(अनुकर्मविधानम)
अथ वक्ष्ये हर्म्याणां लिङ्गानां पीठकानां च ।
प्रतिमानामन्येषां वास्तूनाम लक्षणान्तरतः ॥१॥
अनुकर्मविधं सम्यक् संक्षेपात् तत्क्रमेणैव ।
भवनजीर्णोद्धारः
भवनं भिन्नं पतितं वक्रं प्राचीनतत्त्वं च जीर्णं च ॥२॥
जातिश्छन्दविकल्पाभाससंस्थानकेभ्य इतरं च ।
यान्यप्यलक्षणानि हि तानि च तत्तल्लिङ्गभेदवशात् ॥३॥
तत्र द्रव्यैरन्यैरुत्कृष्टैर्वा नवैस्तु घटैः ।
आयाद्यथोचितं तद्विस्तारोच्चादिभिस्त्वलङ्कार्यैः ॥४॥
यानि सलक्षणकानि प्रत्यङ्गोपाङ्गदेशेषु ।
तानि च तत्तद्द्रव्यैर्हीनादीन्येव येन केनचित् ॥५॥
यावद्धनतां यान्ति यावत्सौम्यप्रयोज्यानि ।
यावत्तदेव धीमान्नवतां प्रकर्तुमिच्छति चेत् ॥६॥
तत्तद्विपुलोत्सेधे सौष्ठिककोष्ठाद्यलङ्कारैः ।
नात्येकमुदितं तत्स्वाकृत्या सर्वथा तज्ज्ञैः ॥७॥
नागरभवने नागरमुदितं स्याद्
द्राविडभवने द्राविडमुदितम् ।
वेसरभवने स्याद् वेसरं शुभदम-
र्पितभवनेऽप्यर्पितभवनम् ॥८॥
अर्पितादितरभवनेऽप्यर्पितादितरभवनम् ।
योज्यं क्रमेण विदुषा वस्तु सदा सर्वयत्नेन ॥९॥
सप्राकारविमाने सालाद्बहिर्वा बहिस्तूक्ताः ।
प्रासादे या गतयः कुरुते तद्विधिं सम्यग्गाढमथ वक्ष्ये ॥१०॥
मूलविमानसमं वा तदधिकमन्यतरं निरुतेष्टम् ।
दिक्षु समोन्नतत्त्वं विदिक्षु शेषेषु वा कुर्यात् ॥११॥
विमाननिष्क्रमं मूलाष्टमूलाब्धिहीनन्तु युक्तिवशात् ।
उत्तरतो वा पुरतः परितः सालन्तु वर्धयेद्विधिना ॥१२॥
भवने जीर्णमथ तत्कर्तव्यं चेत्तदन्यस्मिन् ।
दिक्षु चतुर्ष्वपि नेष्टं तस्य बाह्ये वस्तुविदा ॥१३॥
विपरिते तु विपत्त्यै तस्माद्युक्तक्रमेण कर्तव्यम् ।
सन्त्यज्य नष्टवस्तुगर्भविधानत् पुनः स्थाप्यम् ॥१४॥
लिङ्गजीर्णोद्धारः
पतितं स्फुटितं लिङ्गं दुस्तरपारासुवृत्तं च ।
वक्रमधोगतलिङ्गं लिङ्गादत्यूर्ध्वगतलिङ्गम् ॥१५॥
परितर्कैरुपकामं तदज्ञेन स्थापितं लिङ्गम् ।
भिन्नं ज्वलनालीढं जीर्णं सस्फोटनं तु भग्नं च ॥१६॥
चोरादिभिरुद्धृतं किंदेशं स्थानं तु दूषितैः स्पृष्टम् ।
विपरीतमयोगं यल्लिङ्गं सन्दृश्यते तु भुवि ॥१७॥
तेन सदाशिवमुदितं तज्ज्ञैर्लोकेऽपि जन्तूनाम् ।
पतिते चेत्स्थापिते लिङ्गेऽस्मिन्नज्ञेन केनापि ॥१८॥
अन्यत्सूर्यकिरणान्निहतं लिङ्गं स्थापयेत्तत्र ।
अन्त्येनान्तरितं वा श्वभ्रान्तं नैव सम्प्राप्तम् ॥१९॥
अनभीष्टमार्गतास्यं तल्लिङ्गं तुच्छमिति कथितम् ।
तत्रैव तु तल्लिङ्गं सम्यग्विद्वान् यः समीकुर्यात् ।
वक्रं च वक्रवृत्तं तल्लिङ्गं यत्तदेव तत्समितम् ॥२०॥
तल्लिङ्गं तु निमग्नं कालज्ञातं तथा वापि ।
तदधोगतमित्युक्तं तल्लिङ्गं चोद्धरेत् समितम् ॥२१॥
तल्लिङ्गं तु निमग्नं कालाज्ञातमुर्ध्वगतम् ।
तत्र स्थाप्यं पुनरपि निर्दोषकं यदिदम् ॥२२॥
सरितः स्त्रोतः पतितं नीत्वा शतदण्डमन्यस्मिन् ।
स्थाप्यं तद्दैविकविधिना शुद्धे देशे मुखं प्राग्वत् ॥२३॥
मन्त्रक्रियेतरलिङ्गं सर्वेषा लक्षणोपेतम् ।
अज्ञस्थापितमेतत्तद्योजयेद् विधिना ॥२४॥
हीनं ज्वलनालीढं जीर्णं सस्फोटकं च भग्नं च ।
लिङ्गं सार्घ्यं त्यक्त्वा पुनस्तत्स्थापयेन्नवं लिङ्गम् ॥२५॥
अधरोत्तरमज्ञानां मोहेन वाऽप्यन्यदाननयुक्तम् ।
विपरीतं त्यजेत्सहसा उचितं यन्नवमन्यत्तत्रैव स्थापयेद्विधिना ॥२६॥
अत्रोचितलक्षणं तत् शून्यं तलं तु वा चाक्षम् ।
अग्राह्यं क्षेत्रगतं यन्न तद्योग्यं सर्वथा त्याज्यम् ॥२७॥
तत्रैवान्यल्लिङ्गं नवमुचितं स्थापयेद् विधिना ।
चोरादुद्धृतकं तदन्तःपतितं चेत्पञ्चसन्धानम् ।
तत्र तदेव स्थाप्यं निर्दोषं पूर्ववद् विधिना ॥२८॥
चण्डालशूद्रकाद्यैः स्पृष्टं च लिङ्गं तर्ह्ययोग्यकं शस्तम् ।
नदीतीरं चेत् स्पृष्टं मन्दिररहितं तु तल्लिङ्गम् ॥२९॥
पूर्वस्यामुत्तरतो नीत्वान्यस्मिन् शुभे देशे ।
सुस्थापितञ्च लिङ्गं पूर्ववदेवानाय्य विधिनाऽपि ॥३०॥
बेरं वाप्येवं तत्तद्युक्त्यान्यस्मिन्नवे देशे ।
स्थाप्यं यदि निर्दोषं सर्वमनुक्तं तु तल्लिङ्गे ॥३१॥
द्वादशवर्षादूर्ध्वं शून्यत्वं याति यल्लिङ्गम् ।
तत्तन्निर्दोषं यदि नाग्राह्यमिदं वदन्ति केचिज्ज्ञाः ॥३२॥
शिलामयं तर्ह्युदके निक्षिपेत् त्वरित बुधः ।
पीठजीर्णोद्धारः
शिलादिपीठं निर्दोषं प्रयोज्यं चेत्तदेव हि ॥३३॥
ग्राह्यं ब्रह्मशिलादि स्याद् द्रव्यं पिण्डं च पूर्ववत् ।
अलक्षणं च हीनं च स्फुटितादिभिरन्वितम् ॥३४॥
सन्त्यज्य विधिना पीठं कुर्यादाकृति पूर्ववत् ।
पाषाणेनैव पाषाणे चेष्टका चेष्टकामये ॥३५॥
पूर्ववत् पतितं पूर्वं पीठं कुर्याद् यथोचितम् ।
अलाभे ह्युपले चैव वेष्टके चेष्टका भवेत् ॥३६॥
बेरजीर्णोद्धारः
बेरे शिलामये चैव वृक्षजे विकलाङ्गके ।
सन्त्यज्य सहसा बेरं स्थापयेत् पूर्ववन्नवम् ॥३७॥
मानोन्मानादुपेतं च जीर्णवत्स्फोटनादिकम् ।
बेरं त्यक्त्वान्यमत्रैव स्थापयेद् विधिना पुनः ॥३८॥
लोहजे मृण्मये बेर हस्तनासाङ्घ्रिभूषणे ।
कर्णदन्तादिहीनं तु तत्तद्द्रव्यैर्दृढीकृतम् ॥३९॥
उत्तमाङ्गविहीने तु त्यक्त्वान्यं योजयेन्नवम् ।
सामान्यविधिः
प्रासादे वाऽथ लिङ्गे वा पीठे वार्चासु सर्वदा ॥४०॥
तत्तद्द्रव्यैर्वरैर्वाऽपि कुर्याद्धीनैर्न योजयेत् ।
जीर्णे च तेन यः कर्तुमिच्छेद् द्रव्येन पण्डितः ॥४१॥
पूर्वमार्गेण निष्पाद्य समं कुर्याद् यथाविधि ।
तुल्यं हीनेऽधिकं चेष्टं सर्वदा शुभमिच्छताम् ॥४२॥
हीनं कुर्याद् वरद्रव्यैः समं वा तत्र पूर्ववत् ।
धामगृहगृहस्तम्भद्वारमानादिमानतः ॥४३॥
मृण्मयं निक्षिपेदप्सु दारुजं चाग्निना दहेत् ।
लोहजं वह्निना तत्र द्रुतं शुद्धं विगृह्यताम् ॥४४॥
ग्रामादिजीर्णोद्धारः
ग्रामादीनां गृहादीनं शालानां च विशेषतः ।
आरम्भव्यासदीर्घाभ्यां हीनं नेष्टं मुनीश्वरैः ॥४५॥
समं वा योजयेत्तस्मादधिकं वाऽपि योजयेत् ।
युक्तितः परितो वाऽपि प्राग्वद्दिशि विवर्धयेत् ॥४६॥
दक्षिणापरभागे तु वृद्धिदं वस्तुनाशनम् ।
गृहमालिकयोर्भूमिसंख्यामुपरि कल्पयेत् ।
सर्वथा नोचितं हीनं कुर्यादुक्तक्रमेण तु ॥४७॥
बालस्थापनम्
आद्यारम्भे चाथवा जीर्णभिन्ने हीनाङ्गानां कल्पने पातने च ।
लिङ्गे बेरे स्फोटनाद्यङ्गहीने कुर्याद् बालस्थापनं पीठबन्धे ॥४८॥
लयशशीलयपीठकरं चतुःत्रिचतुरंशकलाक्षकरं तु वा ।
गुणयुगेन्द्रियषण्मुनिहस्तकैः प्रवरमध्यमके तरुणालयम् ॥४९॥
भवनमूलतलाङ्घ्रिविशालतो द्विगुनकात्त्रिगुनमेति हि भित्तिः ।
भवनशेषमधोगृहमानकं तदपि मण्डपकं तु सभाऽपि वा ॥५०॥
तद्गर्भार्धं श्रेष्ठमर्धार्धकं तद्धीनं मध्येऽष्टांशके नन्दमानम् ।
लिङ्गायामं तुल्यनाहं सुवृत्तं कुर्यच्छात्राभं शिरः सूत्रहीनम् ॥५१॥
तिथिकराग्रजमादितयाङ्गुलाङ्गुलिविवर्धनया नवमानकम् ।
तरुणालिङ्गसमुन्नतकर्तृवद् गुणयुगांशकमासनवेशनम् ॥५२॥
भवति मूलतलेतरतुङ्गकं सममुतार्धकमुत्तममाधमम् ।
नवविधं वसुभागयुतेऽन्तरे तरुणलिङ्गसमुन्नतमीरितम् ॥५३॥
मुनिकराग्रजमादितयोदयं नयनमात्रविवर्धनया ततम् ।
नवविधं तरुणप्रतिमोदयं सकलकेऽसकलं च यथा कुरु ॥५४॥
अपि च मूलचलार्धकमुत्तमं तदनु धर्ममथांशमथान्तरे ।
नवविधं युगकद्वयभागिके तरुणबिम्बमुदीरितमार्चके ॥५५॥
अचलतुल्यविशालसमोदयं वरमधोङ्घ्रिविहीनकमाधमम् ।
वसुविभागयुते तु तदन्तरे नवविधं विपुलोदयमासने ॥५६॥
उपललोहकुजे तरुणालयेष्वभिहितास्तरवोऽपि च बालके ।
सरलकालजचन्दनसालका खदिरमारुदपिप्पलतिन्दुकाः ॥५७॥
यावत्संप्रार्थितार्थं तदुदयसमये मूलहर्म्यं प्रकल्प्य
तस्मिन्नुक्त्वा विधेयं सकलमपि वरं स्थापयेद् बालधाम्नि ।
द्विःषट्संवत्सरान्तं तरुणभवनकं तद्वरं नेष्टमाद्यै-
रन्येषां कर्मणां स्यात्तदवधिरधिकं सर्वदोषप्रदं तत् ॥५८॥
प्रासादानां लिङ्गपीठार्चकानां दोषाढ्यानां ग्रामवस्त्वादिकानाम् ।
एवं प्रोक्तं चानुकर्मण्यवश्यं प्रोक्तादन्यत्सर्वदोषप्रदं तत् ॥५९॥
इति मयमते वस्तुशास्त्रे अनुकर्मविधानं नाम पञ्चत्रिंशोऽध्यायः