प्रस्तरकरणम्
उत्तरादिवृतेरन्तं प्रस्तारावयवं क्रमात् ।
संवक्ष्ये क्षिप्य सर्वेषां हर्म्याणामथ योग्यक्रम् ॥१॥
उत्तरवाजनौ
उत्तरं त्रिविधं पादविस्तारं तत्समोद्गमम् ।
त्रिपादोदयमध्योच्चं विस्तारं पादतः समम् ॥२॥
खण्डोत्तरं पत्रबन्धं रूपोत्तरमिति त्रिधा ।
त्रिपादं वा त्रिभागोनमर्धं वा कर्णनिर्गमम् ॥३॥
स्वस्तिकं वर्धमानं च नन्द्यावर्तसमाकृतिः ।
सर्वतोभद्रवृत्तिर्वा प्रत्युत्तरनिवेशनम् ॥४॥
त्रिभागैकं चतुर्भागं वाजनं निर्गमोद्गमम् ।
चतुरस्त्रं सपर्णाग्रं तदूर्ध्वे मुष्टिबन्धनम् ॥५॥
तुलाच्छेदेन वा कुर्यात् पृथग्वा वाजनोपरि ।
स्तम्बार्धविपुलं स्वार्धं तीव्रं पट्टाम्बुजक्रियम् ॥६॥
सनालिकमधस्तात्तु वाजनाद् दण्डनिर्गमम् ।
प्रमालिका
मूलाग्रयोः शिखोपेता तदूर्ध्वे तु प्रमालिका ॥७॥
स्तम्भव्याससमोच्चा वा त्रिचतुर्भागतीव्रका ।
कुम्भमण्डियुताग्रा च हस्तिमुण्डकसन्निभा ॥८॥
दण्डिका
दण्डिकासमनिष्क्रान्ता तदूर्ध्वे दण्डिका भवेत् ।
स्तम्भार्धविपुला स्वार्धतीव्रा नीव्रार्धनिष्क्रमा ॥९॥
मुष्टिबन्धसमाकारचतुरस्त्रा यथा तथा ।
वलयं गोपानञ्च
यथेष्टविपुलोत्तुङ्गं तत्तुङ्गसमवेशनम् ॥१०॥
वलयं स्यात्तदूर्ध्वे तु गोपानं वा तदूर्ध्वतः ।
मुष्टिबन्धविशालोच्चा पट्टिकाक्षेपणाम्बुजा ॥११॥
छित्त्वार्पितावशिष्टा तु दण्डिकोपरि पट्टिका ।
तस्यां छित्त्वा तु तन्मानं गोपानं चार्पयेद्बुधः ॥१२॥
उत्तरान्तावलम्बं वा यथामुक्ति यथारुचि ।
वाजनोर्ध्वे तुलोर्ध्वे वा गोपानं योजयेद्बुधः ॥१३॥
तुलान्तरसमं गोपानान्तरं प्रविधीयते ।
गोपानदण्डिकोर्ध्वं चेद्वाजनान्तावलम्बनम् ॥१४॥
दण्डार्धविपुलं स्वार्धं तीव्रं गोपानमूर्ध्वतः ।
कम्पं समान्तरं कुर्याद् वलयच्छिद्रमन्तरे ॥१५॥
कायपादम्
दण्डिकावाजनान्तःस्थं कायपादं यथांशकम् ।
पादविस्तारमर्धार्धनिष्क्रान्तं साग्रपट्टिकम् ॥१६॥
पादानामन्तरं छाद्यं फलकैः सारदारुजैः ।
अष्टांशबहलं छन्नफलकाच्छाद्यमूर्ध्वतः ॥१७॥
गोपानस्योपरिष्टात्तु च्चादयेल्लोहलोष्टकैः ।
कपोतपालिकोत्सेधनिष्क्रान्तं द्वित्रिदण्डकम् ॥१८॥
एकहस्तं द्विहस्तं वा क्षुद्र महति मन्दिरे ।
यथाशोभं यथाचित्रं कपोते कर्णपालिका ॥१९॥
तथा मध्यस्थिता वाऽपि सौधे सैले समाहिता ।
वाजनम्
विधेया वाजनस्योर्ध्वे भूतहंसादिकावलिः ॥२०॥
दण्डोच्चा वा त्रिपादोच्चा वाजनं पूर्ववद्भवेत् ।
कपोतालम्बनं तत्स्याद्दण्डार्धं वाऽथ दण्डकम् ॥२१॥
अध्यर्धादित्रिदण्डान्तं कपोतोच्चविनिर्गतम् ।
वसन्तकं वा निद्रा वा विधेया वाजनोपरि ॥२२॥
त्रिपादोच्चा तदूर्ध्वं स्यात्कपोतोच्चं तु पूर्ववत् ।
कपोतम्
एवं स्याद् दृढकल्प्यं तच्छिलयेष्टकमात्रकैः ॥२३॥
यथाप्रयोगं स्थैर्यं तु तथा योज्यं विचक्षणैः ।
कपोतोच्चत्रिभागं वा पादं वा क्षुद्रनिष्कृतिः ॥२४॥
कपोते नासिका क्षुद्रे नीव्रोर्ध्वे स्थितकर्णिका ।
सपाददण्डा वाध्यर्धं द्विदण्डं विस्तृता स्थिता ॥२५॥
सिंहश्रोत्रशिखालिङ्गं पट्टिकान्तस्य पट्टिका ।
विधेया स्वस्तिकाकृत्य नासिकोर्ध्वे तु नासिका ॥२६॥
कुक्षिमानं शिखामानं यथाशोभनमेव वा ।
प्रतिवाजनकस्योर्ध्वे नेष्यते नासिकोच्छ्रयम् ॥२७॥
प्रस्तरोर्ध्वभागम्
आलिङ्गं पादपादोच्चं पादात् पादविनिर्गतम् ।
तस्मादन्तरितं चोर्ध्वे निष्क्रान्तावेशनक्रियम् ॥२८॥
त्रिपट्टाग्रं हि पादोच्चं पादे पादान्तरे स्थितम् ।
दण्डं त्रिपादमर्धं वा प्रत्युत्सेधं तदूर्ध्वतः ॥२९॥
स्वोच्चत्रिपादनिष्क्रान्ता प्रतिरर्धेन वा तथा ।
दण्डः सपादः सार्धो वा प्रतिवक्त्रं विनिर्गमः ॥३०॥
तावदूर्ध्वोद्गतिस्तस्याः प्रागुक्तविधिना कुरु ।
सव्याला वा ससिंहेभा ऋज्वी वा स्यात्प्रतेः कृतिः ॥३१॥
तदुच्चत्रिचतुर्भागं वाजनं निर्गमोद्गमम् ।
समकरं चित्रखण्डं नागवक्त्रमिति त्रिधा ॥३२॥
नागवक्त्रं नागफणं स्वस्ताकृतिशिरःक्रियम् ।
तैतिलानां द्विजातीनां भवेत् समकरा प्रतिः ॥३३॥
चतुरस्त्रं तु खण्डाग्रं मकरं चित्रखण्डकम् ।
नृपाणां वणिजां शूद्रजन्मनामर्धचन्द्रकम् ॥३४॥
हस्तिरूपं भवेन्मुण्डं प्रत्यग्रं चित्रसन्निभम् ।
ककरं कर्कटं बन्धमन्यदप्येवमूह्यताम् ॥३५॥
तुलादिबन्धम्
वाजनोर्ध्वे वलीकोर्ध्वे तुलां सम्यङ् निवेशयेत् ।
दण्डोच्चं वा त्रिपादोच्चमर्धतारसमन्वितम् ॥३६॥
त्रिचतुष्पज्चदण्डेन दीर्घं तत्साग्रनालिकम् ।
सव्यालाग्रं सम्भृताग्रं पार्श्वाङ्गस्थतरङ्गवत्॥३७॥
वलीकं स्याद्वलीकोर्ध्वे कर्तव्या वर्णपट्टिका ।
दण्डार्धार्धविशालोच्चा निश्छिद्रं स्यात्तदन्तरे ॥३८॥
फलकैश्च तदूर्ध्वे तु दण्डोत्सेधा तुला स्थिरा ।
त्रिपादविस्तृता न्यस्ता प्रवेशानुगता शुभा ॥३९॥
तुलाविस्तारतारोच्चा जयन्ती स्यात्तुलोपरि ।
अर्धदण्डेन तत्रोच्चा जयन्त्यूर्ध्वेऽनुमार्गकम् ॥४०॥
तदूर्ध्वे फलका पादपादषड्भागतीव्रकाः ।
इष्टकाचूर्णसङ्घातप्रस्तरस्तम्भविस्तरम् ॥४१॥
करालमुद्गिगुल्मासकल्कचिक्कणकर्मवान् ।
उत्तरं वाजनं चैव तत्पार्श्वानुगतं भवेत् ॥४२॥
तुला द्वारानुयाता हि जयन्ती तिर्यगागता ।
अनुमार्गं तदूर्ध्वे तु द्वारस्यानुगतं शुभम् ॥४३॥
द्वारतिर्यग्गता वाऽथ तुला देवनृपेशयोः ।
त्रिदण्डं वा द्विदण्डं वा स्याद्वलीकतुलान्तरम् ॥४४॥
द्विदण्डं सार्धमध्यर्धं जयन्त्यन्तरमिष्यते ।
दण्डान्तरमनु मार्गं निश्छिद्रं स्यात्तदूर्ध्वतः ॥४५॥
अथ चित्रविचित्राङ्गा विधेया प्रस्तरक्रिया ।
क्षुद्राणां तु तुलादीनि यथा स्थैर्यं तथाचरेत् ॥४६॥
विरूपं वा सरूपं वा सर्वमङ्गं प्रयोजयेत् ।
तुलाद्रव्योपरिष्टात्तु फलकाच्छादनं तु वा ॥४७॥
इष्टका वा पिधातव्या शेषं पूर्ववदाचरेत् ।
प्रस्तरमानम्
पङ्क्त्यष्टभागविकलं हि मसूरकोञ्चा-
न्मञ्चोन्नतं मतमथो तलिपार्धकं वा ।
यावद् बलं विपुलसुन्दरतां समेति
तावद् विधेयमधुना विधिना विधिज्ञैः ॥४८॥
लेपः
मधुघृतदधिदुग्धं माषयूषं च चर्म
कदलिफलगुलञ्च त्रैफल नालिकेरम् ।
क्रमवशमनुभागैर्वर्धितं लब्धचूर्णं
शतमथ कृतमस्य द्वैगुणं शर्करास्तु ॥४९॥
युग्मायुग्ममानम्
हतस्तम्भतुलादिकान् नरगृहे युञ्ज्यादयुग्मं यथा
युग्मायुग्मकसंख्यया सुरगृहे युञ्जीत हस्तादिकान् ।
द्वारम्
मध्ये द्वारमनिन्दितं सुरमहिदेवक्षितीशालये
शेषाणामुपमध्यमेव विहित तत्सम्पदामास्पदम् ॥५०॥
वेदिः
प्रतेरुपरि वेदिः स्यात् सार्धद्वित्र्यङ्घ्रिणोदयम् ॥५१॥
द्वौ षट् चत्वारि कम्पानि पादपादघनानि च ।
पद्मशैवलपत्रादिचित्राङ्गा वेदिका मताः ॥५२॥
कम्पाधस्तात् प्रयोज्या हि स्तम्भास्तत्रैव युक्तितः ।
ऊर्ध्वाधः कम्पवत् पद्मपट्टिकं चाग्रबन्धनम् ॥५३॥
जालकानि
वेदिकोपरि योज्यानि जालकानि विचक्षणैः ।
त्यक्त्वा भित्त्यङ्घ्रिमध्यं तु चतुर्दण्डान्तविस्तृतम् ॥५४॥
द्विदण्डादिनिजव्यासाद्विगुणं तुङ्गमीरितम् ।
सार्धमङ्घ्र्न्यूनकं वोच्चं त्यक्त्वा मध्याङ्घ्रिरन्ध्रकम् ॥५५॥
युग्मायुग्माङ्घ्रिभिः कम्पैर्युक्तं तुङ्गे च वैपुले ।
गवाक्षं कुञ्जराक्षं च नन्द्यावर्तमृजुक्रियम् ॥५६॥
पुष्पखण्डं सकर्णं च योजितव्यं यथोचितम् ।
दीर्घास्त्रं कर्णकच्छिद्रं तद् गवाक्षमिति स्मृतम् ॥५७॥
युगास्त्रं कर्णकच्छिद्रं कुञ्जराक्षमिति स्मृतम् ।
पञ्चसूत्रमयच्छिद्रं प्रदक्षिणवशात् कृतम् ॥५८॥
नन्द्यावर्ताकृतिवशान्नन्द्यावर्तमिति स्मृतम् ।
स्तम्भतिर्यग्गतं कम्पमृजुत्वात्तदृजुक्रियम् ॥५९॥
पुष्पखण्डं सकर्णं च नन्द्यावर्तं तथोच्यते ।
भित्तिमध्याद्बिहिस्तस्य स्तम्भयोगं कवाटयुक् ॥६०॥
कवाटयुगलं वैकं घाटनोद्धाटनक्षमम् ।
पादवर्गे भवेद् ग्रीवावर्गे वातायनस्थितिः ॥६१॥
गुलिकाजालकं धामविन्यासाकृतिरन्ध्रकम् ।
स्वस्तिकं वर्धमानं च सर्वतोभद्रसन्निधम् ॥६२॥
भित्तिः
द्रुमोपलेष्टकाद्रव्यैर्युक्त्या युञ्जीत बुद्धिमान् ।
जालकं फालकं कुड्यमैष्टकञ्च त्रिधा मतम् ॥६३॥
जालकं जालकैर्युक्तमिष्टकामयमैष्टकम् ।
फालकं फलकोपेतं भित्तिमध्येऽङ्घ्रिसंयुतम् ॥६४॥
भित्तिबन्धनमूर्ध्वाधःपद्मसङ्घपट्टपट्टिकम् ।
पादपादषडष्टांशबहला फलका भवेत् ॥६५॥
शिबिकाकुड्यवद् वाऽथ सर्वत्र फलकामयम् ।
एतत्तु फलकाकुड्यं यत्तु यत्र यथोचितम् ।
तदेव तत्र योज्यं स्याद् वस्तुविद्याविचक्षणैः ॥६६॥
एवं प्रोक्तं प्रस्तरं वेदिकाङ्ग युक्त्या तज्ज्ञैर्जालकं च त्रिकुड्यम् ।
नैव च्छेद्या वेदिका जालकार्थं न प्रत्यङ्गं सर्वतश्छेदनीयम् ॥६७॥
इति मयमते वस्तुशास्त्रे प्रस्तरकरणं
नाम षोडशोऽध्यायः