अधिष्ठानविधानम्
तैतिलानां द्विजातीनां वर्णानां गृहकर्मणि ।
तद्योग्यं द्विविधं वस्तु जाङ्गलानूपभेदतः ॥१॥
घनशर्करया युक्तमत्यन्तं खनने खरम् ।
सितांशतनुतोयाढ्यं जाङ्गलं भूतलं भवेत् ॥२॥
खननं क्रियमाणस्य वस्तुनश्च बलं यथा ।
रूढोत्पलकृशेर्वारुसंयुक्तं तनुवालुकम् ॥३॥
अनूपमिति विख्यातं खात्वैव जलदर्शनम् ।
इष्टकोपलमृद्भिश्च वालुकैरपि चिक्कणेः ॥४॥
शर्कराभिः क्रमाच्छ्वभ्रं निश्छिद्रं पूरयेत् स्थिरम् ।
घनीकृत्येभपादैश्च काष्ठखण्डेर्बृहत्तरैः ॥५॥
तत्खाते सलिलेनैव पूरितेऽक्षयता शुभा ।
समत्वंसलिलेनैव साधयित्वा विचक्षणः ॥६॥
गर्भं प्रक्षिप्य तं नीत्या होमं तत्र निधापयेत् ।
स्तम्भद्वित्रिगुणयासं तदर्धं बहलान्वितम् ॥७॥
उपानोपरि पद्मं चोपोपानं च तदूर्ध्वतः ।
यथाशोभंशमानेन कुर्यात्तत्र विचक्षणः ॥८॥
उन्नतां प्रकृतिं भूमिं कृत्वा हस्तप्रमाणतः ।
घनीकृत्य तदूर्ध्वस्थमुपानं जन्म चोच्यते ॥९॥
तदूर्ध्वस्थमधिष्ठानं सोपपीठं तु केवलम् ।
सस्तम्भं वा सकुड्यं वा जङ्घावर्गं तदूर्ध्वगम् ॥१०॥
भूमिदेश इति ख्याता कपोतोर्ध्वगता प्रतिः ।
प्रासादादीनि वास्तूनि चाधितिष्ठन्ति यद्धि तत् ॥११॥
अधिष्ठानोन्मानम्
अधिष्ठानं तदुन्मानं जातिभूमिवशाद् द्विधा ।
तैतिलानां चतुर्हस्तं त्रिहस्तार्धं द्विजन्मनाम् ॥१२॥
नृपाणां त्रिकरं सार्धद्विहस्तं यौवराजकम् ।
द्विहस्तं वणिजामेकहस्तं शूद्रस्य कीर्त्यते ॥१३॥
एतज्जातिवशाद् भूमिवशादत्रैव कथ्यते ।
दण्डात् षण्मात्रहान्या तु द्वादशाद्यात्त्रिभूमिकम् ॥१४॥
त्रितलस्योत्तमस्येष्टं पादेनोनं द्विहस्तकम् ।
क्षुद्राणामनया नीत्या विधातव्यं विचक्षणैः ॥१५॥
तत्तत्पादोदयार्धे षडष्टांशोनमानतः ।
अधिष्ठानस्य चोत्सेधं वास्तुवस्तुनि भूवशात् ॥१६॥
यदुपानस्य निष्क्रान्तं तत् त्र्यंशेन विभाजयेत् ।
त्यक्त्वैकांशं बहिस्तत्र जगतीं कारयेद् बुधः ॥१७॥
तद्वत् कुमुदपट्टं च तद्वत् कण्ठस्य वेशनम् ।
आत्तोत्सेधांशमानं तु भागमानेन वक्ष्यते ॥१८॥
अष्टसप्तशशिबन्धभागिकश्चन्द्रबन्धशशिभागिकैः क्रमात् ।
वप्रकं कुमुदकम्पकन्धरं कम्पवाजनमधोर्ध्वकम्पकम् ॥१९॥
पादबन्धमुदितं तदुच्छ्रये भानुभिर्द्विगुणितांशके कृते ।
देवविप्रनृपवैश्यशूद्रकेष्वेवमुक्तमृषिभिः पुरातनैः ॥२०॥
उरगबन्धम्
चन्द्रदृक्शशिशिवांशकै रसैर्धातुभिश्च समभागिकैः क्रमात् ।
वाजनं प्रतिमुखं त्रियस्त्रकं दृक् च व्रुत्तक्मुदं तु वप्रकम् ॥२१॥
त्रिःषडंशसमभागिके तले नागवक्त्रसदृशं प्रतिद्वयम् ।
देवविप्रनृपमन्दिरेषु तद्योग्यकं ह्युरगबन्धकं भवेत् ॥२२॥
प्रतिक्रमम्
अंशाध्यर्धार्धभागैर्मुनिरसशशिभिश्चन्द्रदृक्च्छैवभागैः
क्षुद्रोपानाब्जकम्पं जगतिकुमुदकं धारया युक्तमूर्ध्वे ।
आलिङ्गान्तादिकं तत्प्रतिमुखमथ तद्वाजनं पद्मयुक्तं
त्रिःसप्तांशे तलोच्चे करिहरिमकरव्यालरूपादिभूष्यम् ॥२३॥
प्रतिक्रमं तत् सुरमन्दिरोचितं विचित्रितं पत्रलतादिरूपकैः ।
द्विजन्मभूमीश्वरयोर्मतं गृहे शुभप्रभं पुष्टिकरं जयावहम् ॥२४॥
पद्मकेसरम्
एकद्व्येकेन षड्भिः शशिशिवशशिभिर्वेदचन्द्रैकभागै-
र्द्व्यंशैकेनांशनेत्रैः शिवशशिसमभागेन जन्माब्जकं च ।
वप्रं पद्मं गलाब्जं कुमुदमुपरि पद्मं च कम्पं गलं तत्
कम्पं पद्मं च पट्टीकमलमुपरिकम्पं च षड्विंशदंशे ॥२५॥
पद्मकेसरमेतदुदाह्रतं कम्पवाजनपङ्कजकैर्युतम् ।
कुम्भवप्रयुतञ्च सकन्धरं शम्भुधामनि तत्प्रविधीयते ॥२६॥
पुष्पपुष्कलम्
भागेष्वेकार्धकार्धैस्तदुपरि चतुरंशैस्तथार्धांशकार्धै-
र्द्वयर्धांशार्धद्विभागैस्तदुपरि च तथार्धांशकार्धेन जन्मम् ।
वप्रं कञ्जं गलाब्जं तदुपरि कुमुदं पङ्कजं कम्पकण्ठं
कम्पं पद्मं महावाजनमुपरिदलं कम्पकं पङ्कजाढ्यम् ॥२७॥
पुश्पपुष्कलमेतदुदाह्रतं कल्पितं नवपङ्क्तिभिरुच्छ्रये ।
शिल्पिभिः प्रसररपि पूजितामूर्ध्वमध्यममुखे विमानके ॥२८॥
श्रीबन्धम्
द्वाभ्यामेकेन सप्तांशकशशिशिववेदैकचन्द्राग्निभागै-
रेकेनैकेन वेदैः शिवशशिनयनैकेन मोहामराब्जम् ।
ह्रत्पद्मं कैरवाब्जं गलधरगलकम्पं तद्वाजनं पङ्कजाढ्यम् ॥२९॥
श्रीबन्धं स्यादेतदुच्चे चतुर्वस्वंशे कुर्याच्छान्तधीर्वर्धकिस्तत् ।
देवेशानं मन्दिरेष्वेवमुक्तं श्रीसौभाग्यरोग्यभोग्यं ददाति ॥३०॥
मञ्चबन्धम्
तुङ्गे षड्विंशदंशे खुरमथ जगतिकैरवं कम्पकण्ठं
कम्पं पद्मं कपोतं तदुपरि च तथा निम्नमन्तादिवक्त्रम् ।
कम्पं भागेन षड्भिः शरशशिगुणचन्द्रैकबन्धांशकांशै-
र्द्वाभ्यामेकेन कुर्यादमरनरपतेर्मन्दिरे मञ्चबन्धम् ॥३१॥
श्रीकान्तम्
आलिङ्गयुक्तमथ चान्तरितप्रतीभ्यां
तद्वाजनेन च वियुक्तकमेतदेव ।
श्रीकान्तनामकमसूरकमष्टकोणं
वृत्तं तु वा कुमुदमम्बरमार्गिणां तत् ॥३२॥
श्रेणीबन्धम्
एकद्व्येकर्तुवेदैः शशिनयनशिवद्व्येकदृकचन्द्रसार्धा-
र्धांशैर्जन्माब्जकम्पं जगतिकुमुदकं कम्पकण्ठं च कम्पम् ।
पद्मं पट्टं च कण्ठं तदुपरि च तथा वाजनाब्जं च पट्टं
श्रेणीबन्धं सुराणामुदितमिदमलं तुङ्गषड्विंशदंशे ॥३३॥
पद्मबन्धम्
सार्धार्हेष्वंशकांशैर्गुणशशिशिवचन्द्रद्विकैकेन जन्म-
क्षुद्रं पद्मं धृगब्जं कुमुदमुपरि पद्मं तथालिङ्गमूर्ध्वे ।
आलिङ्गान्तः प्रतिर्वाजनमथ मतिमान् योजयेत् त्रिःषडंशे
तुङ्गे देवेश्वराणामिदमुदितमगारेऽनघं पद्मबन्धम् ॥३४॥
वप्रबन्धम्
द्व्येकैकंशैः शरांशैर्युगशशिशिवदृक् चन्द्रशैवाश्विनीभि-
र्भागेनोपानकञ्जं तदुपरि च तथा कम्पवप्रं च कुम्भम् ।
पद्मं पट्टं च कण्ठं तदुपरि च तथा कम्पपद्मं च पट्टी-
पट्टं तद्वप्रबन्धं तदपि च सहितं सद्विकैर्विंशदंशैः ॥३५॥
कपोतबन्धम्
तदेव वृत्तं कुमुदं तु वाजने कपोतयुक्तं हि कपोतबन्धकम् ।
प्रतिबन्धम्
तदेव वेदैः प्रतिवाजनं प्रतिस्त्रिकास्त्रयुक्तं प्रतिबन्धमुच्यते ॥३६॥
कलशाधिष्ठानम्
एकद्व्येकाग्निभागैः शशियुगल्शिवद्व्येकचन्द्रेशदृग्भि-
श्चन्द्रैकैकाक्षिचन्द्रैः खुरकमलमथो कम्पकण्ठं च कम्पम् ।
पद्मं पट्टाब्जनिम्नं कमलमुपरि कुम्भं दलं निम्नमन्ताद्
या स्याच्चोर्ध्वे पतिर्वजनमथ कलशाख्येन भागास्त्रिरष्टौ ॥३७॥
अधिष्ठानसामान्यलक्षणम्
एतानि भेदैस्तु चतुर्दशैव प्रोक्तानि तज्ज्ञैस्तु मसूरकाणि ।
सर्वाणि नास्यङ्घ्रियुतानि युक्त्यादृढीकृताङ्गानि मयोदितानि ॥३८॥
भागेनार्धत्रिपादाङ्घ्रिभिरथ युगलाध्यर्धचन्द्रार्धपादै-
र्मात्रैर्वृद्धिश्च हानिर्दृढतरमतिना योजितव्या बलार्थम् ।
शोभार्थं भागमङ्गप्रतिवरसमनीचाल्पहर्म्ये तलाना-
मेवं प्रोक्तं यमीन्द्रैरविकलमतिभिस्तन्त्रविद्भिः पुराणै ॥३९॥
अधिष्ठानपर्यायनामानि
मसूरकमधिष्ठानं वस्त्वाधारं धरातलम् ।
तलं कुट्टिममाद्यङ्गं पर्ययवचनानि हि ॥४०॥
निर्गममानम्
यावज्जगतिनिष्क्रान्तं तावत् कुमुदनिर्गमम् ।
अम्बुजानां तु सर्वेषामुत्सेधसमनिर्गमम् ॥४१॥
दलाग्रतीव्रमुत्सेधात् पादं पादार्धमेव वा ।
वेत्राणामपि सर्वेषां चतुर्भागैकनिर्गमम् ॥४२॥
तत्समं वा त्रिपादं वा महावाजननिर्गमम् ।
एवं तीव्रक्रमं प्रोक्तं शोभाबलवशात्तु वा ॥४३॥
प्रवेशनिर्गमं कुर्यात् सर्वाङ्गानां मसूरके ।
अधिष्ठानप्रतिच्छेदविधिः
प्रतिच्छेदं न कर्तव्यं सर्वत्रैवं विचक्षणैः ॥४४॥
द्वारार्थं यत् प्रतिच्छेदं सम्पद्द्वारं च नेत्यलम् ।
पादबन्धमधिष्ठानं छेदनीयं यथोचितम् ॥४५॥
जन्मादिपञ्चवर्गे तु तत्तत्तुङ्गावसानके ।
सपटिकाङ्गेऽधिष्ठानेऽप्यन्यस्मिन्नेवमूह्यताम् ।
यद् यत्रैवोचितं प्राज्ञास्तत् तत्रैव प्रयोजयेत् ॥४६॥
स्तम्भोच्चार्धं वा मसूरोच्चमानं तत् षट्सप्ताष्टांशकं भागहीनम् ।
वस्त्वाधारोच्चं भवेत् सर्ववस्तुष्वेवं पूर्वं शम्भुना सम्यगुक्तम् ॥४७॥
इति मयमते वस्तुशास्त्रे अधिष्ठानविधानो
नाम चतुर्दशोऽध्यायः