उपपीठविधानम्
अधिष्ठानस्य चाधस्तादुपपीठं प्रयोजयेत् ।
रक्षार्थमुन्नतार्थं च शोभार्थं तत् प्रवक्ष्यते ॥१॥
समं त्रिपादमर्धं वा पञ्चांशद्द्व्यंशमेव वा ।
सपादं वाऽथ सार्धं वा पादोनद्विगुणं तु वा ॥२॥
द्विगुणं वा प्रकर्तव्यमात्ताधिष्ठानतुङ्गतः ।
उत्सेधे दशभागे तु एकेनैकेन वर्धनात् ॥३॥
पञ्चांशान्तमधिष्ठानजन्माद् बाह्ये तु निर्गमम् ।
दण्डं वा सार्धदण्डं वा द्विदण्डं वा त्रिदण्डकम् ॥४॥
अधिष्ठानजगत्या वा समं तत्पादबाह्यकम् ।
वेदिभद्रं प्रतिभद्रं सुभद्रं च त्रिधा मतम् ॥५॥
उच्छ्रये भानुभागे तु द्व्यंशेनोपानमीरितम् ।
पद्ममंशं तदूर्ध्वेऽर्धं क्षेपणं पञ्चभागिकम् ॥६॥
ग्रीवमर्धेन कम्पं स्याद् भागैकेनाम्बुजं भवेत् ।
शेषांशं वाजनं कम्पमष्टाङ्गमुपपीठकम् ॥७॥
षडङ्गं वा विधातव्यमूर्ध्वाधस्ताद् विनाम्बुजम् ।
वेदिभद्रं द्विधा प्रोक्तं सर्वहर्म्येषु योग्यकम् ॥८॥
प्रतिभद्रम्
अश्विभ्यां च द्विकैकांशैर्भानुभागाङ्गकांशकैः ।
त्र्यंशैकांशकभागैस्तु द्वाभ्यामंशेन योजयेत् ॥९॥
जन्मतो वाजनान्तं तु तुङ्गे त्रिनवभागके ।
पादुकं पङ्कजं कम्पं कण्ठमुत्तरमम्बुजम् ॥१०॥
कपोतमालिङ्गान्तादि प्रतिवाजनमुच्यते ।
प्रतिभद्रमिदं नाम्ना सर्वालङ्कारसंयुतम् ॥११॥
युग्मेशाक्षांशकांशैस्तु द्व्येकाष्टांशांशकांशकैः ।
त्र्यंशैकेनांशकैर्द्वाभ्यामेकेनात्रैव योजयेत ॥१२॥
पादुकं पङ्कजं चैवमालिङ्गान्तरितं तथा ।
प्रत्यूर्ध्वे वाजनं कण्ठमुत्तराब्जकपोतकम् ॥१३॥
आलिङ्गान्तरितं चोर्ध्वे प्रतिश्चैवार्ध्ववाजनम् ।
द्विविधं प्रतिभद्रं स्यादेकभागाधिकं ततः ॥१४॥
सुभद्रम्
त्रिःसप्तांशे तदुत्सेधे द्वाभ्यां जन्म तथाम्बुजम् ।
अर्धेन कण्ठमर्धेन पद्मद्व्यंशेन वाजनम् ॥१५॥
अर्धेनाब्जं तथा कम्पं कण्ठमष्टांशमीरितम् ।
अंशेनोत्तामर्धेन पद्मं गोपानकं त्रिभिः ॥१६॥
भागार्धमूर्ध्वकम्पं स्यादेतन्नाम्ना सुभद्रकम् ।
जन्म द्व्यशं त्रियंशेन पद्ममंशेन कन्धरम् ॥१७॥
द्वाभ्यां वाजनमेकेन कम्पमष्टांशकैर्गलम् ।
अंशेन कम्पकं द्वाभ्यां वाजनं कम्पमंशकम् ॥१८॥
सुभद्रं द्विविधं प्रोक्तं सर्वालङ्कारसंयुतम् ।
सिंहेभमकरैर्व्यालैर्भूतैः पत्रैरलंकृतम् ॥१९॥
प्रतिवक्रं झषाढ्यं स्याद् बालेनारूढमस्तकम् ।
अर्पितानर्पिते हर्म्ये सर्वत्र परिकल्पयेत् ॥२०॥
अङ्गमङ्गं प्रति प्राज्ञैर्वृद्धिर्हानिस्तथोच्यते ।
तथा मसूरकाणां तु युञ्जीयादुपपीठके ॥२१॥
आत्ताधिष्ठानतुङ्गाद् द्विगुणमथ समं सार्धमर्धं त्रिपादं
पञ्चांशद्व्यंशकं वानलसमभजिते द्व्येकमात्रोपपीठम् ।
सप्रत्यङ्गं समं चेत्तदपि च महता वाजनेनोपयुक्तं
सर्वस्निग्धान्यधस्तद् दृढतरमतिना योजितव्यं बलार्थम् ॥२२॥
इति मयमते वस्तुशास्त्रे उपपीठविधानो
नाम त्रयोदशोऽध्यायः