(पदविन्यासः)
वक्ष्येऽहं पदविन्यासं सर्ववस्तुसनातनम् ।
द्वात्रिंशत पदानि
सकलं पेचकं पीठं महापीठमतः परम् ॥१॥
उपपीठमुग्रपीठं स्थण्डिलं नाम चण्डितम् ।
मण्डूकपदकं चैव पदं परमशायिकम् ॥२॥
तथासनं च स्थानीयं देशीयोभयचण्डितम् ।
भद्रं महासनं पद्मगर्भं च त्रियुतं पदम् ॥३॥
व्रतभोगपदं चैव कर्णाष्टकपदं तथा ।
गणितं पादमित्युक्तं पदं सूर्यविशालकम् ॥४॥
सुसंहितपदं चैव सुप्रतिकान्तमेव च ।
विशालं विप्रगर्भं च विश्वेशं च ततः परम् ॥५॥
तथा विपुलभोगं च पदं विप्रतिकान्तकम् ।
विशालाक्षपदं चैव विप्रभक्तिकसंज्ञकम् ॥६॥
पदं विश्वेशसारं च तथैवैश्वरकान्तकम् ।
इद्रकान्तपदं चैव द्वात्रिंशत् कथितानि वै ॥७॥
सकलं पदमेकं स्यात् पेचकं तु चतुष्पदम् ।
पीठं नवपदं चैव महापीठं द्विरष्टकम् ॥८॥
पञ्चविंशत्युपपीठं षट्षडेवोग्रपीठकम् ।
स्थण्डिलं सप्तसप्तांशं मण्डुकं चाष्टकाष्टकम् ॥९॥
परमशायिपदं चैव नन्दननन्दपदं भवेत् ।
आसनं शतभागं स्यादेकविंशच्छतं पदम् ॥१०॥
स्थानीयं स्याच्चतुश्चत्वारिंशच्छतपदाधिकम् ।
देशीयं नवषष्ट्यंशं शतं चोभयचण्डितम् ॥११॥
षण्णवत्यधिकं चैव शतं भद्रं महासनम् ।
सपञ्चविंशद् द्विशतं पद्मगर्भमिति स्मृतम् ॥१२॥
षडाधिक्यं तु पञ्चाशद्द्विशतं त्रियुतं पदम् ।
द्विशतं सनवाशीति व्रतभोगमिति स्मृतम् ॥१३॥
त्रिशतं च चतुर्विशंत् कर्णाष्टकपदं तथा ।
त्रिशतं चैकषष्ट्यंशं गणितं पादसंज्ञितम् ॥१४॥
चतुःशतपदं सूर्यविशालं परिकीर्तितम् ।
सुसंहितपदं चैकचत्वारिंशच्चतुःशतम् ॥१५॥
सवेदाशीतिचत्वारः शतं सुप्रतिकान्तकम् ।
नवविंशत्पञ्चशतं विशालं पद्मीरितम् ॥१६॥
षट्सप्ततिः पञ्चशतं विप्रगर्भमिति स्मृतम् ।
विश्वेशं षट्शतं पश्चात् पञ्चविंशत्पदं स्मृतम् ॥१७॥
षट्सप्ततिः षट्शतकं विपुलभोगमिति स्मृतम् ।
नवविंशतिकं सप्तशतं विप्रतिकान्तकम् ॥१८॥
विशालाक्षपदं वेदाशीति सप्तशताधिकम् ।
सैकाष्टपञ्चयुक्तं चाष्टशतं विप्रभक्तिकम् ॥१९॥
विश्वेशसारमित्युक्तमेवं नवशतं पदम् ।
सैकषष्ट्यां नवशतं पदमीश्वरकान्तकम् ॥२०॥
चतुर्विंशतिसंयुक्तं सहस्त्रपदसंकुलम् ।
इन्द्रकान्तमिति प्रोक्तं तन्तविद्भिः पुरातनैः ॥२१॥
सकलम्
आद्यं पदं सकलमेकपदं यतीना-
मिष्टं हि विष्टरमहाशनवह्निकार्यम् ।
पित्र्यामरादियजनं गुरुपूजनं च
भान्वार्कितोयशशिनामकसूत्रयुक्ते ॥२२॥
पेचकम्
पैशाचभूतसविषग्रहरक्षकास्ते
पूज्या हि पेचकपदे चतुरंशयुक्ते ।
तस्मिन् विध्येमधुना विधिना विधिज्ञैः
शैवं तु निष्कलमलं सकलञ्च युक्त्या ॥२३॥
पीठम्
अथ पीठमदे नवभागयुते दिशि दिश्यथ वेदचतुष्ट्यकम् ।
विदुरीशपदाद्युदकं दहनं गगनं पवनं पृथिवी ह्यबहिः ॥२४॥
महापीठम
षोडशांशं महापीठं पञ्चपञ्चामरान्वितम् ।
ईशो जयन्त आदित्यो भृशोऽग्निर्वितथो यमः ॥२५॥
भृङ्गश्च पितृसुग्रीवौ वरुणः शोषमारुतौ ।
मुख्यः सोमोऽदितिश्चेति बाह्यदेवाः प्रकीर्तिताः ॥२६॥
आपवत्सार्यसावित्रा विवस्वानिन्द्रमित्रकौ ।
रुद्रजो भूधरश्चान्तर्मध्ये ब्रह्मा स्थितः प्रभुः ॥२७॥
उपपीठादी
तत्पार्श्वयोर्द्वयोरेकभगेनैकेन वर्धनात् ।
उपपीठं भवेदत्र देवतास्ताः पदे स्थिताः ॥२८॥
तत्तत्पार्श्वद्वयोश्चैव्मेकैकांशविवर्धनात् ।
इन्द्रकान्तपदं यावतावद्युञ्जीत बुद्धिमान ॥२९॥
समानि यानि भागानि चतुःषष्टिवदाचरेत् ।
असमान्यपि सर्वाणि चैकाशीतिपदोक्तवत् ॥३०॥
पदानामपि सर्वेषां मण्डूकं चापि तत्परम् ।
चण्डितं सर्ववस्तूनामाहत्यं च यतस्ततः ॥३१॥
तस्मात् संक्षिप्य तन्त्रेभ्यो वक्ष्येऽहमपि तद् द्वयम् ।
चतुःषष्टिपदे चैकाशीतौ सकलनिष्कले ॥३२॥
सूत्रे च पदमध्ये च ब्रह्माद्याः स्थापिताः सुराः ।
प्रागुदग्दिक्समारभ्यैवोच्यन्ते देवताः पृथक् ॥३३॥
दैवतस्थानानि
ईशानश्चैव पर्जन्यो जयन्तश्च महेन्द्रकः ।
आदित्यः सत्यकश्चैव भृशश्चैवान्तरिक्षकः ॥३४॥
अग्निः पूषा च वितथो राक्षसश्च यमस्तथा ।
गन्धर्वो भृङ्गराजश्च मृषश्च पितृदेवताः ॥३५॥
दौवारिकश्च सुग्रीवः पुष्पदन्तो जलाधिपः ।
असुरः शोषरोगौ च वायुर्नागस्तथैव च ॥३६॥
मुख्यो भल्लाटकश्चैव सोमश्चैव मृगस्तथा ।
अदितिश्चोदितिश्चैव द्वात्रिंशद् बाह्यदेवताः ॥३७॥
आपश्चैवापवत्सश्चैवान्तः प्रागुत्तरे स्मृतौ ।
सविन्द्रश्चैव साविन्द्रश्चान्तः प्राग्दक्षिणे स्मृतौ ॥३८॥
इन्द्रश्चैवेन्द्रराजश्च दक्षिणापरतः स्थितौ ।
रुद्रो रुद्रजयश्चैव पश्चिमोत्तरतो दिशि ॥३९॥
ब्रह्मा मध्ये स्थितः शम्भुस्तन्मुखस्थाश्चतुः सुराः ।
आर्यो विवस्वान् मित्रश्च भूधरश्चैव कीर्तिताः ॥४०॥
चरकी च विदारी च पूतना पापराक्षसी ।
ईशानादि बहिः स्थाप्याश्चतुष्कोणे स्त्रियः स्मृताः ।
नपदा बलिभोक्तारः शेषाणां पदमुच्यते ॥४१॥
विंशत्सूत्रैः सन्धिभिः सप्तवेदैः
षट्षट्संख्याभिश्चतुष्कैश्च षट्कैः ।
अर्कैः शूलैर्वेदसंख्याः सिराभिः
संयुक्तं स्याष्टकेनैकमेतत् ॥४२॥
मण्डूकपदम्
चतुःषष्टिपदे मध्ये ब्रह्मणश्च चतुष्पदम् ॥४३॥
आर्यकादिचतुर्देवाः प्रागादित्रित्रिभागिनः ।
आपाद्यष्टामराः कोणेष्वर्धार्धपदभागिनः ॥४४॥
महेन्द्रराक्षसाद्याश्च पुष्पभल्लाटकादयः ।
दिशि दिश्यथ चत्वारो देवा द्विपदभोगिनः ॥४५॥
जयन्तश्चान्तरिक्षश्च वितथश्च मृषस्तथा ।
सुग्रीवो रोगमुखश्च दितिश्चैकैकभागिनः ॥४६॥
ईशाद्यष्टामराः शेषाः कोणेश्वर्धपदेश्वराः ।
एवं क्रमेण भुञ्जीरन् मण्डूके वास्तुदेवताः ॥४७॥
स्वस्वप्रदक्षिणवशात् पदभुक्तिक्रमं विदुः ।
ब्रह्माणं च निरीक्ष्यैते स्थिआः स्वस्वपदेऽमराः ॥४८॥
वास्तुपुरुषविधानम्
षद्वंशमेकह्रदयं चतुर्मर्मं चतुःसिरम् ।
मेदिन्यां वास्तुपुरुषं निकुब्ज प्राक्शिरं विदुः ॥४९॥
तस्योत्तमाङ्ग विज्ञेयमार्यको नाम देवता ।
सविन्द्रो दक्षिणभुजः साविन्द्रः कक्षमुच्यते ॥५०॥
आपश्चैवापवत्सश्च सकक्षो वामतो भुजः ।
विवस्वान् दक्षिणं पार्श्वं वामपार्श्वं महीधरः ॥५१॥
मध्ये ब्रह्ममयः कायो मित्रः पुंस्त्वं विधीयते ।
इन्द्रश्चैवेन्द्रराजश्च दक्षिणः पाद ईरितः ॥५२॥
रुद्रो रुद्रजयो वामपादः शेते त्वधोमुखः ।
वस्तुत्रिभागमध्ये तु वंशाः षट् प्रागुदङ्मुखाः ॥५३॥
वस्तुमध्ये तु मर्माणि ब्रह्मा ह्रदयमुच्यते ।
निष्कूटांशाः सिरा ज्ञेया इत्येष पुरुषः स्मृतः ॥५४॥
गृहे गृहे मनुष्याणां शुभाशुभकरः स्मृतः ।
तस्याङ्गानि गृहाङ्गैश्च विद्वान् नैवोपपीडयेत् ॥५५॥
व्याधयस्तु यथासंख्यं भर्तुरङ्गे तु संश्रिताः ।
तस्मात् परिहरेद् विद्वान् पुरुषाङ्गं तु सर्वथा ।
पुनर्मण्डूकपदम्
चत्वारिंशच्च पञ्चैते देवतानां समुच्चयः ॥५६॥
अष्टाष्टांशे कस्य धस्तन्मुखाना-
मिष्टं गांशं व्यञ्जनं षोडशानाम् ।
अष्टानां कः षोडशानां खभागं
मण्डूकाख्ये स्थण्डिले तैतिलेषु ॥५७॥
परमशायिपदम्
परमशायिपदे नवभागभाक्
कमलजो मुखतस्तु चतुःसुराः ।
रसपदा द्विपदा हि विदिक्स्थिता
बहिरथैकपदाः सकलामराः ॥५८॥
इति मयमते वस्तुशास्त्रे पददेवताविन्यासो
नाम सप्तमोऽध्यायः