्चाकरणम्, वज्रांगदकृतया तपश्चर्यया संतुष्टेन भगवता वज्रांगदाय निजमहिमोपदेशपूर्वकवरप्रदानम् ऽ भगवद्वरप्रसादेन वज्रांगदस्य सर्वभोगावाप्तिपूर्वकसद्गतिवर्णनम्, अरुणाचलेश्वरस्य सर्वातिशायिश्रैष्ठ्यमाहात्म्य वर्णनपूर्वकमरुणाचलमाहात्म्यसमाप्तिवर्णनम् ॥
इति माहेश्वरखण्डे तृतीयेऽरुणाचलमाहात्म्ये उत्तरार्थम् ॥