(राजवेश्मविधानम् )
अथ वक्ष्ये राजगृहं संक्षेपाद् बाह्यनगरशिबिरयुतम् ।
राजवेश्ममानानि
त्रिचतुर्भागे नगरे प्राच्यां वाप्युक्तशालायाम् ॥१॥
नरपतिगृहमधिराज्ञो दक्षिणतः पश्चिमांशे तु ।
पार्ष्णीयादिकभवनं स्यात् सप्तनवांशे प्रतीच्यां तु ॥२॥
अङ्ग्कुरादीनां भवनं सेनेशानां हि तत्रैव ।
विश्वनृपैश्वरभवनं मध्ये वासं त्रिभागभागेषु ॥३॥
नगरांशवशान्मानं ह्येतद्दण्डेन संवक्ष्ये ।
सचतुश्चत्वारिंशच्छतदण्डं वेश्मविस्तारम् ॥४॥
युगवसुभानुविकारैर्दण्डैः क्षपयेत्ततः क्रमशः ।
द्वात्रिंशद्दण्डान्तं वेश्मव्यासं तथोक्तानाम् ॥५॥
तत्तद्वेश्मविशालादूर्ध्वे संवर्द्धयेत्तु तथा ।
सप्तचतुर्दण्डयुतपञ्चशतज्येष्ठविस्तारम् ॥६॥
द्वात्रिंशद्दण्डादाद्वात्रिंशन्मानमेवमुद्दिष्टम् ।
ज्येष्ठाज्येष्ठविशालमन्येषामन्यदिष्टं स्यात् ॥७॥
दैर्घ्यं व्यासाद्विगुणं द्विगुणं पादोनमर्धकं पादम् ।
द्वादशसालाकारं चतुरं वृत्तं तदायतं शकटम् ॥८॥
नन्द्यावर्तं कौक्कुटमिभकुम्भं स्वस्तिकं चैव ।
गोलावच्च मृदङ्गं मग्नमिति ह्येकमानयुतम् ॥९॥
इष्टयासायामं प्रागेवालं विचिन्त्य कर्तव्यम् ।
तस्माद्धीनं यत्तन्निष्पन्नं वास्तु येन केनापि ॥१०॥
अशुभमवनीपतेस्तत् सततं विपदां पदं भवति ।
पौराणां यद्वस्तु वर्धितुमिच्छेद् बहिस्ततस्तस्मात् ॥११॥
प्रागुत्तरदिशि वृद्धिः शस्ता परितस्तु वा न्याय्या ।
अधमवेश्मविन्यासः
प्रागङ्गमथ मुख्यं दक्षिणतो वाप्यथाङ्गणं श्रेष्ठम् ॥१२॥
वेश्माभ्यन्तरमध्ये दण्डार्धव्यासतुङ्गपीठं स्यात् ।
दण्डेन बहिस्तस्मात् पीठेनैवात्र चैव सह वेदी ॥१३॥
तद्वेद्या दक्षिणतः पञ्चकषड्ढस्तदण्डकं नीत्वा ।
क्षोणीभृतां प्रतिभवनं वेद्या अपरे तु सूत्रमध्यगतम् ॥१४॥
तद्वेद्या उत्तरतस्तावन्मानं विहाय तद्वेद्याः ।
प्राक्सूत्रमध्यगतं देव्या धाम्नस्तु तत्र तत्रैव ॥१५॥
त्रिःषोडशदण्डं वा द्वात्रिंशद्दण्डमानकं वाऽपि ।
सचतुर्विंशतिदण्डं षोडशदण्डं तु वाथवा नीत्वा ॥१६॥
नृपतेर्दैर्घ्यायामं बहिः प्राकारं त्रिहस्तविस्तारम् ।
एकादशकरतुङ्गं तद्बाह्ये सप्तहस्तमानेन ॥१७॥
परितः पन्थास्तिस्त्रस्तस्मान्नवदण्डमावल्याम् ।
वेश्मावल्या वृत्तं कुड्यततिस्त्वेकदण्डमानेन ॥१८॥
सार्धदशारत्न्युच्चं तस्मात् पन्था बहिस्तु नवहस्तैः ।
तस्माद् द्विष्षोडशभिर्दण्डैर्मर्यादिरेव भित्तिः स्यात् ॥१९॥
व्यासं सपाददण्डं पञ्चदशारत्निभिस्तु तत्तुङ्गः ।
भित्तिरभ्यन्तरतः परितो मार्गस्त्रिदण्डेन ॥२०॥
द्वादशभवने बाह्यान्यथ रक्षावेशनानि योज्यानि ।
भित्त्यभ्यन्तरतो वा बाह्याद् वा मानयेदृढतरधीः ॥२१॥
एतद्गोपुराणि
त्रिप्राकारं त्रिपथ त्रिभागयुग्घीननृपभवनम् ।
सचतुर्गोपुरकान्तं मुखगोपुरमुन्नतं हि तत्रैव ॥२२॥
निम्नं पश्चिमवेशं मुख्यं स्यात् प्राङ्मुखं भवनम् ।
दक्षिणमुखमपि वाऽथ नोदप्रत्यग्दिशि सुभद्रमुखम् ॥२३॥
पञ्चमुखं त्वथ राज्ञां नेष्टं स्याद् वेशनं च यत्तत्स्यात् ।
गृहविन्यासः
राज्ञां श्रीदेवीनामालयकान्तरालयं केचित् ॥२४॥
अथ मध्ये वाङ्गणकं शतपादयुता प्रपा वा स्यात् ।
दक्षिणतो राजगृहमभिषेकं स्यात् प्रतीचीतः ॥२५॥
उत्तरदिशि भवनं स्याद् राजमहिष्यास्त्वनेकमेकतलम् ।
पश्चिमदिग्गतभवनं प्राङ्मुखमेवावनीपतेर्मुख्यम् ॥२६॥
परितः परिखा बाह्ये प्राकाराद्ध्येव द्वित्रिदण्डानि ।
नवदण्डविशालान्तं परिखाविपुलं समुद्दिष्टम् ॥२७॥
परिखाया बहिरबहिर्मार्गविशालास्त्रिदण्डेन ।
परिखामूलविशालं स्वव्यासादष्टकेन भागेन ॥२८॥
गाम्भीर्याद् युक्तिवशादाकृत्या चैव पालिकाभासा ।
पुनर्गृहविन्यासः
भवनस्य बहिर्देव्या यानि गृहाण्यत्र तत्र युक्त्या तु ।
तानि च दैविकभागे सम्यग् वक्ष्येऽहमत्रापि ॥२९॥
अन्तर्मण्डलबाह्यं तु दैवतांशवशाद् गृहम् ।
प्रथमावरणम्
अर्यांशे द्वारहर्म्यं स्याच्चेन्द्रे सूर्येऽङ्गणं भृशम् ॥३०॥
भृशे योम्नि च वृत्तं स्यात् पूष्णे हेमं सदक्षिणम् ।
सालानां वितथे राक्षादभूदङ्गणकं विदुः ॥३१॥
सेनावेशनहर्म्यं तु यमभागेऽतितुङ्गवत् ।
गन्धर्वे नीडभ नृत्तयोग्या रङ्गविभूषिता ॥३२॥
विमानमन्दिरं वाऽपि शाला वा हर्म्यमेव वा ।
भृङ्गराजेऽश्वशाला स्याद् मृषे चार्तवसूतिका ॥३३॥
पितरि स्थानहर्म्यं स्याद् दौवारिकसुकण्ठयोः ।
जललीला विधातव्या पुष्पदन्ते खलूरिका ॥३४॥
लवणं तत्र विज्ञेयं मरीचाद्यं यथोचितम् ।
वरुणासुरशोषेषु मित्रे स्यात्सङ्करालयम् ॥३५॥
राजदेवीगृहं गर्भागारं दक्षिणवामयोः ।
गेहं नृत्तरसाङ्गानां मित्रे सोपस्करं गृहम् ॥३६॥
अन्तर्विवृत्तवेशार्थं रोगांशे च समीरणे ।
वर्धमानादिकं चापि शालानां पादशालकम् ॥३७॥
नागे सैरन्ध्रिधात्रीणां मुख्ये कन्यागृहं भवेत् ।
भैषज्यं चापि भल्लाटे मृगे सांवाहिकागृहम् ॥३८॥
रुचकादिचतुःशालाविमानं वात्र योजितम् ।
अभितो मज्जनागारमुदित्यामापवत्सयोः ॥३९॥
पानीयोष्णोदकं धाम यच्च प्रासादवद्बुधैः ।
स्वेष्टदैवतमीशाने जयन्ते च विधीयते ॥४०॥
महेन्द्रे भोजनस्थानं महीधरमरीचयोः ।
सम्बाधं वाऽत्र कुर्वीत सभापार्वतकूर्मवत् ॥४१॥
द्वारश्च भित्तयः सर्वाः स्वामिवाञ्छवशान्मताः ।
प्रथमावरणे प्रोक्ता द्वितीयावरणे क्रमात् ॥४२॥
द्वितीयावरणम्
इन्द्रे चादित्यके छत्रभेर्यादीनां निवासकम् ।
शङ्खकाहलतूर्याणामन्येषां तत्र सम्मतम् ॥४३॥
सत्ये दानार्चिता शाला भृशे धर्मोदकालयम् ।
पङ्क्तिके ज्वलनांशे तूलूखलं चेन्धनादिकम् ॥४४॥
पूषभागे तु साविन्द्रे वितथे वाजिशालकम् ।
पूर्वस्थाः पश्चिमद्वारा दक्षिणस्था उदङ्मुखाः ॥४५॥
पश्चिमस्थाः पूर्वमुखा उदक्स्था दक्षिणाननाः ।
सर्वे गृहस्य मार्गेणान्तरिताः सद्मसम्मुखाः ॥४६॥
राक्षसे शस्त्रशाला स्याद् द्वारशालाथ वामके ।
धर्मराजेऽन्नापनादिकर्मणामालयं भवेत् ॥४७॥
मध्यरङ्गसमायुक्तं चतुःशालां समालिखेत् ।
सेनापतेः प्रशस्ते स्याद् गन्धर्वांशे जयावहम् ॥४८॥
भृङ्गराजांशमान्या वाजिता वाशालका मता ।
व्यालकामीन्द्रकाजालिप्रभृतीनां मृषे भवेत् ॥४९॥
निऋतौ माहिषं गेहं दौवारिकसुकण्ठयोः ।
दानशालेक्षणशालास्नानं पुष्पादिके गृहे ॥५०॥
नागे रुद्रांशके चैव सायता दीर्घिका भवेत् ।
कन्यकानां च धात्रीणां मुख्यभागे विमानकम् ॥५१॥
कञ्चुकीनां च मद्गूनामन्यत् सामान्यतो बुधैः ।
भल्लाटे सोममार्गांशे कृण्वादीनां निवासकम् ॥५२॥
कुब्जिनीवामनीकन्याषण्डकीनां तथादितौ ।
धात्रीणामुदितौ गेहमीशे पर्जन्यके पदे ॥५३॥
आपे चैवापवत्से च वापी कूपं च दीर्घिका ।
पानीयसदनं पुष्पोद्यानं तत्रैव कीर्तितम् ॥५४॥
जयन्ते दक्षिणशाला दानशाला सुरेन्द्रके ।
धाम्नस्त्वभिमुखा सर्वा शाला प्राग्दक्षिणान्विता ॥५५॥
तृतीयावरणम्
इन्द्रे शास्त्रं रवौ गानं सत्ये चाध्ययनं भृशे ।
महामहानसं व्योम्नि गौर्वत्सा पूष्णि पावके ॥५६॥
वितथे लवणं चैव वल्लूरस्नायुचर्मणाम् ।
राक्षसे नागवासं च चित्रशिल्पादिसौधकम् ॥५७॥
धर्मांशे दण्डकावासं शूर्पं वा लाङ्गलं तु वा ।
गन्धर्वे भृङ्गराजे च रसादीनां निवासकम् ॥५८॥
मृषे दाहस्तु पित्रंशे दानं दौवारिके मतम् ।
सुग्रीवे मल्लधामं स्यात् पुष्पके युगकोष्ठकम् ॥५९॥
वारुने युवराजस्य शाला वा मालिका भवेत् ।
हयेभसदनं चैव पुरोहितगृहं तथा ॥६०॥
असुरे चन्द्रशाला स्याच्छोषे शरभकालयम् ।
खरोष्ट्रायतनं रोगे भैषज्यं च प्रकल्पयेत् ॥६१॥
वायौ वापी भवेद्गोत्रनागे पुष्करणी च वा ।
मुख्यभल्लाटयोर्हस्तिवाजिशाला विधीयते ॥६२॥
सोमे प्रसूतिका चोपनीतिका च प्रवक्ष्यते ।
मृगादित्युदित्शाने जयन्ते दीर्घिकादिका ॥६३॥
विहारारामभूमिः स्यात्तत्र साङ्गणका सभा ।
तृतीयावरणे प्रोक्ताः सर्वेषामन्तराननाः ॥६४॥
नगरम्
वेश्मनां पुरतः पार्श्वे शेषराजबलावलिः ।
तद्बाह्ये वणिजादीनां वासपङ्क्तिस्तु युक्तितः ॥६५॥
अपरे दीर्घिकायामं वापीकूपादिकं क्रमात् ।
तत्रैवान्तःपुरं मूलभृत्यानां वासपङ्क्तिकम् ॥६६॥
सर्वत्र दीर्घिकारामवापीकूपसमन्वितम् ।
नानाजातीसमाकीर्णं नानास्त्रीजनसंयुतम् ॥६७॥
नानाशिल्पसमोपेतं षड्बलैः परिपूरितम् ।
प्रागुदक्प्रागवाक्कोणे शाला हस्त्यश्ववासिका ॥६८॥
नानावर्णसमोपेता नानापणिकयान्विता ।
सर्वे वर्णा यथाराजा स्वस्वनाम्नाभिधानकाः ॥६९॥
नगरभित्तिः
नगरावृतसालः स्याद्विशालः स्याद् द्विदण्डकः ।
कथ्यते पञ्चषट्सप्तहस्तैर्वा विस्तरं क्रमात् ॥७०॥
व्यासद्वित्रिगुणोत्सेधं बहिः पांसुचयान्वितम् ।
अभीप्सितधनुर्वात्र परिखावप्रयोर्मतम् ॥७१॥
तद्बहिः शिल्पिकोपेतं सर्वत्रैव समन्वितम् ।
राजवेश्मगोपुराणि
सर्वेषां सम्प्रशस्तं स्यान्महत्यल्पे च गोपुरम् ॥७२॥
स्वाम्यावाससमं बाह्यगोपुरं प्रविधीयते ।
अल्पत्वे स्वामिवासस्य तलादेकोनमिष्यते ॥७३॥
नन्दरुद्रतले मूले सप्तभुद्वारगोपुरम् ।
एकैकतलसंख्याभिर्हीनमभ्यन्तरे क्रमात् ॥७४॥
विशेषेण नरेन्द्राणां महेन्द्रद्वारमुत्तमम् ।
राक्षसांशेऽथवा मुख्यं द्वारं पञ्चत्रिभूमिकम् ॥७५॥
पुष्पदन्ते च भल्लाटे द्वारं नीचतलान्वितम् ।
सुग्रीवांशेऽथवा मुख्ये जयन्ते वितथेऽपि च ॥७६॥
पक्षद्वारं प्रकर्तव्यमेकद्वितलसंयुतम् ।
अन्तःसालं बहिःसालं सच्छिद्रं च सचक्रकम् ॥७७॥
विशेषेण नरेन्द्राणामिन्द्रभागे तु मन्दिरम् ।
ब्रह्मांशमाश्रित वेश्म सर्वसम्पत्सुखावहम् ॥७८॥
वेश्मतललम्बविधानम्
सकल्क्षितिपेन्द्राणामेकादशतलं भवेत् ।
नवभूमिर्द्विजातीनां नृपाणां सप्तभूमकम् ॥७९॥
षट्तल मण्डलीशानां पञ्चभूर्युवराजके ।
वैश्यानां तु चतुर्भौमं योधसेनेशयोरपि ॥८०॥
एकादित्रितलान्तं च शूद्राणां प्रविधीयते ।
सामन्तप्रमुखादीनां कारयेत् पञ्चभूमकम् ॥८१॥
युग्मं वायुग्मभूमं वा सर्वभूपेन्द्रमन्दिरम् ।
राज्ञां स्त्रीणां च देवीनां युग्मं वाऽयुग्ममेव वा ॥८२॥
सदण्डिकं लुपारोहि द्विनेत्रं प्रस्तरान्वितम् ।
मृण्मय्म तु तृणाच्छाद्यमेकद्वितलसंयुतम् ॥८३॥
स्तूपिकर्णलुपाहीनं प्रशस्तं सर्वजातिषु ।
मिश्रितान्तरवर्णानां सम्पदैश्वर्यभोगोनाम् ॥८४॥
रुचकादिनिवासांश्च युक्त्या तत्र प्रयोजयेत् ।
अनुक्तं सर्वमत्रैव युक्त्या तद्योजयेत् सुधीः ॥८५॥
सामान्येनोदिता राज्ञां राजधानी तु पण्डितैः ।
नरेन्द्रवेश्म
विशेषेण नरेन्द्राणां वक्ष्ये वेश्म सनातनम् ॥८६॥
प्राकारः
प्राकारो विपुलो दण्डः परिखा द्वित्रिदण्डकैः ।
वृत्तमार्गश्चतुर्दण्डैर्विंशद्दण्डैर्गृहावलिः ॥८७॥
वेश्यालीलावृतो मार्गस्त्रिचतुर्दण्डमानतः ।
वप्रमार्गस्त्रिदण्डं स्यात् प्राकारं पञ्चहस्तकम् ॥८८॥
तस्यापि परिखा प्रोक्ता चतुर्दण्डैकविस्तृता ।
परिखा परितो मार्गाश्चाष्टयष्टिविशालकाः ॥८९॥
ततोऽष्टचत्वारिंशद्भिर्विश्वावलिरथावृता ।
तद्बहिः परितो मार्गाः षट्सप्तधनुरादिकाः ॥९०॥
चतुर्दण्डं ततो वप्रप्राकारं सप्तहस्तकम् ।
दण्डेनैकेन विधृतं नागपूरितबन्धनम् ॥९१॥
अष्टदण्डादिसूर्यान्तं परिखाविपुलं भवेत् ।
बाह्याभ्यन्तरमार्गं तु प्राकारविपुलं तथा ॥९२॥
तद्बहिर्दशदण्डेन सीमा सर्वजनालया ।
प्राकारं वा सवासं च परिखाश्च समीरिताः ॥९३॥
वप्रप्राकारमित्येवं वास्तुविद्भिः प्रशंसितम् ।
पञ्चावरणके शस्तावरणकं द्विचतुष्टयैः ।
अन्तःपरिवृतं युक्तियुक्तं वीक्ष्य निवेशयेत् ॥९४॥
वेश्मविन्यासः
आत्तविशालायामे पार्श्वांशेंऽशं मुखेऽमुखे नीत्वा ।
शेषे षण्णवभागे त्रिंशतिपञ्चांशब्रह्मवस्तु स्यात् ॥९५॥
तस्मिन् शतपादयुतं मण्डपमन्तस्तु वेदिकापीठम् ।
अन्तरसं युतमेतत् प्रासादो वा प्रपा ततः परितः ॥९६॥
पन्था भागस्तेन समादेशखलूरिका परितः ।
द्वारचतुष्ट्ययुक्ता सौष्ठिककोष्ठान्विता तथा शुभदा ॥९७॥
युक्त्यासनमुदितं तन्मुखदेवांशके तु नवके वा ।
प्रासादादिष्टांशे दक्षिणतो राजकत्वे वा ॥९८॥
उत्तरदिश्यपि दिष्टं ज्येष्ठयुवत्यालयं तु ततः ।
आर्यपदे निहितं तद्द्वारकहर्म्यं प्रतीच्यां वितनम् ॥९९॥
शाला वा ह्यभिषेका सर्वविचित्रान्विता सभा तत्र ।
कर्णचतुष्टयकेऽन्तर्दृढपदयुक्ता सभा खलूरियुता ॥१००॥
प्रागुत्तरदिशि सलिलं स्नानं देवालयं तु होमाग्रम् ।
सेनालोकनहर्म्यं कूटं वा प्रागवाग्दिशि यत्तत् ॥१०१॥
पश्चिमदक्षिणकोणे नृत्तकवाद्यादिलीलया च सभा ।
उत्तरपश्चिमकोणे वासं स्याद् गीतकादिवनितानाम् ॥१०२॥
प्राच्यां दिश्यङ्गणकं दुर्गाया मेरुगोपुरकम् ।
प्रागुत्तरदिशि सलिलं तत्क्रीडाङ्गणं च सभा तत्र ॥१०३॥
ग्रासनपानायतनं कुर्यात् सम्यक्तु लक्षणाभियुतम् ।
तत्प्राग्दक्षिणकोणे मध्याङ्गणकान्व्ता सभा तत्र ॥१०४॥
रत्नाष्टपदवस्त्रप्रभूतीनां वासमिष्टं स्यात् ।
तत्परदक्षिणकोणे मध्याङ्गणकादिसंयुता च सभा ॥१०५॥
तद्बहिरावृतभागे यत्र स्वभवनानि तत्र वनितानाम् ।
अपरे चारामयुतं वासक्रीडान्वितं तु तत्सजलम् ॥१०६॥
प्रत्युदग्दिशि कोणे सर्वस्त्रैणान्वितं सभावासम् ।
अत्रानुक्तं सर्वं पूर्ववदिष्टं बहिस्त्वयं स्वबहिः ।
एतत्पद्मकमुदितं राज्ञामावासकं मुनिभिः ॥१०७॥
सौबलवेश्म
प्रथमावरणम्
गृहीतविपुलायामे स्थानीयांशे तु मध्यमे ।
सकले ब्रह्मणः पीठं वेदिकान्तं तु मण्डपम् ॥१०८॥
दक्षिणे चोत्तरे चैव राजदेवीगृहं भवेत् ।
पश्चिमे नृपतीशस्य मन्दिरं बहुभूमिकम् ॥॥१०९॥॥
प्राच्यां दिश्यङ्गणं मध्ये द्वारशोभादिमण्डितम् ।
द्वारस्य पश्चे प्राच्यामभिषेकालयं भवेत् ॥११०॥
एतत्पीठपदे न्यासं तस्मिन् सालं तु पुर्ववत ।
द्वितीयावरणम्
उपपीठपदे तस्माद् बाह्ये पूर्वादिषु क्रमात् ॥१११॥
जयन्त भानुभागे तु भृशभागेऽङणं भवेत् ।
तन्मध्ये द्वारहर्म्यं स्यात् त्रितलादितलान्वितम् ॥११२॥
अग्नौ महानसं कुर्याद्६ वितथे मूलकोशकम् ।
तस्मिन् पदांशमाश्रित्य द्वारप्रासादयोगिकम् ॥११३॥
यमे भृङ्गनृपे चैव पित्रंशे योषितां गृहम्
सुगले नृत्तशाला स्याद् वारुने नृपमन्दिरम् ॥११४॥
शोषे चान्तःपुरं वायौ वापीक्रीडासमन्वितम् ।
मुख्ये वासं महिष्यास्तु शाला वा मालिका भवेत् ॥११५॥
सोमभागे तुलाभारं हेमगर्भं तु तत्परे ।
दित्यंशे हेमरत्नानि गन्धागारमिहोच्यते ॥११६॥
तत्रैव हस्तिशाला स्यादीशे वापी च कूपकम् ।
वचोर्गेहं तु तत्रैव जलयन्त्रं विधीयते ॥११७॥
तत्र सालं च मार्गं च पूर्ववत् परिकल्पयेत् ।
तृतीयावरणम्
स्थण्डिलं तद्बहिर्भागे पर्जन्यांशे महेन्द्रके ॥११८॥
भानुसत्यान्तरिक्षेष्वेवाङ्गणं कारयेत् सुधीः ।
महेन्द्रांशे भवेद् द्वारं चतुश्पञ्चतलान्वितम् ॥११९॥
तत्रैव शङ्खभेर्यादितौर्यशब्दादिचित्रकम् ।
अनुक्तं पुर्ववत् सर्वं परितः प्रविधीयते ॥१२०॥
परमशायिबाह्ये तत्तत्प्राच्यामङ्गणं भवेत् ।
चतुर्थावरणम्
जयन्ताद्यन्तरिक्षान्तमङ्गणं कारयेद् भृशम् ॥१२१॥
अनुक्तं पूर्ववत् सर्वं श्येनांशादिक्रमेण च ।
पञ्चमावरणम्
स्थानीये तद्वहिर्भागे प्राच्यां दिश्यङ्गणं भवेत् ॥१२२॥
अङ्गणस्य तु विस्तारं दैर्घ्यद्विस्सप्तभागिकम् ।
द्वारगोपुरसंयुक्तं दुर्गाधामसमन्वितम् ॥१२३॥
महामहानसं तस्य प्राग्दक्षिणगतं भवेत् ।
तत्र कर्मान्तवत्सानां लेखनानां तु कर्मिणाम् ॥१२४॥
दक्षिने चाष्टभागे तु चैवाङ्गणमहान्तरम् ।
अश्वलिलार्थकं वाऽथ गजलीलार्थकं तु यत् ॥१२५॥
तत्रैव तुङ्गकूटं स्यान्निऋतौ नृपमन्दिरम् ।
खलूरिं तद्बहिर्भागे तद्बहिर्योषितां गृहम् ॥१२६॥
वरुने नृपवामे स्याद् योषितां सङ्करालयम् ।
जलक्रीडा सभा वाऽथ मालिका वासमन्दिरम् ॥१२७॥
वायुभागे तु वापी स्याद् विहाराश्रमभूमिकम् ।
सोमभागे तुलाभारं हेमगर्भं तु तत्परे ॥१२८॥
ईशदेशे शिवावासं युक्त्या तत्र प्रयोजयेत् ।
तद्बहिर्नगरं वाऽथ शिबिरं पूर्ववत् क्रमात् ।
एतत्सौबलमित्युक्तं नाम्ना राजेन्द्रमन्दिरम् ॥१२९॥
अधिराजमन्दिरम्
अधिराज्ञां प्रतिभवनं वक्ष्ये वैशेषकेन संक्षिप्य ।
आत्तविशालायामे तत्रोभयचण्डिते तु मध्यपदे ॥१३०॥
ब्रह्मासनमथवास्मिन्नभिषेकार्हसभासु मण्डपकम् ।
तदपरभागे भवनं तेन सहैवेषुसप्तनवनलकम् ॥१३१॥
पृष्ठे तद्द्विकपार्श्वे चाङ्गणयुक्ता खलूरिकांशेन ।
भोजनभोज्यालयका नृपतेर्वाञ्छावशादबहिः ॥१३२॥
तत्प्रागुत्तरकोणे मज्जनशाला च देवगृहम् ।
पुरतोऽङ्गणमुरुविपुलायामोपेतं नवाशेन ॥१३३॥
प्रागिव तत्र खलूरी कर्तव्या मध्यदेशयुता ।
द्वारं द्वित्रितलाढ्यं तस्मिन् भेरी निधातव्या ॥१३४॥
मण्डपमुखमिह भवनं पार्श्वे पोतस्य पार्श्वकर्तव्या ।
.........................यद्यदद्वरे प्रयोगिके नृपतेः ॥१३५॥
त्रिद्विकपार्श्वेऽङ्गणके गोलादीनां विहारस्था ।
प्रागुत्तरदिशि कोणे भवनं स्यान्मूलकोशगृहम् ॥१३६॥
तदपरभागे वस्त्रप्रभृतीनामालयस्थलं कुर्यात् ।
द्वारस्योत्तरपार्श्वे पानीयोष्णोदकालयं कुर्यात् ॥१३७॥
कुर्यात् पचनालयकं सर्वद्रव्यालयं तु तत्रैव ।
द्वारस्य दक्षिणदिशि तत्राधिवासकं कुर्यात् ॥१३८॥
तद्दक्षिणदिशि गन्धप्रभृतीनामालयं कुर्यात् ।
प्राग्दक्षिणगतकोने भवनं स्यान्मूलकोशगृहम् ॥१३९॥
राक्षसभागे तत्तु पश्चिमभागे द्विपेन्द्रमन्दिरकम् ।
तत्परदक्षिणकोणे शैवस्थानं सरत्नहेमगृहम् ॥१४०॥
तत्प्रत्यगुदक्कोणे दानाध्ययनार्थकालयं कुर्यात् ।
प्रायः प्रयोगशाला द्वारांशके तु नीचं तत् ॥१४१॥
द्वारस्योभयपार्श्वे सारद्रव्यालयं तु कूटगृहम् ।
तत्रैव हस्तिशाला सर्वौषधिशस्त्रशाला स्यात् ॥१४२॥
अन्यत्सर्वं नृपतेरिच्छावशतः प्रकर्तव्यम् ।
अथ नृपेशगृहं च मुखाङ्गणं
परियुतं हि भवेन्मुखमण्डपम् ।
अपि च भोगगृहं तु निवारणं नृपतिवाञ्चतिगृहा .......................... ॥१४३॥
तद्दक्षिणतः पार्श्वे द्विःषट्पदके महाङ्गणं दीर्घ्यम् ।
तस्मिन् पश्चिमभागे मण्डपमथ मालिका वाऽथ ॥१४४॥
शाला तदुभयपार्श्वेऽप्यभितः स्नानं च मण्डपं च स्यात् ।
अङ्गणकदक्षिणके सर्वद्रव्यालयं तदेव स्यात् ॥१४५॥
वेशनपरिघामिण्ठककूटशालाविचित्रितं पुरतः ।
पुरतो भवनाङ्गणयोर्द्विपार्श्वभागतः परितः ॥१४६॥
अपरो स्त्रीवासो वा साङ्गणकं मालिकाभिधा पङ्क्तिः ।
भवनस्योत्तरपार्श्वे तत्र माहिष्यालयं तु तत्तुङ्गम् ॥१४७॥
भागं तत्त्रिकपार्श्वं राज्ञां च मालिकापङ्क्तिः ।
तत्रैव कन्यकानां वासं वसुधाऽत्र कुब्जकादीनाम ॥१४८॥
एकद्वित्रिभिरंशैर्दक्षिणतश्चोत्तरक्रमशः ।
तत्रोद्यानविशालं सालं कुर्यात्तु तत्र बहिरेव ॥१४९॥
तत्रैवोत्तरभागे यत्र युता सम्मता जलक्रीडा ।
तत्र च सलिलावासं स्यान्नृपतेर्दीर्घिका चैव ॥१५०॥
अपरे नृपतेश्च गृहं स्त्रीणां स्यादेव सङ्करा शाला ।
प्रागुत्तरदिशि बाह्ये नवस्वेष्टदेवतादिगृहम् ॥१५१॥
तत्राग्रायणशाला पुष्पोद्यानानि कूपं स्यात् ।
प्राच्यां तु महाङ्गणकं त्रिंशद्भागैर्विधातव्यम् ॥१५२॥
समहेन्द्रद्वारं तत् त्रितलं वा गोपुरं चतुःस्थलकम् ।
अगजासरसतिश्रीसद्मान्येतानि द्वारदक्षिणतः ॥१५३॥
अभ्यन्तरमुखयुक्तान्येकद्वित्रयतुर्यभौमानि ।
तत्प्राचि शङ्खभेरिप्रभृतीनामालयं तु स्यात् ॥१५४॥
तद्दक्षिणतो दभ्रं महानसं सर्वरक्षयुतम् ।
अङ्गणदक्षिणभागे द्वारं स्यादेव द्वित्रितलसहितम् ॥१५५॥
द्वारस्योभयपार्श्वे लेखकयोस्तत् खलूरी स्यात् ।
अङ्गणकोत्तरपार्श्वे कर्तव्या चैव दभ्रका च सभा ॥१५६॥
दक्षिणमुखगतसहिता सर्वविचित्रा मनोहरा तुङ्गा ।
तदपरभागे पूर्वांशे स्थानं तु गीतकादिसभा ।
अन्यत्सर्वं नृपतेरिच्छावशतः प्रकर्तव्यम् ॥१५७॥
वेश्मावधौ विहिततुङ्गविशालमूलं
सालं शिलाभिरथ चेष्टकया प्रयोज्यम् ।
तद्बाह्यतः परिखयान्वितमिष्टकाद्यै-
र्युक्तं जयङ्गमिति वेश्म वरं हि नाम्ना ॥१५८॥
आवाहनोद्वाहनतोयकर्दमैर्झषैर्जलूकैरनेकाब्धिसर्पकैः ।
पद्मारिभूकण्टकमत्स्यकच्छपैः कुलीरशङ्खैः
परिखा समन्विता ॥१५९॥
वासार्हकालम्बनकूटसंयुता जालैर्लताभिः
परिपूर्णपत्रिका ।
अभ्यन्तरप्राप्तनतोन्नतान्विता
छिद्रान्विता भित्तिरनेकयन्त्रका ॥१६०॥
एवं दुर्गै राजवेश्मानि कुर्याद्
बाह्येऽबाह्येऽभ्यन्तरे तत्क्रमेण ।
सर्वे रक्ष्या भूपतीनां जनानां
तस्मात्तस्या बाह्यतः षड्बलं तत् ॥१६१॥
नगरभेदाः
स्थानीयमाहुतं वै परमं यात्रामणिस्तथा विजयः ।
नगरं चतुर्विधं हि प्रोक्तं तज्ज्ञैर्नरेन्द्राणाम् ॥१६२॥
तत्कुलमूलनृपेशैर्जनपदमध्येऽभ्रसंस्थितस्थानम् ।
सतृणजलोर्वीगर्भं नगरं स्थानीयमिति कथितम् ॥१६३॥
प्रभुमन्त्रोत्साहाख्यैर्युक्तं शक्तित्रयैर्वरावनिपैः ।
तृणभूजलगर्भयुतं नद्यावारादियुक्तं च ॥१६४॥
तन्यान्न जातु रिक्तं चागममित्युच्यते परैर्नगरम् ।
आवन्यापकयुक्तं सतृणं संग्रामयात्रके विहितम् ॥१६५॥
संग्रामं तदभीष्टं विजये युक्त्याणितद्गर्भम् ।
गर्भत्रयैरुपेतं विजयमिति प्रोच्यते प्राज्ञैः ॥१६६॥
महति वेश्मनि वान्वितकार्मुकै-
र्भवनमत्र विगृह्य ततः परम् ।
परिवृतं विगृह्य ततः परम् ।
परिवृतं सकलं हि यथापुरा
भवति शेषमशेषबलार्थदम् ॥१६७॥
हस्तिशाला
त्रिहस्ताद्यर्धहस्तेन वृद्ध्या पञ्चकरान्तका ।
पञ्चैव भक्तयस्ताभिर्हस्तिशाला विधीयते ॥१६८॥
षण्णवेति चतुस्सप्तत्रिपञ्चैरिति कीर्तिताः ।
भक्त्यस्त्रिविधा शाला विस्तारायामतः क्रमात् ॥१६९॥
अल्पत्वे तु महत्त्वे तु यथायोग्यं तथाचरेत् ।
मुखशालैकभक्त्या तु मध्ये विस्तारनिर्गता ॥१७०॥
शयनस्थानकं भक्त्या दक्षिने प्रविधीयते ।
राजादनो मधूकश्च खदिरः खादिरस्तथा ॥१७१॥
तिन्त्रीणी चार्जुनश्चैव स्तम्बकं पिशितः शमी ।
क्षीरिणी पद्मकाद्यास्ते शालास्तम्भा गजस्य च ॥१७२॥
सप्ताष्टनवहस्तोच्चमवगाहं विहाय च ।
विस्तारस्तु विशालात्स्यादवगाहो यथाबलम् ॥१७३॥
शालास्तम्भा इमे प्रोक्ता विटपाभशिखान्विताः ।
सुवृत्तो हस्तिनः स्तम्भस्त्वेकहस्तविशालतः ॥१७४॥
त्रिपादोनार्धहस्तो वा विस्तारं त्रिविधं स्मृतम् ।
चन्द्रभागेऽष्टभागेन हीनाग्रतारकान्वितम् ॥१७५॥
शालाव्यासे तु पञ्चांशं नीत्वा पृष्ठे त्रियंशकम् ।
आपादं षोडशांशे तु वामेऽष्टांशव्यपोहितम् ॥१७६॥
स्थापयेत्तु तदलानान् पूर्वोक्तांश्च समन्वितम् ।
अनुपादार्धमानेन भित्त्युत्सेधो विधीयते ॥१७७॥
तदूर्ध्वे कटकच्छाद्य घाटनोद्धाटनक्षमम् ।
वितस्तिगोस्तनं पश्चात् स्थापयेद् बहिराननम् ॥१७८॥
कारयेद्धस्तिमानेन फलकप्रस्तरं तलम् ।
शिलाभिर्वेष्टकाभिर्वा प्रस्तरं नैव कारयेत् ॥१७९॥
मूत्रद्वारयुतं लब्धद्वारयुक्त्या क्रमान्वितम् ।
अन्यत्सर्वं यथायुक्ति तथा कुर्याद् विचक्षणः ॥१८०॥
अश्वशाला
नवाष्टसप्तषट्पञ्चहस्ते पञ्चविसारिणि ।
त्रयभक्त्याद्यैकविंशद्भक्त्यन्तायाममीरितम् ॥१८१॥
चतुर्मुखचतुश्शालाः सप्रग्रीवाश्च शालाकाः ।
दशद्वादशहस्तैर्वा स्तम्भव्यासं प्रकीर्तितम् ॥१८२॥
त्रिचतुःपञ्चषड्ढस्तैः कुड्योत्सेधं विधीयते ।
अभिन्नानां तु भिन्नानां भित्तिबन्धं यथेष्टतः ॥१८३॥
नेत्रभित्तौ च पृष्ठे च जालकं स्याद् गृहे गृहे ।
गृहान्ते कर्णधारा स्यात्तददर्भा वयोचिताः ॥१८४॥
अयुग्मवंशविस्तीर्णैः फलकैः प्रस्तरं तलम् ।
मूत्रच्छिद्रसमायुक्तं सारदारुमयैर्दृढम् ॥१८५॥
प्रत्येकं तुरगस्थानमेकभक्तिस्ववेशनम् ।
सारदारुमयं कीलं द्विसप्ताङ्गुलदैर्घ्यकम् ॥१८६॥
द्वित्र्यङ्गुलं तु विस्तारं सूचिकाग्रसमन्वितम् ।
पश्चाद् बन्धोऽग्रबन्धे तु योजयेद् दृढखातवत् ॥१८७॥
नानालयाः
मयूरवानरादीनामालयं शुकपञ्जरम् ।
चित्रगोयुग्मगोवत्सपानधान्यधनालयम् ॥१८८॥
वस्त्ररत्नायुधद्यूतकर्मान्तावरणालयम् ।
दानभोजनशाला च यागशाला सदक्षिणा ॥१८९॥
दक्षिणं पञ्जरावासं यथास्थानं प्रयोजयेत् ।
उद्याने चापि वाःस्थाने स्थानमण्डपमिष्यते ।
कूटागारं तु वा वृत्तशाला या वृषभस्य तु ॥१९०॥
मन्त्रशालादिविधिः
उत्तुङ्गकुड्या नृपमन्त्रशाला पूर्वापरायामयुता मनोज्ञा ।
सभा च पादावृतकुड्यहीनातिदूरतः प्रेक्षणकर्मयोग्या ॥१९१॥
कूटागारं तु वा तस्मिंस्ततः पश्चिमतो दिशि ।
राज्ञां सिंहासनं युक्त्या प्राङ्मुखं कल्पिते यथा ॥१९२॥
तत्पूर्वदक्षिणे भागे मन्त्रिणां चासनं भवेत् ।
दूतस्य प्रागुदग्भागे प्रशास्तासनमुत्तरे ॥१९३॥
सेनापतेस्तद्दक्षिण्ये सर्वं नालिसमान्तरम् ।
पञ्चबन्धैकाङ्गुलीका मनोज्ञा मन्त्रनालिका ॥१९४॥
मात्रेणैकेन सुषिरा मुकुलाग्रद्वयान्विता ।
प्रसाधनगृहम्
व्यासायामे तु पञ्चांशषडंशैकांशद्व्यंशकैः ॥१९५॥
मध्येऽङ्गणं तदावृत्तं स्तनमात्रोच्चभित्तिकम् ।
वृत्तोपलं तु तन्मध्ये प्रागुदग्जलपात्रकम् ॥१९६॥
केशक्षालनपर्यङ्कं तद्दक्षिणगतं भवेत् ।
प्रागुदग्द्वारसंयुक्ता तथा मण्डपमालिका ॥१९७॥
प्रासाधिकासं मित्रे सुदृशां स्थानमण्डपम् ।
पञ्चादिपञ्चकान्तं वा व्यासं तत्रोजसंख्यया ॥१९८॥
सभामण्डपशालानां सामान्यमिष्टदैर्घ्यकम् ।
पञ्चादशकरव्यासं त्रिस्प्तारत्निदैर्घ्यकम् ॥१९९॥
सैकद्वादशहस्तान्तं चूल्यन्तादिमनोहरम् ।
अभिषेकशाला
शालाभिषेकयोग्या सा कर्तव्या प्रागिवानना ॥२००॥
तदङ्गमध्यमे रङ्गसंयुक्ता च सभा भवेत् ।
मण्डपं दक्षिणे राज्ञां तदुदीच्या दिशि क्रमात् ॥२०१॥
पट्टाभिषेकसंवासं धामं तत्र प्रयोजयेत् ।
पञ्चसप्तनवारत्निव्यासतारद्विवैदिकम् ॥२०२॥
त्रिचतुष्पञ्चभागं वा वेदिकोदयमीरितम् ।
वेदिकोदयपादोच्चं स्वव्याससममिष्यते ॥२०३॥
अन्तःस्तम्भसमायुक्तं त्यक्तमध्यस्थपादकम् ।
द्विषड्भिरष्टमात्रं तु त्रिःषडङ्घ्रिविशालकम् ॥२०४॥
एकभक्त्यावृतं तत्र जालं तद्वद्वहिष्प्रभम् ।
तुलाभारार्हकं कूटं मण्डपं वा प्रभा भवेत् ॥२०५॥
त्रिहस्तं तोरणस्तम्भदैर्घ्यं व्यासं दशाङ्गुलम् ।
नवाष्टसप्तमात्रं वा पृष्ठभागशिखन्वितम् ॥२०६॥
वस्तुमध्ये निधातव्यं दक्षिणोत्तरगं यथा ।
तोरणान्तरमुत्सेधं सममेव विधीयते ॥२०७॥
निर्विष्टविष्टकं मध्यवक्रतुण्डसमन्वितम् ।
पूर्वापरायतं भर्तृतुलान्तादचलं चरेत् ॥२०८॥
तुलान्तरकराराणां महाराजस्य योग्यताम् ।
कीलितं वितलं मध्ये कुण्डलं सारदारुजम् ॥२०९॥
योजयेद् वक्रतुण्डेन यथाबलसमन्वितम् ।
त्यक्त्वा तु पुंमुखात षण्डादेवं तु फलकासनम् ॥२१०॥
तत्समाङ्गमितालम्बिश्रृङ्खलाबलसंयुतम् ।
बकतुण्डद्वयं द्विद्विभूतं यत्नेन योजयेत् ॥२११॥
वस्तुनश्च चतुर्दिक्षु प्राङ्मुखस्य च तोरणम् ।
स्तम्भं विष्टं तुलामात्रं कुर्यात् साराङ्घ्रिपैः शुभैः ॥२१२॥
वस्तुमध्यगतं बाह्ये परितस्तत् प्रपा भवेत् ।
तत्समं परितश्चापि तद्बाह्ये योजयेद् बुधः ॥२१३॥
औदुम्बरवटाश्वत्थन्यग्रोधास्तोरणं भवेत् ।
पीतं रक्तं तथा श्वेत नीलं कुर्याद् ध्वजं क्रमात् ॥२१४॥
तुला समं तत् समुपेत्य भूपतिः
सुखं समास्ताममरेन्द्रदिङ्मुखम् ।
समीक्ष्य राशिं निजहेमसञ्चयं
विराजमानो धनदो यथा भुवि ॥२१५॥
हिरण्यगर्भस्थानम्
हेमगर्भयुतं सप्तनवरत्न्यापि भित्तिकम् ।
व्यासेन चतुरस्त्रा सा व्यासतुल्योच्छ्रिता तलात् ॥२१६॥
दशद्वादशमात्रैर्वा स्तम्भव्यासं प्रकीर्तितम् ।
वृत्तो वा चतुरस्त्रो वा चावगाहेद् यथाबलम् ॥२१७॥
त्रिहस्तावृतभित्तिः स्याद् दण्डोत्सेधं स्ववेदिका ।
स्तम्भाग्रस्थोऽन्तराविष्टद्व्यष्टद्वयविभूषिता ॥२१८॥
लूपारूढाग्रविस्तारं समोत्सेधाः प्रशंसिताः ।
सप्तहस्तद्विहस्तादिव्यासोत्सेधेन वेदिका ॥२१९॥
पञ्चहस्तद्विहस्तेन व्यासोत्सेधेन वा भवेत् ।
सभामध्ये निधातव्या तन्मध्ये चावटक्रिया ॥२२०॥
बहिर्जालककुड्यं स्यात्तद्बाह्ये च प्रभा भवेत् ।
सभा नीव्रसमुत्सेधा विशाला दण्डमानतः ॥२२१॥
त्रयोविंशतिहस्तेन तद्बहिः परिखा भवेत् ।
चतुर्दिक्षु चतुर्द्वारं तोरणं क्षीरपादपैः ॥२२२॥
सोपानं योग्यदेशे तु चतुर्दिशि विधीयते ।
द्वारतुल्योन्नतव्यासं निर्गमद्वारतोरणम् ॥२२३॥
स्तम्भग्रतोरणाविष्टंकसादिष्वष्टमङ्गलम् ।
चक्रवर्तिशिखोपेतं द्वारे द्वारे प्रयोजयेत् ॥२२४॥
छत्रकेतुपताकाश्च भेरीश्रीकुम्भदीपिकाः ।
नन्द्यावर्त्न चाष्टौ तु सर्वेषामष्टमङ्गलम् ॥२२५॥
द्वारद्वयोच्छ्रितं शालारक्ष्यवासं यथाबलम् ।
तद्बहिर्जनचारेण बाह्या रक्षा प्रकीर्तिता ॥२२६॥
राजेच्छया कुमार्यास्तद्देव्याः कुल्याविमानकम् ।
मालिकान्ते च भूमौ वा योजनीयं मनोभवम् ॥२२७॥
यत्रोचितं नृपतिचित्तवशाद् विमानं
सारालिभोगभवनं च निवारणं च ।
कुड्यं गजाश्वनिलयं युवतीनिवासं
कर्तव्यमाद्यनिखिलं नगरं च युक्त्या ॥२२८॥
इति मयमते वस्तुशास्त्रे राजवेश्मविधानं नामैकोनत्रिंशोऽध्यायः