(प्रतिमालक्षणम्)
ब्रह्मादीनां च विन्यासं देवीनां वर्णमायुधम् ।
वाहनं भूषणं केतुर्विमानं वक्ष्यते क्रमात् ॥१॥
ब्रह्मा
चतुर्मुखश्चतुर्बाहुः तप्तकाञ्चनसन्निभः ।
विद्युद्दामपिशङ्गार्चिजटामुकुटबन्धनः ॥२॥
कुण्डली चाङगदी हारी मृगचर्मोत्तरीयकः ।
उत्तरीयोपवीत च गलान्ते सन्निवेशयेत् ॥३॥
बभ्ररू मौञ्जिकाधारः शुक्लमाल्याम्बरः शुचिः ।
अक्षमाला च कूर्चश्च दक्षिणे तु करद्वये ॥४॥
कमण्डलुकुशौ वामे स्त्रुक् स्त्रुवं वाऽथ दक्षिणे ।
आज्यस्थाली कुशं वाऽपि वामहस्ते प्रदापयेत् ॥५॥
वरदाभयहस्तो वा जटामुकुटमण्डितः ।
वामभागे तु सावित्री भारती दक्षिणेंऽशके ॥६॥
ऋषयः परिवारास्तु हंसारूढः कुशध्वजः ।
आसीनो वा स्थितो ब्रह्मा पद्मासनमुदाह्रतम् ॥७॥
विष्णुः
विष्णुः किरिटमुकुटकेयूरकटकान्वितः ।
भूषितः कटिसूत्राद्यैः पीतवासाश्चतुर्भुजः ॥८॥
वरदाभयहस्तश्च शङ्खचक्रधरः शुचिः ।
आसीनो वा स्थितो वाऽपि वामेऽवामेऽवनी रमा ॥९॥
पीठस्थो वाम्बुजस्थो वा श्यामवर्णोऽच्युतः प्रभुः ।
ग्रामादिवस्तुमध्ये च दिक्ष्वष्टासु प्रशस्यते ॥१०॥
श्रीलक्ष्मी भूमिसोद्भासी वक्ष्यते कमलेक्षणः ।
एकबेरं मुमुक्षूणां स्थापनीयं विचक्षणैः ॥११॥
ध्वजं च वाहनं चापि गरुडः समुदीरितः ।
वराहः
वरदाभयहस्तौ च भुजोद्धृतवसुन्धरा ॥१२॥
पादाक्रान्तोरगाधीशस्तप्तकार्तस्वरप्रभः ।
पीतयज्ञोपवीतश्च सर्वालङ्कारसंयुतः ॥१३॥
प्रोक्तो वराहमूर्तिस्तु ।
त्रिविक्रमः
प्रलयाम्बुदसन्निभः ।
गर्भभित्तिमुपाश्रित्य प्रञ्चायुधवपुः स्थितः ॥१४॥
त्रिविक्रमो वामनश्च ।
नारसिंहः
नारसिंहश्च वैष्णवः ।
सिंहवक्त्रोऽतिनीरूक्षश्चोग्रदंष्ट्रो महाबलः ॥१५॥
कुटिलौ मांसलौ चोरू रोममालासमन्वितः ।
सकुण्डलः स्थूलजिह्वा करण्डमुकुटोज्ज्वलः ॥१६॥
श्वेतवर्णो महाकायो माङ्गल्यश्चण्डवेगवान् ।
दशहस्तोऽष्टबाहुर्वा तीक्ष्नदन्तनखान्वितः ॥१७॥
पीतयज्ञोपवीतश्च पुष्पमाल्यैरलङ्कृतः ।
हारकेयूरकटककटिसुत्रादिभिर्युतः ॥१८॥
रक्तवस्त्रधरो देवो हस्तौ युद्धे निरायुधौ ।
हिरण्योरःस्थलासक्तविदारणकरद्वयः ॥१९॥
आसीनश्चोक्तमार्गेण सर्वदेवाभिवन्दितः ।
पर्वताग्रे गुहायां वाप्यरण्ये रिपुमण्डले ॥२०॥
स्थापितो रिपुनाशाय नारसिंहो विपश्चिताम् ।
ग्रामादिषु चतुर्बाहुः शङखचक्रधरः प्रभुः ॥२१॥
सर्वालङ्कारसंयुक्तः पीतवस्त्रधरः शुचिः ।
स्थाप्यो नरहरिवायौ स्थितो वासीन एव वा ॥२२॥
पट्टिकोद्बलजङ्घोर्ध्वजान्वोपरि भुजद्वयम् ।
द्ण्डहस्तोऽभयो वान्यद् योगपट्टे वेष्टयेत् ॥२३॥
वरदाभयहस्तं तु स्थानकं पद्मपीठके ।
शान्तिपुष्टिजयारोग्यभोगैश्वर्यधनैधनम् ॥२४॥
अनन्तशायी
सुप्तरूपं तु कर्तव्यमानन्तरूपतल्पके ।
त्रिमेखलसमायुक्ते पञ्चसप्तफणान्विते ॥२५॥
पूर्वस्मिन्दक्षिणे वाऽपि शिरोयुग द्विभुजः प्रभुः ।
दक्षिणस्थो दण्डभुजः शिरोधरभुजोऽथवा ॥२६॥
सपुष्पो वामहस्ते तु योगनिद्रासुभद्रकः ।
सितपीताञनश्यामसन्निभस्तु चतुर्युगे ॥२७॥
कृतादिषु क्रमेणैव पूर्ववद् भूषणादिकम् ।
नाभिजन्माम्बुजे धाताप्यासीनस्तु समाहितः ॥२८॥
श्रीभूमी पुष्पहस्ते च स्थापितव्ये शिरोङ्घ्रिके ।
देवस्य पार्श्वतः पुष्पमन्यज्जानुप्रसारितम् ॥२९॥
शयनं वामपादं तु श्रियो भूम्यास्तु दक्षिणे ।
शङ्खचक्रगदाशार्ङ्गखड्गः सकलरूपिणः ॥३०॥
शङ्खास्त्रेशः सितो भूतश्चक्रो रक्तनिभः पुमान् ।
गदा स्त्री हेमसङ्काशा शार्ङ्गः कृष्णपुमान्भवेत् ॥३१॥
खड्गा श्यामलवर्णा स्त्री सर्वभूषणभूषिता ।
वामस्था सूचयो वामे दक्षे चोद्यतपाणयः ॥३२॥
नानावर्णाम्बराः सर्वे स्वमूर्ध्नि न्यस्तहेतयः ।
मधुकैटभकौ पार्श्वे स्थापितव्यौ च रोषितौ ॥३३॥
सुरेन्द्रः प्राङ्मुखो देवैरन्यैर्वा सुमहर्षिभिः ।
ग्रामादिवास्तुमध्ये वा बाह्ये दिक्षु विदिक्ष्वपि ॥३४॥
स्थापनीयो हरिर्युक्त्या सर्वेषां हितकांक्षिभिः ।
महेश्वरः
पिशङ्गोर्ध्वजटाभासः काञ्चनाग्निसमप्रभः ॥३५॥
घनोरू रश्मिसंघातचन्द्राङ्कितजटाधरः ।
चतुर्भुजस्त्रिनेत्रश्च सौम्यो बृंहितयौवनः ॥३६॥
व्यूढोरस्को वृषारूढः श्रृङ्खलाङ्कुपाशभृत् ।
पीनस्तुङ्गभुजो पाणी हस्त्यत्मा हारनुपुरः ॥३७॥
कटकं कटिसूत्रं च कुण्डलं नागनिर्मितम् ।
मेखलोदरबन्धं च पुण्डरीकाजिनाम्बरः ॥३८॥
दशहस्तोऽष्टबाहुर्वा सर्वालङ्कारसंयुतः ।
दक्षिणे शक्तिशूलासिगदाप्रज्ज्वलनाङ्गवान् ॥३९॥
वामेऽपि नागखट्वाङ्गं खेटकं च कपालकम् ।
नागपाश्म प्रसन्नस्तु व्याघ्रचर्माम्बरः शिवः ॥४०॥
गदासिहीनहस्तः सन् अष्टबाहुर्महेश्वरः ।
आसीनो वा स्थितो वाऽपि वृषारूढो वृषध्वजः ॥४१॥
नृत्तवाद्यादिमुदितनृत्तभृङ्ग्यनुपूर्वकः ।
नन्द्यादिगणसंयुक्त सुरव्रातनिषेवितः ॥४२॥
ग्रामे वा नगरे वाऽपि स्थापनीयो हितैषिभिः ।
षोडशमूर्त्तयः
सुखासनं विवाहं चाप्युमास्कन्दं परं तथा ॥४३॥
वृषारुढं पुरारिं च नृत्तं वै चन्द्रशेखरम् ।
अर्धनारिं च विष्ण्वर्धं चण्डेशानुग्रहं परम् ॥४४॥
कामारिं कालनाशं च दक्षिणामूर्तिकं तथा ।
भिक्षाटनं मुखलिङ्गं लिङ्गसम्भूतरूपकम् ॥४५॥
षोडशप्रतिमाकारं वक्ष्येऽहं विधिना क्रमात् ।
त्रिनेत्रं च चतुर्बाहुं बालेन्दुकृतशेखरम् ॥४६॥
व्याघ्रचर्माम्बरं चैव हारकेयूरभूषितम् ।
यज्ञोपवीतसंयुक्तं कुण्डलाभ्यामलङ्कृतम् ॥४७॥
एवं षोडशमूर्त्तीनां सामान्यं समुदीरितम् ।
अतः परं पृथग्रूपं क्रमशो वक्ष्यतेऽधुना ॥४८॥
सुखासनमूर्तिः
आसने तु सुखासीनं वरदाभयहस्तकम् ।
दक्षिणेऽदक्षिणे हस्ते टङ्ककृष्णं प्रयोजयेत् ॥४९॥
शयितं वामपादं तु दक्षिणं पीठलम्बितम् ।
अनुक्तं पूर्ववत्सर्वमेवयुक्तं सुखासनम् ॥५०॥
इदं पूजाविधौ चैव निश्चयं मोक्षसिद्धिदम् ।
वैवाहमूर्त्तिः
किञ्चित् त्रिभङ्गिकं कायं वामपादं तु कुञ्चितम् ॥५१॥
देवस्य दक्षिणं हस्तं देव्या हस्तेन संयुतम् ।
वरदं वामहस्तं तु कृष्णापरशुसंयुतम् ॥५२॥
सर्वाभरणसंयुक्तं क्षौमवस्त्रधरं हरम् ।
देवस्य बाहुमात्रेण देवी कार्या द्विबाहुका ॥५३॥
द्विनेत्रा चारुवदना श्यामवर्णा तु कोमला ।
किञ्चिद् वक्रां तु केयूरकटकैरङ्गुलीयकैः ॥५४॥
करण्डिकाभमौल्यङ्गां सर्वाभरणभूषिताम् ।
दुकूलवसनां गौरीमुत्पलान्वितपाणिकाम् ॥५५॥
नूपुराद्यैर्ज्वलत्पादपङ्कजां दक्षिणे न्यसेत् ।
लक्ष्मी हिरण्यवर्णाञ्च द्विभुजां च द्विलोचनाम् ॥५६॥
सर्वाभरणसंयुक्तामुमापार्श्वे तु कारयेत् ।
शिला वा विष्णुमूर्त्तिर्वा जलधारां तु दापयेत् ॥५७॥
षोडशाम्बुजके ब्रह्मा विवाहहोमसम्मुखः ।
कल्याणं कारयेदेवं सर्वदेवगणान्वितम् ।
सुराद्यादिसुपूज्यं च सर्वमङ्गलसिद्धिदम् ॥५८॥
सोमास्कन्दमूर्तिः
अर्धचन्द्रासनं देवं वामाङ्गस्थितगौरिकम् ।
उमासहितहस्तं तु देव्या हस्तोपगूहितम् ॥५९॥
उमामहेश्वरं रूपं पूर्वोक्तस्वस्वरूपकम् ।
देवस्य वामपार्श्वे तु देवीं कुर्याद् विचक्षणः ॥६०॥
उमाशङ्करयोर्मध्ये स्कन्दं वै बालरूपकम् ।
सुखासनं युक्त्या कुर्यादुमास्कन्दान्वितं भवेत् ॥६१॥
उमास्कन्दस्य देवस्य सर्वकामार्थसिद्धिदम् ।
वृषारूढमूर्त्तिः
उमेश्वरौ स्थितौ पीठे वृषभं पृष्ठतः स्थितम् ॥६२॥
वृषमस्तकदेशे तु न्यस्तव्यं वामकूर्परम् ।
लम्बितं दक्षिणं हस्तं शूलं वामे यथोचितम् ॥६३॥
कृष्णापरशुसंयुक्तं वृषारूढं समीरितम् ।
पूजा दारिद्र्यनाशार्थं सर्वप्राणिहितावहम् ॥६४॥
त्रिपुरान्तकमूर्त्तिः
सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ।
धनुर्बाणसमायुक्तं कृष्णापरशुसंयुतम् ॥६५॥
वृषभस्यन्दनस्थानं सर्वदेवगणान्वितम् ।
उमया सहितं देवं कुर्याद्वै त्रिपुरान्तकम् ॥६६॥
वैरिनाशार्थकं पूज्यं कुर्यात् त्रिपुरसुन्दरम् ।
नृत्तमूर्त्तयः
नृत्तं भुजङ्गललितं सन्ध्यानृत्तमिहोच्यते ॥६७॥
डमरुं चापि वह्निं च दक्षिणेऽदक्षिणे करे ।
त्रिशूलं परशुं खड्गं बाणं स्याद् दक्षिणे करे ॥६८॥
खेटकं च पिनाकं च दण्डं पाशं च वामतः ।
चारुचारीप्रचारेण प्रज्ज्वलच्चरणान्वितम् ॥६९॥
दक्षिणां कुञ्चितं पादं वामं जान्वन्तमुद्धृतम् ।
जानुबाह्यादिपार्ष्ण्यन्तमेकादित्रिमुखान्तरम् ॥७०॥
तदन्तरेऽष्टभागे तु नवधा निर्गमं मतम् ।
निर्गमं वामपादं तु युक्त्या तत्र प्रयोजयेत् ॥७१॥
ऋज्वागतमुखं किञ्चित्कायं वै सत्रिभङ्गिकम् ।
साभयं दक्षिणं हस्तमङ्गुष्ठान्तं स्तनान्तकम् ॥७२॥
उद्यड्डमरुक हस्तं कर्णचूल्यन्तमुद्धृतम् ।
गजहस्तोपमं वामं वामपादान्तिकं गतम् ॥७३॥
साग्निवामकरं बाहुमात्रोच्चं कारयेत् सुधीः ।
बाहुकक्षान्तरं तावत् व्याघ्रचर्मधरः समः ॥७४॥
वामेऽवामे फणी कृत्वा न्यसेद् वामेऽभयं तु वा ।
संविकीर्णजटाभारं बकपक्षविचित्रितम् ॥७५॥
करोटिमालया युक्तं जटाजूटसचन्द्रकम् ।
संविकीर्णजटासंख्या पञ्चसप्तनवोदिता ॥७६॥
वामे गौरी त्रिभागे तु अवामे नन्दिकेश्वरः ।
नृत्तवाद्यादिमुदितौ नृत्तभृङ्गी च पूर्वकम् ॥७७॥
देवदानवगन्धर्वसिद्धविद्याधरान्वितम् ।
पार्श्वयोर्मुनिभिर्युक्तं सुरवृन्दनिषेवितम् ॥७८॥
पीठस्थोऽथाम्बुजस्थो वा स्थापयेत्तन्निरन्तरम् ।
पादाधारमपस्मारं भुजङ्गत्रासमीरितम् ॥७९॥
नृत्तपूजाफलं सद्यः शत्रुनाशकरं भवेत् ।
चन्द्रशेखरमूर्त्तिः
ऋज्वागतस्थितं देवं वरदाभयहस्तकम् ॥८०॥
कृष्णापरशुसंयुक्तं कर्तव्यं चन्द्रशेखरम् ।
अर्धनारीश्वरमूर्त्तिः
उमया सहितं वाममैशमर्धं तु दक्षिणे ।
अतिपीतजटाभारमुकुटं सुविचित्रितम् ॥८१॥
वामोमार्धं सधम्मिल्लं सीमन्तं तिलकालकम् ।
कुण्डलं दक्षिणे कर्णे वासुकिं च व्यवस्थितम् ॥८२॥
ताडिकं वामके दद्यात् पालिकां च प्रदापयेत् ।
कपालं दक्षिणे हस्ते शूलं टङ्कं क्रमेण वा ॥८३॥
सोत्पलं वामहस्तं तु केयूरकटकान्वितम् ।
पवित्रमक्षसूत्रं च वामेऽवामे प्रयोजयेत् ॥८४॥
सहारं कन्धरार्धं तु वामे साग्निं च दक्षिणम् ।
स्तनयुक्तमुमार्धं तु दक्षिणं वृद्धवक्षसम् ॥८५॥
श्रोण्यर्धदक्षिणे शम्भोर्व्याघ्रचर्मकृताम्बरम् ।
उमार्धं कटिसूत्रं च चित्रवस्त्रपरिच्छदम् ॥८६॥
पादौ च देवदेव्योश्च समपद्मोपरिस्थितौ ।
नूपुरालङ्कृतं किञ्चित्कुञ्चितं वामपादकम् ॥८७॥
साङ्गुलीयं तथा देव्या भूषितं वामपादकम् ।
चतुर्भुजं तु वा देवमुमार्धं शुकसंयुतम् ॥८८॥
ईशार्धं रक्तवर्णं तु श्यामवर्णमुमार्धकम् ।
अर्धनारीश्वरं रूपं कुर्याद्विद्वान् सलक्षणम् ॥८९॥
हरिहरमूर्त्तिः
विष्ण्वर्धमीश्वरार्ध्म च पूर्ववत् परिकल्पयेत् ।
शङ्खदण्डं तु कृष्णार्धे शूलटङ्कं शिवार्धतः ॥९०॥
स्वस्वाभरणसम्पूर्णं समपद्मोपरि स्थितम् ।
विष्णुशङ्करयोर्धं वामदक्षिणभागतः ॥९१॥
चण्डेशानुग्रहमूर्त्तिः
प्रत्यालीढस्य देवस्य चण्डेशं पार्श्वतो न्यसेत् ।
प्रकोष्ठे परशुम कृत्वा ह्रदयाञ्जलिहस्तकम् ॥९२॥
पुष्पमालासमायुक्तमत्यन्तोर्जिततेजसम् ।
चण्डेश्वरप्रसादं तु रूपम् ।
कामारिमूर्त्तिः
....................................कामारिरुच्यते ॥९३॥
देवस्य पार्श्वतः कुर्यात् कामं रूपं प्रवक्ष्यते ।
पर्यङ्कबन्धमालीनमङ्के क्षिप्तोर्ध्वपाणिकम् ॥९४॥
कामारिमुग्ररूपं तु कारयेल्लक्षणान्वितम् ।
कालनाशमूर्त्तिः
उद्धृतं दक्षिणं पादं वामपादं तु कुञ्चितम् ॥९५॥
दक्षिणे तु करे शूलं परशुं वामबाहुके ।
दक्षिणे नागपाशं तु वामहस्तं तु सूचितम् ॥९६॥
कालसंह्रदये पादं शूलं कुर्यादधोमुखम् ।
कालनाशवपुः प्रोक्तमुग्ररूपं तु चण्डधृक् ॥९७॥
दक्षिणामूर्त्तिः
सन्दंशमक्षमाला च दक्षिणेऽदक्षिणे करे ।
पुस्तकं ज्वलनं कुर्याच्छवेतवर्णं त्रिलोचनम् ॥९८॥
पिङ्गवर्नावृतालम्बिकेशभारं सचन्द्रकम् ।
करोटिकार्कधुर्धूरपुष्पयुक्तं हि सादितम् ॥९९॥
दक्षिणोरूपरिष्टात्तु शयितं वाममङ्घ्रिकम् ।
पादाधारमपस्मारं कुर्यात् पीठे समन्वितम् ॥१००॥
पार्श्वयोर्मुनिभिर्युक्तं दक्षिनामूर्त्तिरूपकम् ।
पर्वताग्रस्थितं देवं मृगपक्षिमुनीश्वरम् ॥१०१॥
भिक्षाटनमूर्त्तिः
भिक्षाटनं प्रकर्तव्यं नग्नरूपं त्रिलोचनम् ।
चतुर्भुजसमायुक्तं पिच्छं वामे कपालकम् ॥१०२॥
हरिण्यास्यगतं हस्तं सव्यं डमरुकोद्धृतम् ।
पादं पादुकसंयुक्तं देवं वै गमनोन्मुखम् ॥१०३॥
कङ्कालमूर्त्तिः
अथवाऽष्टचतुर्बाहुः षड्भुजो वा महेश्वरः ।
मणिभिः शङ्खजैर्नागैर्भूषितस्त्वहिकुण्डलः ॥१०४॥
पालिकं वामे पत्रं वा क्षुरिकालंकृता कटिः ।
व्याघ्रचर्माम्बरो देवः श्वेतवर्णस्त्रिलोचनः ॥१०५॥
पादुकालङ्कृतं पादं तुटिकार्धान्वितः करः ।
सर्वालङ्कृतिसंयुक्तः सर्वभूतगुणान्वितः ॥१०६॥
विभ्रमस्त्रीगणावृतः कङ्कालश्चारुवेषभाक् ।
मुखलिङ्गम्
मुखलिङ्गमथो वक्ष्ये सर्वकामप्रसिद्धये ॥१०७॥
धर्मांशे तु शिवायामे विष्कम्भे तु त्रिभागिके ।
स्कन्धं द्व्यंशे गलं भागं त्रिभागं मुखमिष्यते ॥१०८॥
उष्णीषमंशकं द्व्यंशं मुकुटं लिङ्गमंशतः ।
भागेन मुखविष्कम्भं चोर्ध्वलिङ्गविशालकम् ॥१०९॥
विष्णोः पितामहस्यापि तौ भागावार्षधर्मके ।
ललाटचन्द्रकास्योष्ठघ्राणानि नयनानि च ॥११०॥
कर्णगण्डस्तथाद्यङ्गं यथोक्तं सकले तथा ।
मानोम्नानप्रमाणेन प्रकुर्याच्छास्त्रवित्तमः ॥१११॥
चतुर्णामपि वक्त्राणामलङ्कारमथोच्यते ।
त्रिनेत्रं सस्मितं वक्त्रं पूर्वं तत्पुरुषाह्वयम् ॥११२॥
चन्द्राङ्कितजटाजूटं कुङ्कुमद्रवसन्निभम् ।
नक्रकुण्डलसंयुक्तं पद्मपत्रवदीक्षणम् ॥११३॥
अघोरं दक्षिणं वक्त्रं सिंहाक्षं सिंहनासिकम् ।
राजावर्तनिभच्छायं फणिकुण्डलमण्डितम् ॥११४॥
ससर्पप्रोतनं तुण्डं चन्द्राङ्कितजटाभरम् ।
सदंष्ट्रस्थूलजिह्वं च पिङ्गश्मश्रु त्रिलोचनम् ॥११५॥
प्रसन्नं वारुणं वामं रत्नकुण्डलमण्डितम् ।
सार्धेन्द्वहिजटाजूटं पूर्णचन्द्रनिभं मुखम् ॥११६॥
सद्योजाताह्वयं सौम्यं बन्धूककुसुमप्रभम् ।
चन्द्राङ्कितजटाजूटं तिलकालकसंयुतम् ॥११७॥
युवत्याभरणोपेतं वक्त्रं धम्मिल्लकोज्ज्वलम् ।
एकद्वित्रिचतुर्वक्त्रमेवं लिङ्गं प्रकीर्तितम् ॥११८॥
षण्मुखः
सर्वाभरणसंयुक्तं षण्मुखं कुङ्कुमच्छविम् ।
देव्यौ गजा च वल्ली च पीतश्यामनिभे कृते ॥११९॥
सर्वाभरणसंयुक्ते वामेऽवामे प्रयोजयेत् ।
ग्रामादिवस्तुमध्ये च चतुर्दिक्षु प्रशस्यते ॥१२०॥
वीथ्यग्रे वीथिमध्ये वा ऐशान्यामपि वर्धयेत् ।
भोगार्थं पश्चिमे न्यस्य मोक्षार्थं मध्यमेऽस्य तु ॥२१॥
गणाधिपः
गजाननस्त्वेकदन्तः समस्थस्तु त्रिलोचनः ।
रक्तवर्णश्चतुर्बाहुर्भूतरूपो महोदरः ॥१२२॥
नागयज्ञोपवीतस्तु घनपिण्डोरुजानुकः ।
पद्मासनोपरिष्टात्तु वामाङ्घ्रिशयितं तथा ॥१२३॥
दक्षिणं कुञ्चितं पादं वामावर्ताङ्गुलीयकम् ।
स्वदन्तमङ्कुशं कुर्याद् दक्षिणे वै करद्वये ॥१२४॥
वामद्वयेऽक्षमालां च लङ्डुकं च प्रदापयेत् ।
करण्डिकाभमौल्यङ्गो हाराद्याभरणान्वितः ॥१२५॥
एवं गणाधिपः प्रोक्तः स्थितो वा पद्मपीठके ।
नृत्ते च षट्चतुर्बाहुसकेतुराखुवाहनः ॥१२६॥
सूर्यः
सैकचक्रं तु सप्ताश्वमरुणाग्रं महारथम् ।
हस्तद्वये च कमलं कञ्चुकच्छन्नवक्षसम् ॥१२७॥
अकुञ्चितसुकेशं तु प्रभामण्डलमण्डितम् ।
कोशवेष्टनयुक्तं वा स्वर्णरत्नविभूषितम् ॥१२८॥
मुकुटं वा विधातव्यमन्यत्सर्वं सुमण्डनम् ।
एकवक्त्रं द्विदोर्दण्डं स्कन्धासक्तकराम्बुजम् ॥१२९॥
कृत्वा तु स्थापयेत् सूर्यं पुरुषाकृतिरूपिणम् ।
हयारूढं च कुर्वीत पद्मस्थं वार्चनार्हकम् ॥१३०॥
देव्युषां श्यामवपुषीं हेमवर्णां च प्रत्युषाम् ।
जातिहिङ्गुल्यवर्णे तु स्थापयेत् सूर्यमण्डले ॥१३१॥
चतुर्बाहुर्द्विबाहुस्थरक्तपद्मविभाजितः ।
द्विहस्तावपरौ बाहू अभयवरदान्वितौ ॥१३२॥
द्विहस्तश्चारुणश्चैव सारथिः स रथे स्थितः ।
सर्वलोकैकजीवात्मा देवो हीनतनुः सदा ॥१३३॥
ब्रह्माविष्णुशिवाद्याश्च स्थापनीयो दिनेश्वरः ।
देवी प्रभा च सन्ध्या च वामदक्षिणपार्श्वके ॥१३४॥
ग्रहादिपरिवारास्तु त्रिपञ्चावरणाः कृताः ।
उत्सवे नित्यपूजायामागमप्रोक्तवद्विधिः ॥१३५॥
ध्वजं च वाहनं वाऽपि सिंहमेव प्रकीर्तितम् ।
दिक्पालकाः
इन्द्रः
वज्रपाणिर्महाबाहुः सिंहस्कन्धो विशालदृक् ॥१३६॥
किरीटी कुण्डली हारी केयूरी गजवाहनः ।
द्विभुजः श्यामवर्णस्तु रक्ताम्बरधरः सुखी ॥१३७॥
सर्वाभरणसंयुक्ता ललाटोरःस्थलाङ्घ्रयः ।
विशालाक्षः पृथुग्रीवो देवराजः शचीपतिः ॥१३८॥
अग्निः
वृद्धरूपो भवेदग्निरर्धचन्द्रासनस्थितः ।
उज्ज्वलत्काञ्चनज्योतिः पिङ्गभ्रूः पिङ्गलोचनः ॥१३९॥
हेमकूर्चालसदृशं तद्रूपं तु शिरोरुहम् ।
बालार्कसदृशं वस्त्रमुपवीतं च तादृशम् ॥१४०॥
अक्षमाला च करकं दक्षिणेऽदक्षिणे करे ।
सप्तायुधं च सप्तार्चिर्जटालोद्भासरूपकम् ॥१४१॥
ज्वालामालाकुलं दीप्तं पार्श्वस्थमंशुमण्डलम् ।
मेषारूढं च कुण्डस्थं योगपट्टेन वेष्टितम् ॥१४२॥
दक्षिणे शयिता स्वाहा रत्नकुण्डलभूषिता ।
सर्वयागहितं पुण्यं पिङ्गभूषणभूषितम् ॥१४३॥
यमः
दण्डपाणिः पाशहस्तो दीप्ताग्निसमलोचनः ।
महामहिषमारूढो नीलाञ्जनवपुप्रभः ॥१४४॥
पार्श्वयोरात्मसदृशैः पुरुषैरुपजीविभिः ।
पीनवक्षः स्थलैर्दिव्यैः संहारैर्बलवत्तरैः ॥१४५॥
द्वारे समुत्थितैः क्रुद्धैः सर्वलोकभयङ्करैः ।
चित्रगुप्तः कलिश्चेति दक्षिणोत्तरपार्श्वकी ॥१४६॥
कृष्णश्यामनिभौ रक्तवस्त्रकौ तौ समाहितौ ।
पीठपार्श्वस्थितौ मृत्युसहितावुग्रतेजसौ ॥१४७॥
नीललोहितसङ्काशे द्विपार्श्वे चामरस्त्रियौ ।
वामदक्षिणपार्श्वस्थे धर्माधर्मासमाह्वये ॥१४८॥
आसीनश्च मया प्रोक्तो महिषध्वजवाहनः ।
निऋतिः
निऋतिस्तु विशालाक्षः खड्गहस्तो महाभुजः ॥१४९॥
पीतवासाः शवारूढो नीलवर्णो महाबलः ।
सर्वालङ्कारसंयुक्तश्चासहायो जगत्पतिः ॥१५०॥
वरुणः
शङ्खकुन्देन्दुधवलः पाशहस्तो महाबलः ।
हारकेयूररुचिरकुण्डलाभ्यमलङ्कृतः ॥१५१॥
पीतवासा असदृशः सुवर्णः सर्वनन्दनः ।
आसीनो वा स्थितो वाऽपि मकरे वरुणः स्मृतः ॥१५२॥
वायुः
ध्वजहस्तो महावीर्यस्ताम्राक्षो धूमसन्निभः ।
कुञ्चितभ्रूयुगो वायुः शबलाम्बरभूषितः ॥१५३॥
मृगारूढो विधातव्यः सर्वाभरणभूषितः ।
कुबेरः
कुबेरं सर्वयक्षेशं मकुटाद्यैरलंकृतम् ॥१५४॥
तप्तकाञ्चनसङ्काशं वरदाभयपाणिकम् ।
मेषारूढं गदापाणिं द्विपाद्म च द्विपाणिकम् ॥१५५॥
शङ्खपद्मनिधी त्वेवं वहन्तं नरवाहनम् ।
सर्वालङ्कारसंयुक्तं सदेविं कारयेद् बुधः ॥१५६॥
चन्द्रः
चन्द्रः सिंहासनासीनः कुन्दशङ्खनिभद्युतिः ।
प्रभामण्डलसंयुक्तो द्विभुजः श्वेतवस्त्रकः ॥१५७॥
आसीनो वा स्थितो वाऽपि कुमुदप्रज्वलत्करः ।
हेमयज्ञोपवीतांशुः सौम्यः सोमो ह्रताह्रतः ॥१५८॥
शुक्लमाल्याम्बरो हैमसन्निभो रक्तलोचनः ।
रेवती रोहिणी चैव सस्याङ्कुरसमन्विते ॥१५९॥
भासद्राजीवनयने कृष्णाम्बरधरे शुची ।
चामरव्यग्रहस्ते द्वे निशा ज्योत्स्ने च पश्चिमे ॥१६०॥
शशिनस्तु निशागौरी ज्योत्सना जनरुचिः स्मृता ।
ईशानः
वृषारूढो महातेजा धवलो धवलेक्षणः ॥१६१॥
त्रिशूलपानिर्लोकेशस्त्रियक्शो लोकशङ्करः ।
कामः
कामो हेमनिभः सम्यक् सर्वाभरनभूषितः ॥१६२॥
द्विबाहुः सौन्दराकारः सौम्यः प्रथमयौवनः ।
पीठस्थो वा रथस्थो वा सर्वलोकसमर्चितः ॥१६३॥
हैमो मदश्च रागश्च वसन्तस्तस्य बान्धवाः ।
तापनी दाहिनी सर्वमोहिनी विश्वमर्दिनी ॥१६४॥
मारणी कामिनीदंष्ट्रास्तस्य पञ्चशरा इमे ।
इक्षुचापेषुपञ्चैव पश्चिमे परिकीर्तिताः ॥१६५॥
रतिः स्याद्दक्षिणे पार्श्वे पूर्वः श्यामसमच्छविः ।
सर्वाभरणसंयुक्ता केशभारसमुज्ज्वला ॥१६६॥
एवमुक्तः स्मरस्तस्य मकरध्वज इष्यते ।
अश्विन्यौ
एवं सिंहासनासीनौ ह्यश्विन्यौ ह्यश्वरूपकौ ॥१६७॥
दाडिमीपुष्पसङ्काशावुभयांसोपवीतिनौ ।
चिकित्सकौ च तौ कुर्यात् स्त्रियोर्द्वन्द्वं सचामरम् ॥१६८॥
पीतरक्तनिभे कार्ये मृतसञ्जीवनी च ते ।
पृष्ठे विशल्यकरणी द्वे स्त्रियौ पीतपिङ्गले ॥१६९॥
वामे धन्वन्तरिश्चैवमात्रेयश्च तथैव च ।
पीतरक्तनिभौ चैतौ विधेयौ कृष्णवाससौ ॥१७०॥
वसवः
खड्गखेटकहस्तास्ते सर्वाभरणभूषिताः ।
द्विभुजा रक्तवर्णास्तु पीताम्बरधराः शुचिः ॥१७१॥
आसीना वा स्थिता रौद्रा वसवोऽष्टौ प्रकिर्तिताः ।
धरो ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलः ॥१७२॥
प्रत्यूषश्च प्रभावश्च वसवोऽष्टौ प्रकीर्तिताः ।
मरुद्गणाः
रूपाङ्गनास्तनापेष्यकेशभारसमन्विताः ॥१७३॥
दिव्यपुष्पधराः सर्वे दुकूलवसनान्विताः ।
अष्टौ मरुद्गणाः प्रोक्ता सर्वयोगेषु योग्यकाः ॥१७४॥
रुद्रा विद्येश्वराश्च
रुद्रा रुद्राग्निभा नीललोहिताद्या दिवौकसः ।
जीमूतकुङ्कुमाभास्ते भिन्नाञ्जननिभास्तु वै ॥१७५॥
चतुर्भुजास्त्रिनेत्राश्च टङ्कशूलजटाधराः ।
वरदाभयहस्ताश्च क्षौमवस्त्रधराः शुचिः ॥१७६॥
अनन्तश्चैव सूक्ष्मश्च शिवोत्कृष्टैकनेत्रकौ ।
एकरुद्रस्त्रिमूर्त्तिश्च श्रीखण्डश्च शिखण्डिकः ।
अष्ट विद्येश्वराः प्रोक्ताः सर्वयागसमन्विताः ॥१७७॥
क्षेत्रपालः
तामसं कृष्णवर्णं तु प्रलयाम्बुदसन्निभम् ।
सात्त्विको द्विचतुर्बाह राजसः षड्भुजो भवेत् ॥१७८॥
तामसोऽष्टभुजः प्रोक्तः संस्थानानि च गोचरे ।
कपालशूलं द्विभुजं खट्वाङ्गश्च परश्वथ ॥१७९॥
चतुर्भुजक्रमाद् वाऽथ वरदाभयपाणिकम् ।
दक्षिणस्थातु शूलासिघण्डायुक्तास्तु वामके ॥१८०॥
खेटकं च कपालं च नागपाशमुदीरितम् ।
अष्टहस्ते धनुर्बाणयुक्तं पूर्वोक्तहेतिभिः ॥१८१॥
रक्तवर्णगुणोपेत ऊर्ध्वकेशश्चलान्वितः ।
कुञ्चितभ्रूस्त्रिनेत्रस्तु घोरदन्तद्वयान्वितः ॥१८२॥
मार्गान्तगणसंरक्षो बालरूपः श्ववाहनः ।
ग्रामादिवस्तुबाह्ये तु द्वारे वारण्यके गिरौ ॥१८३॥
प्रागीशानदिशो भागे पर्जन्ये च दितौ क्रमात् ।
स्थाप्यं पद्मासनासीनं सर्वकामफलप्रदम् ॥१८४॥
षड्चतुर्भुजगं वा मपरे सति ।
श्वकुक्कुटादिभिः सेव्यः सिद्धैर्योगिनिवेष्टितम् ॥१८५॥
चण्डेश्वरः
चण्डेश्वरः सुरक्तश्च श्वेतमिश्रच्छविः स्मृतः ।
द्विबाहुको दलावर्तमूर्धजः शङ्खपत्रयोः ॥१८६॥
धृतयज्ञोपवीतस्तु शुक्ल्यमाल्याम्बरः शुचिः ।
ह्रदयाञ्जलिसंयुक्तः टङ्कपाणिभुजस्थितः ॥१८७॥
अर्धचन्द्रासनासीनः पुष्पमालावलम्बितः ।
सर्वाभरणसंयुक्तो जटी वा केशबन्धवान् ॥१८८॥
आदित्याः
द्विभुजाः पद्महस्ताश्च रक्तपद्मासनस्थिताः ।
रत्नकुण्डलसंयुक्ताः सर्वाभरणभूषिताः ॥१८९॥
रक्ताम्बरधराः सर्वे भास्करा द्वादश स्मृताः ।
अर्यमादिश्च मित्रश्च वरुणांशो भगस्तथा ॥१९०॥
इन्द्रो विवस्वान् पूषा च पर्जन्यश्च ततस्त्विति ।
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥१९१॥
सप्तर्षयः
मुखसन्दंशहस्तास्तु जटाजूटसमन्विताः ।
पीतवर्णास्तु वर्णानां वर्णानामम्बरान्विताः ॥१९२॥
सप्तैते ऋषयः प्रोक्ता द्विभुजाः पिङ्गलोचनाः ।
पीतवर्णाह सुवृद्धाश्च रक्तवस्त्रानुकारिताः ॥१९३॥
केशभारसमायुक्ता नानाभरणभूषिताः ।
सप्तरोहिण्यः
सुरूपाह स्वर्णावर्णास्तु नागभूषाः सिताम्बराः ॥१९४॥
आसीना वास स्थिता वाऽपि रोहिण्यः सप्त कीर्तिताः ।
गरुडः
तार्क्ष्योना वृत्तरक्ताक्षः पीतवर्णो महाबलः ॥१९५॥
द्विभुजः साञ्जलिर्वाऽथ किञ्चिदूर्ध्वोरुजङ्घिकः ।
कञ्चुकः पञ्चवर्णस्तु पक्षेर्युक्तस्तु सीसजैः ॥१९६॥
सदंष्ट्रः श्यामनासाग्रः करण्डमकुटोज्ज्वलः ।
नागाभरणयुक् पीतपर्णैः सम्पूर्णकर्णकः ॥१९७॥
रक्तवस्त्रधरश्चैव सर्पारिर्विष्णुवाहनः ।
शास्ता
मोहिनीतनयः शास्ता द्विभुजः श्यामसन्निभः ॥१९८॥
पीठस्थः कुञ्चिताङ्घ्रिस्त्ववामपादं प्रलम्बितम्
गजहस्तोपमो वामबाहुर्जानूरुबाह्यतः ॥१९९॥
मण्डलीभूतरूपो वा वक्रदण्डधरोऽथवा ।
स्निग्धनीलाञ्जनाकीर्णाः कुण्डलीभूतमूर्धजाः ॥२००॥
गजवाहनकेतुः सन् हाराद्याभरणान्वितः ।
नीलवर्णहयो वाऽथ वृषो वा वाहनध्वजः ॥२०१॥
चतुर्भुजस्त्रियक्षो वा सर्वत्र कुक्कुटध्वजः ।
ज्ञानी योगासनासीनो सदाध्यायी पवित्रकः ॥२०२॥
सोभयांसोपवीतस्तु युवा वीरासनान्वितः ।
उललासी गीतभावी स्यात् सुरभावी सुखासनः ॥२०३॥
वामोरूपरिविन्यस्तावामाङ्घ्रिस्तु विराजितः ।
नवशक्तिसमायुक्तः वेष्टिताष्टाष्टयोगिनिः ॥२०४॥
पूर्णा च पुष्कला देव्यौ वामदक्षिणभागतः ।
कृष्णहेमनिभे देव्यौ सौगन्ध्यपुष्पहस्तके ॥२०५॥
सर्वाभरणसंयुक्ते पीतश्वेताम्बरे मते ।
वामे मधुकरस्तस्य स्थापनीयो मधुच्छविः ॥२०६॥
द्विभुजो मांसलो फुल्लवक्त्रः सल्लम्बितोदरः ।
शीधुपात्रं च दण्डं च वामेऽवामे प्रयोजयेत् ॥२०७॥
दण्डी च लाङ्गली तस्य द्वारस्थौ शक्तिधारिणौ ।
वर्णान्तराश्रमस्थाने वेश्यावासे च दुर्गमे ॥२०८॥
निगमे खर्वटे खेटे विधातव्यः सुरप्रियः ।
ग्रामादिवास्तुमध्ये तु बाह्ये च द्वारंदक्षिणे ॥२०९॥
देवभावी ज्ञानभावी विधातव्यौ हितैषिभिः ।
नगरे पत्तने चैव गीतभावी विधीयते ॥२१०॥
मातृकाः
मातृणां लक्षणं वक्ष्ये स्थापन स्थानमेव च ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥२११॥
वाराही च तथेन्द्राणी काली चाप्यन्तगामिनी ।
दक्षिणेतरपार्श्वस्थौ वीरभद्रविनायकौ ॥२१२॥
वीरभद्रः
वीरभद्रो वृषारूढः शूलहस्तो गदाधरः ।
वीणा हस्तोऽथवा कार्यो वरदाभयपाणिकः ॥२१३॥
चतुर्भुजस्त्रिनेत्रश्च चन्द्राङ्कितजटाधरः ।
सर्वाभरणसंयुक्तः श्वेतवर्नो वृषध्वजः ॥२१४॥
पद्मासनयुतो देवो वटवृक्षसमाश्रितः ।
लोकेशः शङ्करः शम्भुर्मातृणामग्रथ स्थितः ॥२१५॥
ब्रह्माणी
चतुर्वक्त्रा विशालाक्षी तप्तकाञ्चनसन्निभा ।
वरदाभयशूलाक्षमालाधरचतुर्भुजा ॥२१६॥
रक्तपद्मासनासीना हंसवाहनकेतुका ।
ब्रह्माणी ब्रह्मवत्कार्या व्याघ्रचर्मसमाश्रिता ॥२१७॥
माहेश्वरी
त्रिनेत्रां रक्तवर्णां च शूलपाणिं वृषध्वजाम् ।
वरदाभयहस्तां तामक्षमालासमन्विताम् ॥२१८॥
जटामकुटिनी शम्भोर्भूषणीं तु महेश्वरीम् ।
चन्दनद्रुमसंयुक्तां कारयेद् वृषवाहिनीम् ॥२१९॥
कौमारी
वासिकाबद्धमकुटा शक्तिकुक्कुटधारिणी ।
रक्तवर्णा महावीर्या हारकेयूरभूषिता ॥२२०॥
वरदाभयहस्ता च कुङ्कुमप्रभसन्निभा ।
सर्वाभरणसंयुक्ता मयूरध्वजवाहिनी ॥२२१॥
उदुम्बराश्रितां देवी कौमारी कारयेत् सुधीः ।
वैष्णवी
शङ्खचक्रधरां देवी वरदाभयपाणिकाम् ॥२२२॥
सुस्थानां श्यामवर्णां तां पीताम्बरसुलोचनाम् ।
पिप्पलद्रुमसंयुक्तां गरुडध्वजवाहिनीम् ॥२२३॥
वैष्णवी कारयेद् विद्वान् विष्णुभूषणभूषिताम् ।
वाराही
वरदाभयहस्ता वा वाराही कृष्णसन्निभा ॥२२४॥
हलं मुसलकं धृत्वा चर्मवासः समन्विता ।
शङ्खवर्णा च वरदाभयदण्डकरान्विता ॥२२५॥
सदंष्ट्रां तु महाकाण्डां किरीटमकुटोज्ज्वलाम् ।
कृष्णाम्बरधरां देवीं सर्वाभरणभूषिताम् ॥२२६॥
करञ्जद्रुमसंयुक्तां महिषध्वजवाहनीम् ।
इन्द्राणी
किरीटमकुटां देवीं सर्वाभरणभूषिताम् ॥२२७॥
वरदाभयपाशाब्जपाणिकामिन्दुसन्निभाम् ।
कल्पकद्रुमसंयुक्तामिन्द्राणी कारयेद् बुधः ॥२२८॥
चामुण्डी
कपालिनी शूलधरां वरदाभयपाणिकाम् ।
अष्टहस्तं प्रकुर्वीत शूलकापालासंस्थितम् ॥२२९॥
वामे दण्डधनुः खड्गं खेटकं पाशबाणकम् ।
एते त्वष्टभुजाः प्रोक्ता दशहस्तं प्रकीर्तितम् ॥२३०॥
डमरुं शूलकं प्रोक्तं सर्वमुक्तं प्रकीर्तितम् ।
रक्ताक्षिकुटिकासीना स्तनबन्धफणान्विता ॥२३१॥
शिरोमालोपवीता च शवारूढा कृशोदरी ।
निर्मांसव्यावृतमुखी दीर्घजिह्वा त्रिलोचना ॥२३२॥
व्याघ्रचर्माम्बरधरा ज्वालाकेशफणिष्टदा ।
काली कृशाङ्गी कृष्णा च वटवृक्षसमाश्रिता ॥२३३॥
दंष्ट्राकरालवदना चामुण्डी गृध्रकेतुका ।
विनायकः
विनायकस्य रूपं तु पूर्ववतं कारयेद् बुधः ॥२३४॥
मातृणां स्थापनम्
ग्रामाणामुत्तराशायामैशान्यामतिदूरतः ।
व्याह्रत्य शूलया वासा शूलाकारसमन्विताः ॥२३५॥
पूर्वास्यमुत्तरास्यं वा दिग्द्वारं तु समन्विता ।
ब्रह्मस्थान इमाः स्थाप्या दक्षिणादिक्रमेण तु ॥२३६॥
शान्तिपुष्टिजयारोग्यं भोगैश्वर्यायुर्वर्धयेत् ।
वामाद्याः शत्रुमादाय भवेयुस्ता न संशयः ॥२३७॥
पूर्वोदितविधाने तु ब्रह्माणी मध्यमे स्थिता ।
सर्वकाम्यमितीत्युक्तं प्रतिष्ठा सर्वमोहना ॥२३८॥
चामुण्डी मध्यमे स्थाप्य प्रतिष्ठायां प्रजाकरी ।
कामासनं तु योगं च शान्तं वीरासनं क्रमात् ॥२३९॥
सुखासने विधौ कुर्यात् सर्वकामफलप्रदम् ।
पुनः चामुण्डी
अथाष्टदशदोर्दण्डैर्द्विषट्षोडशबाहुकैः ॥२४०॥
चामुण्डी कारयेद् विद्वान् दारुमुत्सुधयापि वा ।
नृत्तं वा युक्तितः कुर्यादष्टबाहुसमन्विताम् ॥२४१॥
सन्ध्यानृत्तसमीपे वा सन्ध्यानृत्तं यथा भवेत् ।
षट्चतुर्भुजहस्तं वा युक्तं लोकोपशान्तये ॥२४२॥
परिवाराः
दौवार्यौ द्वारबाह्यस्थौ भूतौ शूलादिधारिणौ ।
रौद्रौ भुतगणैर्युक्तौ पिशाचैश्च समावृतौ ॥२४३॥
मण्डपेऽभ्यन्तरे स्थाप्या नन्दरूपे सुयौवने ।
रक्तश्यामनिभे ते द्वे योगिन्यौ तु स्त्रियौ मतौ ॥२४४॥
कपालकास्थिसंयुक्तपाणिके व्यालकान्विते ।
ससीमन्तशिरोजन्मधम्मिल्लमकुटोज्ज्वले ॥२४५॥
सर्वाभरणसम्पन्ने चारुवक्त्रे त्रिलोचने ।
तत्रैव भूतवेतालडाकिन्यादीनि विन्यसेत् ॥२४६॥
यामलं मन्त्रशास्त्रोक्तं नित्योत्सवं तु कारयेत् ।
लक्ष्मीः
लक्ष्मीः पद्मासनासीना द्विभुजा काञ्चनप्रभा ॥२४७॥
हेमरत्नोज्ज्वलं नक्रकुण्डलं शङ्खकुण्डलम् ।
सुयौवना सुरम्याङ्गा कुञ्चितभ्रूसविभ्रमा ॥२४८॥
आमण्डलमुखी कर्णपूरपद्मेक्षणान्विता ।
रक्तोष्ठी पीनगण्डा च कञ्चुकच्छादनस्तनी ॥२४९॥
शिरसो मण्डनं शङ्खचक्रसीमान्तपङ्कजम् ।
पद्मं स्याद् दक्षिणे हस्ते वामे श्रीफलमिष्यते ॥२५०॥
सुमध्यविपुलश्रोणिः शोभनाम्बरवेष्टिता ।
मेखला कटिसूत्रं च सर्वाभरणभूषिता ॥२५१॥
करण्डकाभमौल्यङ्गा चासीना कमलासना ।
चामरव्यग्रहस्ते च तत्पार्श्वे तु स्त्रियावुभे ॥२५२॥
स्नपयन्तौ कुम्भहस्तौ हस्तिनौ च प्रदर्शयेत् ।
अथ गेहार्चनायोग्या चतुर्बाहुसमन्विता ॥२५३॥
वरदाभयहस्तं च सारुणाब्जसमप्रभा ।
सर्वाभरणसम्पनां तप्तहेमोज्ज्वलप्रभाम् ॥२५४॥
पर्यङ्कबन्धमासीनां श्वेतपद्मासनाञ्चिताम् ।
ईदृशीं कारयेल्लक्ष्मीमभीप्सितफलप्रदाम् ॥२५५॥
यक्षिणी
यक्षिणी हेममाला तु लक्षणीया सलक्षणा ।
किं तु नागेन्द्ररहिता सिद्धाप्सरससेविता ॥२५६॥
किन्नरैरुपगायन्ती यक्षगन्धर्वसेविता ।
अन्तर्बहिर्विधीयन्ते ग्रामादिषु च वास्तुषु ॥२५७॥
कात्यायनी
कात्यायनी महिषस्य शिरच्छेदे समुद्यता ।
किरीटमुकुटा सर्वभूषणा दशबाहुका ॥२५८॥
शक्तिं बाणं च मुसलं शूलं खड्गं च चर्मकम् ।
वराखेटं पूर्णचापाङ्कुशं वामे क्रमात् तथा ॥२५९॥
नागपाशं तु सर्वास्त्रैर्युक्तोद्यतकराम्बुजा ।
सुवस्त्रनीलकेशा च नीलोत्पलदलेक्षणा ॥२६०॥
त्रिनेत्रा वा सुरम्याङ्गा पीनोन्नतपयोधरा ।
सुमध्या श्यामवर्णा च भुजङ्गस्तनबन्धना ॥२६१॥
सिंहारूढा सिंहकेतुः सिंहयागाम्बरान्विता ।
कात्यायनी दशभुजा महिषस्य शिरःस्थिता ॥२६२॥
दुर्गा
चतुर्भुजयुता देवी पङ्कजासनसंस्थिता ।
वरदाभयहस्ता च शङ्खचक्रधरा स्मृता ॥२६२॥
खेटकशक्तिहीनाष्टबाहुका शुकधारिणी ।
सा दुर्गा दुर्गदेशे तु ग्रामादिषु विशेषतः ॥२६४॥
सरस्वती
शुक्लवर्णा जटामौलिश्चतुर्हस्ता सरस्वती ।
श्वेतपद्मासनासीना रत्नकुण्डलमण्डिता ॥२६५॥
यज्ञोपवीतिने चारुमुक्ताहारा सुलोचना ।
व्याख्यानमक्षसूत्रं च बिभ्रती दक्षिणे करे ॥२६६॥
पुस्तकं कुण्डिकां चापि त्रिनेत्रा चारुरूपिणी ।
ऋज्वागतमुखी सर्वमुनिभिः सेविता वरा ॥२६७॥
वस्तुमध्ये चतुर्दिक्षु स्थापनीया हितैषिभिः ।
ज्येष्ठा
लम्बोष्ठी तुङ्गनासी च लम्बमानस्तनोदरी ॥२६८॥
ज्येष्ठा ज्येष्ठा महालक्ष्म्या लोहितोत्पलपाणिका ।
पीठासना कलेर्देवी पीठलम्बितपादुका ॥२६९॥
रक्तवर्णाम्बरा श्यामवर्णामृतसमुद्भवा ।
सर्वाभरणसम्पना वासिकाबन्धशेखरी ॥२७०॥
काकध्वजसमायुक्ता सारालतिकान्विता ।
वृषाननः सुखासीनो दण्डपाणिर्महाभुजः ॥२७१॥
श्वेतवर्णसुतस्तस्याः स धार्यो दक्षिणोत्तरे ।
सुस्तनी यौवनाङ्गा च सुवस्त्रा चारुलोचना ॥२७२॥
कृष्णवर्णा सुता तस्याः सर्वाभरणभूषिता ।
द्वारे द्वारे यौवना वा स्थाने स्थाने च भित्तिभिः ॥२७३॥
भूमिः
सस्याङ्कुरनिभा भूमी राजीवविपुलेक्षणा ।
तिलकालकसंयुक्ता सर्वाभरणभूषिता ॥२७४॥
पुष्पहस्ता सुरूपा च करण्डमकुटोज्ज्वला ।
पीताम्बरधरा धात्री भूतानां पीठकासनम् ॥२७५॥
पार्वती
प्रसन्नवदना सौम्यदृष्टिः सुन्दररूपिणी ।
सर्वाभरणसम्पना श्यामवर्णा द्विबाहुका ॥२७६॥
दुकूलवसना पुष्पहस्ता सातिमनोहरा ।
चतुर्दिक्षु च मध्ये तु भल्लाटांशे तु पार्वती ॥२७७॥
स्थापनीया सुसम्पन्ना परिवारसमन्विता ।
सिद्धविद्याधरस्त्रीभिः सेविताभीप्सितार्थदा ॥२७८॥
सप्तमाता
सप्तमाता बहिर्ग्रामान्नगराणां विधीयताम् ।
स्थूलदेहा महाकुक्षिः पार्श्वद्वयवधूद्वया ॥२७९॥
श्यामवर्णा विशालाक्षी रक्तवस्त्रा द्विबाहुका ।
भूतप्रेतपिशाचादिसेविता या विशेषतः ॥२८०॥
बुद्धः
पर्यङ्कबन्धमासीनं बोधमङ्कोर्ध्वपाणिकम् ।
रक्तवस्त्रं द्विदोर्दण्डं रक्तवस्त्रोत्तरीयकम् ॥२८१॥
पिङ्गवर्णाम्बरधरं त्यक्ताभरणमुर्ध्वजम् ।
सिंहासनोपरिष्टन्तु इन्द्राद्यैस्तु निषेवितम् ॥२८२॥
यक्षैर्विद्याधरैः सिद्धैर्गन्धर्वाद्यैस्तथैव च ।
कारयेदीदृशं रूपमश्वत्थद्रुमसंयुतम् ॥२८३॥
जिनः
नीलाञ्जननिभं जैनमशोकद्रुमसेवितम् ।
स्थानकमासनयुक्तं सिंहपद्मासनान्वितम् ॥२८४॥
पार्श्वबाहुः स्तनान्ते तु दृष्टिर्देवप्रमाणकम् ।
देवाङ्गुलेन त्रिंशद्वा चामरग्राहिमानकम् ॥२८५॥
शेषं पूर्ववदुद्दिष्टं युक्त्या रूपं निरम्बरम् ।
सुराद्यैरमरैः सेव्यः त्रिच्छत्रेण समन्वितः ॥२८६॥
पार्श्वबाहुलतारत्नं तत्तद्वर्णं द्विबाहुकः ।
यक्षेन्द्रकापराजितौ पार्श्वे कट्यन्तशीर्षकौ ॥२८७॥
कर्तव्यौ पूर्वमुक्तौ च शास्त्रज्ञैः शिल्पपारगैः ।
सामान्यविधिः
अन्यदेवश्च्कर्तव्यःस्वस्वचिह्नं प्रदर्शयेत् ॥२८८॥
लेखारूपाः स्वरूपाश्च नागाः सप्तत्रिभोगिकाः ।
राक्षसाश्च पिशाचाश्च रौद्रप्रकृतिरूपिणः ॥२८९॥
प्रेताश्चैव ततः सर्वे भूतवेतालजातयः ।
यथायोगं विधातव्या सर्वे सर्वेष्टवास्तुके ॥२९०॥
एवं संक्षेपतः प्रोक्तं प्रतिमालक्षणं मया ॥२९१॥
बेरमानानि
यजमानसमोत्सेधं श्रेष्ठमष्टांशहीनकम् ।
मध्यमं तु तदंशोनमधमं बेरमुच्यते ॥२९२॥
स्वरूपं वाऽथ कर्तव्यं विरूपां वा यदृच्छया ।
अथवा बाहुसीमान्तं स्तनान्तं नाभिकान्तकम् ॥२९३॥
श्रेष्ठमध्यकनिष्ठं स्यात् कुब्जवामनकं त्यजेत् ।
धामगर्भगृहस्तम्भद्वारकर्तृवशादिह ॥२९४॥
लम्बोच्चमानं मात्रैस्तु बुद्धिमान् भाजयेत् समम् ।
परिह्रत्याङ्गुलच्छेदं वृद्ध्या हान्या विचक्षणः ॥२९५॥
आयव्ययर्क्षवाराष्टयोन्यंशकशुभं नयेत्
आयव्ययौ मतौ ऋग्भिर्धनणीं च यथाक्रमम् ॥२९६॥
बेरायामं गृहीत्वाष्टनवभिस्त्रिगुणैर्ह्रते ।
द्वादशाष्टाष्टभिर्व्यासधनर्णाख्यं तु योनिकम् ॥२९७॥
आयाधिकं व्ययक्षीणं मानं तत्सम्पदां पदम् ।
योनिष्वष्टासु स्युः .................................. ॥२९८॥
सार्धस्तम्भोदयं श्रेष्ठं बेरायाममिति स्मृतम् ।
स्तम्भोच्चं वाऽथ नन्दाष्टभागोनं तद्द्विधा मतम् ॥२९९॥
तथैव बेरमानं तु विविधं समुदीरितम् ।
त्रिपञ्चरत्निभिः पङ्क्तिहस्तैः पञ्चकरैरपि ॥३००॥
श्रेष्ठमध्यकनिष्ठं च त्रिविधं प्रतिमोदयम् ।
प्रासादहस्तमानाभ्यां क्षुद्रेऽक्षुद्रे गृहे क्रमात् ॥३०१॥
एकत्रिंशाङ्गुलादूदधर्वं षडङ्गुलविवर्धनात् ।
सप्ताङ्गुलाधिकं नन्दहस्तान्तप्रतिमोदयम् ॥३०२॥
पञ्चरत्निविमानाद्या द्वादशान्तं यथाक्रमम् ।
त्रयस्त्रिम्शत्समुत्सेधं मानज्ञैः समुदीरितम् ॥३०३॥
जङ्गमबेरमानानि
सप्तषट्पञ्चभागे तु मूलबेरायतेंऽशतः ।
चतुस्त्रिद्व्यंशके वाऽपि भागेनैवायतं मतम् ॥३०४॥
जङ्गप्रतिमानां तु विशेषेण मुनीश्वरैः ।
पूजाभागसमं हीनं सार्धं वा मध्यमे भवेत् ॥३०५॥
द्विगुणं तु तदुत्सेधं जङ्गमें लिङ्गमानतः ।
पूजाभागोदयार्धं वा त्रिभागं तसमोदयम् ॥३०६॥
जङ्मप्रतिमोत्सेधं लिङ्ममानवशाद् द्विधा ।
त्रयोदशाङ्गुलोच्चादि द्विद्व्यङ्गुलविवर्धनात् ॥३०७॥
एकत्रिंशतिमात्रं तु दशधा जङ्गमोदयम् ।
त्रित्रिपञ्चाङ्गुलाद्यन्तं यत्तद्बेरं गृहे नृणाम् ॥३०८॥
अर्धार्धाङ्गुल ........................................... ।
यजमानाङ्गुलं वाऽपि गृह्णीयाद्यत्तदिष्टतः ।
क्षुद्राणां तु यवैर्वापि विप्रयोज्यमिदं तु वा ॥३०९॥
द्वारपालाः
नन्दी कालः पूर्वतो दक्षिणे स्याद्
दण्डी मुण्डी वैजयो भृङ्गिरीटी ।
प्रत्यग्गोपानन्तकावुत्तरस्यां
न्यस्तव्याः स्युर्दक्षिणादिक्रमेण ॥३१०॥
श्यामकुङ्कुमनिभेन्द्रकेन्द्रगोपोपमं सितमयूरकन्धरम् ।
पद्मनीलनिभकालसन्निभं द्वारपालवरवर्णमुच्यते ॥३११॥
दण्डं टङ्कं च खड्गं निशितशिखियुतं भिण्डिपालं च वेलं
शूलं वज्रं च शक्तिं स्फुरितशिखियुतं बिभ्रतोऽन्योन्यमेवम् ।
हस्तैर्युक्ताश्चतुर्भिस्त्रिभिरपि नयनैर्लोचनाभयमथो वा
संयुक्ताश्चोग्रदंष्ट्रा मकुटतटलसच्छूलनागाङ्किताङ्गाः ॥३१२॥
यत् सूच्यं चार्धचन्द्रं ह्यलकमलयुतं हस्तकं बिभ्रतस्ते
देहे देहेऽष्टमांशावधिकपरियुताः शान्तटङ्कावृता वा ।
देवानामेव नित्याभयभयकरवक्त्राः प्रचण्डस्वरूपाः
नानाकृत्योपयुक्ताः शशिधरभवने सालकाः शूलहस्ताः ॥३१३॥
सर्वेषां नवलातमानमुदितं तत्तलमानक्रमं
दिष्टव्यं हरदिष्टशस्त्रविषये विद्वज्जनैः शिल्पिभिः ।
सर्वे कुञ्चितपादकाश्च भवने दौवारिकाः शालिनः
ते सर्वे हरिणोज्ज्वलाः फणिगणैरुष्या यथेष्टाम्बराः ॥३१४॥
आकारवर्णवरभूषणवाहनानां
स्थानध्वजायुधनिजासनमार्गमेवम्
ब्रह्माहरीश्वरकुमारमुखामराणां
प्रोक्तं हि विश्वमखिलागमलोकनानाम् ॥३१५॥
इति मयमते वस्तुशास्त्रे प्रतिमालक्षणं नाम षट्त्रिंशोऽध्यायः