(दिक्परिच्छेदः)
वक्ष्येऽहं दिक्परिच्छेदं शङ्कुनार्कोदये सति ।
उत्तरायणमासे तु शुक्लपक्षे शुभोदये ॥१॥
प्रशस्तपक्षनक्षत्रे विमले सूर्यमण्डले ।
गृहीतवास्तुमध्ये तु समं कृत्वा भुवः स्थलम् ॥२॥
जलेन दण्डमात्रेण समं तु चतुरस्त्रकम् ।
शङ्कुलक्षणम्
तन्मध्ये स्थापयेच्छङ्कुं तन्मानमधुनोच्यते ॥३॥
अरत्निमात्रमायाममग्रमेकाङ्गुलं भवेत् ।
मूलं पञ्चाङ्गुलं व्यासं सुवृत्तं निर्व्रणं वरम् ॥४॥
अष्टादशाङ्गुलं मध्यं कन्यसं द्वादशाङ्गुलम् ।
आयामसदृशं नाहं मूलेऽग्रे तु नवाङ्गुलम् ॥५॥
दन्तं वै चन्दनं चैव खदिरः कदरः शमी ।
शाकश्च तिन्दुकश्चैव शङ्कुवृक्षा उदीरिताः ॥६॥
अन्यैः सारद्रुमैः प्रोक्तं तस्याग्रं चित्रवृत्तकम् ।
शङ्कुं कृत्वा दिनादौ तु स्थापयेदात्तभूतले ॥७॥
शङ्कुद्विगुणमानेन तन्मध्ये मण्डलं लिखेत् ।
पूर्वापराह्णयोश्छाया यदि तन्मण्डलान्तगा ॥८॥
तद्बिन्दुद्वयगं सूत्रं पूर्वापरदिशीष्यते ।
बिन्दुद्वयान्तरभ्रान्तशफराननपुच्छगम् ॥९॥
दक्षोणोत्तरगं सूत्रमेवं सूत्रद्वयं न्यसेत् ।
उदगाद्यपरान्तानि पर्यन्तानि विनिक्षिपेत् ॥१०॥
सूत्राणि स्थपतिः प्राज्ञः प्रागुत्तरमुखानि च ।
अपच्छाया
कन्यायां वृषभे राशावपच्छायात्र नास्ति हि ॥११॥
मेषे च मिथुने सिंहे तुलायां द्वयङ्गुलं नयेत् ।
कुलीरे वृश्चिके मत्स्ये शोधयेच्चतुरङ्गुलम् ॥१२॥
धनुःकुम्भे षडङ्गुल्य मकरेऽष्टाङ्गुलं तथा ।
छायाया दक्षिने वामे नीत्वा सूत्रं प्रचारयेत् ॥१३॥
रज्जुलक्षणम्
अष्टयष्ट्यायता रज्जुस्तालकेतकवल्कलैः ।
कार्पासपट्टसूत्रैश्च दर्भैर्न्यग्रोधवल्कलैः ॥१४॥
अङ्गुलाग्रसमस्थूला त्रिवर्तिर्ग्रन्थिवर्जिता ।
देवद्विजमहीपानां शेषयोश्च द्विवर्तिका ॥१५॥
खातशङ्कुलक्षणम्
खदिरः कादिरश्चैव मधूकः क्षीरिणी तथा ।
खातशङ्कुद्रुमाः प्रोक्ता अन्यं वा सारदारुजम् ॥१६॥
एकादशाङ्गुलाद्येकविंशन्मात्रं तु दैर्घ्यतः ।
पुर्णमुष्टुस्तु नाहं स्त्यान्मूलं सूचीनिभं भवेत् ॥१७॥
गृहीत्वा वामहस्तेन प्राङ्मुखो वाप्यदङ्मुखः ।
दक्षिणेनाष्ठीलं गृह्य ताडयेदष्टभिः क्रमात् ॥१८॥
सूत्रविन्यासम्
प्रमाणसुत्रमित्युक्तं प्रमाणैर्निश्चितं हि यत् ॥१९॥
तद्बहिः परितो भागे सूत्रं पर्यन्तमिष्यते ।
गर्भसूत्रादिविन्याससूत्रं देवपदोचितम् ॥२०॥
पदविन्याससूत्रं हि विन्यासः सूत्रमिष्यते ।
गृहाणां दक्षिणे गर्भस्तत्पार्श्वे सूत्रपातनम् ॥२१॥
तत्सूत्राच्छङ्कुमानेन नीत्वा शङ्कु निखानयेत् ।
उपानं निष्क्रमार्थं वा भित्त्यर्थं वाऽथ तद्भवेत् ॥२२॥
नगरग्रामदुर्गेषु वाय्वादी रज्जुपातनम् ।
अवाच्याशाद्युदीच्यन्तं प्राक्प्रत्यग्गतसूत्रकम् ॥२३॥
प्रतीच्याशादिपूर्वान्तं विसृजेद् दक्षिणोत्तरम् ।
ब्रह्मस्थानात् पूर्वगतं तत् त्रिसूत्रं तदुच्यते ॥२४॥
ततो धनं पश्चिमगं धान्यं दक्षिणगं ततः ।
ब्रह्मस्थानादुत्तरगं सुखमित्यभिधीयते ॥२५॥
सुखप्रमानं यत् सूत्रं तत्प्रमाणमिहोच्यते।
एकहस्तं द्विहस्तं वा त्रिहस्तं परितोऽधिकम् ।
विमानं मण्डपव्यासात् खानयेत् तद्वलार्थकम् ॥२६॥
द्व्येकं नो नैकनेत्रे नयनगुणयुगं चाब्धिरुद्राक्षमक्षी
नैत्रैकं नो न चन्द्रं नयननयनकं वह्निवेदाब्धिबाणम् ।
षट्षट्सप्ताष्टकाष्टैर्मुनिरसरसकं भूतवेदाब्ध्यजाक्षं
नेत्रं मात्रञ्च मेषादिषु दशदशकेऽस्मिन्दिने त्यज्य युञ्ज्यात् ॥२७॥
समीक्ष्य भागोर्गमनं सराशिकं
त्यजेत् पुरोक्ताङ्गुलिमन्त्रयुक्तितः ।
ततस्तु काष्ठदुपगृह्य तद्वशाद्
विसृज्य सुत्रं विदधीत च स्थलम् ॥२८॥
इति मयमते वस्तुशास्त्रे दिक्परिच्छेदो
नाम षष्ठोऽध्यायः