संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|मयमतम्‌|
अथ द्वादशोऽध्यायः

मयमतम् - अथ द्वादशोऽध्यायः

The Mayamatam is a vastusastra. Mayamatam gives indications for the selections of a proper orientation, right dimensions, and appropriate materials.


गर्भविन्यासः

तैतिलानां द्विजातीनां वर्णानां हर्म्यके गृहे ।

गर्भन्यासविधिः सम्यक् संक्षेपाद् वक्ष्यतेऽधुना ॥१॥

सर्वद्रव्यैस्तु सम्पन्नं गर्भं तत् सम्पदां पदम्।

द्रव्यहीनमसम्पन्नं गर्भं सर्वविपत्करम् ॥२॥

तस्मात् सर्वप्रयत्नेन गर्भं सम्यग् विनिक्षिपेत् ।

गर्भश्वभ्रस्य गाम्भीर्यं स्वाधिष्ठानोन्नते समम्॥३॥

चतुरस्त्रसमं कुर्यात् गर्तमिष्टकयाश्मना ।

आपूर्य सलिलं तस्य मूले सर्वमृदं क्षिपेत्॥४॥

निम्नगाह्रदसस्याद्रिवल्मीककुलिरावटे ।

हलस्थलाब्धिगोश्रृङ्गहस्तिदन्तेषु मृत्तिका ॥५॥

तदूर्ध्वं तस्य मध्ये तु पद्मकन्दं न्यसेत्पुनः ।

पूर्वे चोत्पलकन्दं च दक्षिणे कौमुदं क्षिपेत्॥६॥

सौगन्धिं पश्चिमे विद्यात्नीललोहमुदग्दिशि ।

धान्यान्यष्टौ तदूर्ध्वं तु शालिर्व्रीहिश्च कोद्रवः ॥७॥

कङ्कु मुद्गं च माषं कुलत्थं च तिलं तथा ।

प्रादक्षिण्येन शाल्यादीनीशानादिषु विन्यसेत्॥८॥

फेला

तस्योपरि निधातव्यं मञ्जूषं ताम्रनिर्मितम्।

त्रिचतुर्मात्रविस्ताराद्‌द्विद्व्यङ्गुलविवर्धनात॥९॥

पञ्चषड्‌विंशमात्रान्तं मानं द्वादश भाजने ।

समोच्चं वाऽष्टषट्‌पञ्चभागोन वा तदुच्छ्रयम्॥१०॥

एकादिद्वादशान्तानां हर्म्याणामुदितं क्रमात्।

गृहीतोच्चत्रिभागैक पादालम्बिविधानकम्॥११॥

तत्तद्धर्म्याङ्‌घ्रिविष्कम्भसमं वाष्टांशहीनकम् ।

त्रिपादं वा विशालं तत्फेलायाः प्रागिवोच्छ्रयम्॥१२॥

त्रिवर्गमण्डपाकारं वृत्तं वा चतुरस्त्रकम्।

पञ्चविंशतिकोष्ठं वा नवकोष्ठकमेव वा ॥१३॥

फेलोच्चार्धत्रिभागैकं कोष्ठभित्त्युच्छ्रयं भवेत् ।

तद्भित्तिघनतां कुर्याद् यवैर्द्वित्रिचतुष्ट्यैः ॥१४॥

उपपीठपदे देवाः पञ्चविंशति सम्मताः ।

गर्भस्थापनम्

श्वभ्रोर्ध्वभूतलं सर्वं गन्धैः पुष्पैश्च दीपकैः ॥१५॥

वासयित्वा तु पूर्वेद्युः पञ्चगव्यैस्तु भाजनम्।

प्रक्षाल्य सूत्रेरावेष्ट्य शुद्धशाल्यास्तरे शुभे ॥१६॥

स्थण्डिले चण्डितं कृत्वा मण्डूकं वाऽथ तत्परम्।

विन्यस्य देवान्‍ब्रह्मादीन् श्वेततण्डुलधारया ॥१७॥

आराध्य गन्धपुष्पाद्यैर्भुवनाधिपतिं जपेत्।

स्थपतिः कलशान् न्यस्य सर्वान्‍वस्त्रविभूषितान्॥१८॥

सुगन्धोदकसम्पूर्णान्‌गन्धपुष्पसमर्चितान्।

निष्कलङ्कानसुषिरान्‌पञ्चपञ्चैव सूत्रितान्॥१९॥

तस्य प्रदक्षिणे गन्धशालिस्थण्डिलमण्डले ।

आराध्य गन्धपुष्पाद्यैर्बलिं दत्त्वा यथाविधि ॥२०॥

भाजनाय ततः पात्रं वेष्टयेच्छ्‌वेतवाससा ।

श्वेतवस्त्रान्तरस्योर्ध्वे न्यसेद्‌ दर्भास्तरे शुचिः ॥२१॥

पीत्वा शुद्धं पयो रात्रावुपोष्याधिवसेत्ततः ।

स्थपतिः शास्त्रवित्प्राज्ञः सूत्रग्राह्यादिसेवितः ॥२२॥

धान्यादीन्यथ वस्तूनि भाजनाभ्यन्तरे न्यसेत्।

हेमराजतशुल्बैश्च शालिव्रीहिकुलत्थकान् ॥२३॥

त्रपुणा कङ्कु सीसेन माषो मुद्गोऽयसायसा ।

कोद्रवं च तिलं भाव्यं वैकृन्तेन प्रयत्नतः ॥२४॥

ईशादिषु न्यसेदेतान्यष्टदिक्षु यथाक्रमम् ।

जयन्ते जातिहिङ्गुल्यं हरितालं भृशे मतम् ॥२५॥

मनःशिला च वितथे भृङ्गराजे तु माक्षिकम् ।

राजावर्तं तु सुग्रीवे शोषे गैरिकमीरितम् ॥२६॥

अञ्जनं गणमुख्ये स्यादुदितौ दरदं विदुः ।

मध्यमे पद्मरागं तु मरीचौ विद्रुमं मतम् ॥२७॥

सविन्द्रे पुष्परागं तु वैडूर्यं स्याद्‍ विवस्वति ।

वज्रमिन्द्रजये विद्यादिन्द्रनीलं तु मित्रके ॥२८॥

रुद्रराजे महानीलं मरकतं तु महीधरे ।

मुक्तापवत्से मध्यादिपूर्वेण क्रमशो न्यसेत् ॥२९॥

विष्णुक्रान्ता त्रिशूला श्रीः सहा दूर्वा च भृङ्गकम् ।

अपामार्गेकपत्राब्जमीशादिष्वौषधान्न्यसेत् ॥३०॥

चन्दनागरुकर्पूरलवङ्गैलालताफलम् ।

तक्कोलेनाष्टगन्धांसुत जयन्तादिषु विन्यसेत् ॥३१॥

स्वस्तिकानि चतुर्दिक्षु हेमायस्ताम्ररूप्यकैः ।

सर्वेषामपि सामान्यमेतच्चिह्नैस्तु लक्ष्यते ॥३२॥

कपालशूलखट्‌वाङ्गं परशुं वृषभं तथा ।

पिनाकं हरिणं पाशं हैमं पूर्वादिषु न्यसेत् ॥३३॥

कार्तस्वरमयं चाष्टमङ्गलं तत्र पूर्ववत् ।

दर्पणं पूर्णकुम्भं च वृषभं युग्मचामरम् ॥३४॥

श्रीवत्सं स्वस्तिकं शङ्खं दीपं देवाष्टमङ्गलम् ।

स्थापकस्यानुशिष्यस्तान् स्थपतिः क्रमशो न्यसेत् ॥३५॥

आच्छाद्य भाजनं शुभ्रं पिधानेन तु निश्चल्म् ।

तमेवाराध्य गन्धाद्यैः स्नापयेत् कलशोदकैः ॥३६॥

विप्रस्वाध्यायघोषैश्च शङ्खभेर्यादिनिःस्वनैः ।

कल्याणजयघोषैश्च स्थपतिः स्थापकेन तु ॥३७॥

पुष्पकुण्डलहारादिकटकैरङ्गुलीयकैः ।

पञ्चाङ्गभूषणैर्हेमनिर्मितैश्च विभूषणैः ॥३८॥

हेमयज्ञोपवीतस्तु नववस्त्रोत्तरीयकः ।

श्वेतानुलेपनश्चैव सितपुष्पशिराः शुचिः ॥३९॥

ध्यात्वा धरातालं सर्वं दिग्द्विपेन्द्रसमन्वितम् ।

ससागरं सशैल्न्द्रमनन्तस्योपरि स्थितम् ॥४०॥

सृष्टिस्थितिलयाधारं भुवनाधिपतिं जपेत् ।

ब्रह्मादीनां च देवानां देवीनां द्वारदक्षिणे ॥४१॥

स्तम्भमूले यथायोगं गर्ते गर्भं निधापयेत् ।

होमस्तम्भे प्रतिस्तम्भे पादुकाच्च प्रतेरधः ॥४२॥

तस्मादत्युन्नतं निम्नं गर्भं सम्पद्विनाशकृत् ।

चतुरस्त्रीकृता सारवृक्षपाषाणनिर्मिता ॥४३॥

पात्रद्विगुणविस्तारा पञ्चाङ्गुलघनान्विता ।

प्रतिमाफलका या सा स्थाप्या तद्भाजनोपरि ॥४४॥

तदूर्ध्वे स्थापयेत् स्तम्भं संश्‍लिष्टचतुरिष्टकम् ।

सरत्नौषधिभिर्युक्तं वस्त्रपुष्पादिशोभितम् ॥४५॥

ईशगर्भमिदं प्रोक्तमन्येषां तु प्रवक्ष्यते ।

विष्णुगर्भम्

विष्णुधिष्ण्ये च गर्भं स्याद्धैमं चक्रं तु मध्यमे ॥४६॥

शङ्खकार्मुकदण्डं च रुक्ममायसनन्दकम् ।

धनुः शङ्खं च वामे तु खड्‍गं दण्डं च दक्षिणे ॥४७॥

प्रमुखे वैनतेयं च स्थापयेद्धेमनिर्मितम् ।

ब्रह्मगर्भम्

यज्ञोपवीतमोङ्कारं स्वस्तिकाग्निं च हेमजम् ॥४८॥

पद्मं कमण्डलुं चाक्षसूत्रदर्भाश्च ताम्रजाः ।

ब्रह्मासनपदे मध्येऽम्बुरुहं स्थाप्यमेव च ॥४९॥

तस्मिनन्मध्ये तदोङ्कारं यज्ञसूत्रावृतं तु तत् ।

स्वस्तिकानि चतुर्दिक्षु वामे स्थाप्यं कमण्डलु ॥५०॥

कुशाक्षमालां वामे तु पुरस्तीक्ष्णानलं क्षिपेत् ।

ब्रह्मगर्भमिदं प्रोक्तं ब्रह्मस्थाने प्रतिष्ठितम् ॥५१॥

षण्मुखगर्भम्

स्वस्तिकं चाक्षमालां च शक्तिं चक्रञ्च कुक्कुटम् ।

मयूरं चैव सौवर्णमयसा शक्तिमध्यमे ॥५२॥

वामे च कुक्कुतं दद्याद् दक्षिणे च मयूरकम् ।

अक्षसूत्रं पुरः स्थाप्यं गर्भं षण्मुखसद्मनि ॥५३॥

अम्बुजं चाङ्कुशं पाशं सिंहं सवितृधामके ।

वज्रेभं नन्दकं चक्रं चामरं धाम्नि वज्रिणः ॥५४॥

जाम्बूनदमयं मेषं शक्तिं पावकधामनि ।

अयसा महिषं पाशं हेमजं यमधामनि ॥५५॥

अयसा नन्दकं गर्भं निऋतेस्तु विमानके ।

वरुणे मकरं पाशं लोहजं हेमजं तथा ॥५६॥

वायोः कृष्णमृगं हैमं व्यालं तारापतेः क्षिपेत् ।

नरवाहे नरः प्रोक्तो मकरो मदनालये ॥५७॥

टङ्कं दन्ताक्षमाला च विघ्नेशावासगर्भके ।

ओङ्कारं वक्रदण्डं च सौवर्णं चार्यकस्य तु ॥५८॥

अश्वत्थं करकं सिंहं छत्रं स्वर्णेन कारयेत् ।

अश्वत्थः पुरतः स्थाप्यश्छत्रं तस्योपरि स्थितम् ॥५९॥

कुण्दिकापरभागे तु केसरी दक्षिणे भवेत् ।

सौगते धामके गर्भं श्रीवत्साशोकसिंहकम् ॥६०॥

कमण्डल्वक्षमाला च शिखिपिच्छं तु हेमजम् ।

त्रिच्छत्रं करकं तालवृन्तं रुक्ममयं भवेत् ॥६१॥

वृक्षस्तु पुरतः स्थप्यश्छत्रं तस्योपरि स्थितम् ।

पिच्छं दक्षिणभागेऽक्शमाला वामे तु कुण्डिका ॥६२॥

श्रीरूपं मध्यमे स्थाप्यं केसरी तत्र विन्यसेत् ।

अपरे करकं तालवृन्तं गर्भो जिनालये ॥६३॥

शुक्रं चक्रं च हैमं तु सिंहं शङ्खं च राजतम् ।

मृगं ताम्रमयञ्चैव कृष्णलोहेन नन्दकम् ॥६४॥

एवं दुर्गाविमाने तु गर्भं कुर्यद् विचक्षणः ।

खट्‌वाङ्गं नन्दकं शक्तिं क्षेत्रपालस्य हेमजम् ॥६५॥

पद्मं लक्ष्म्याः सरस्वत्या ओङ्कारं च त्रिवर्णकम् ।

ध्वाङ्‍क्षकेतूत्पलं हैमं ज्येष्ठाकोष्ठस्य गर्भके ॥६६॥

कपालशूलघण्टाभिः प्रेतान् कालीगृहे न्यसेत् ।

हंसोक्षशिखितार्क्ष्यांश्च सिंहेभप्रेतरूपकान् ॥६७॥

जाम्बूनदमयान् मातृकोष्ठकेषु निधापयेत् ।

पद्माक्षसूत्रकं दीपं रोहिणीगृहगर्भके ॥६८॥

दर्पणं चाक्षमालां च पार्वतीभवने विदुः ।

पद्माक्षसूत्रकं पूर्णकुम्भं मोहिनिधामनि ॥६९॥

छत्रध्वजपताकाश्च सचिह्नैः सह वाहनैः ।

अनुक्तानां च देवानां देवीनां गर्भमिष्यते ॥७०॥

मानुषहर्म्यगर्भकम्

द्विजातीनां तु वर्णानां जातिगर्भो विधीयते ।

करकं दन्तकाष्ठ च शुल्बं हेममयं भवेत् ॥७१॥

यज्ञोपवीतं यज्ञाग्निं यज्ञभाण्डं च राजतम् ।

यज्ञोपवीतमध्यस्थं यज्ञभाण्डं च दक्षिणे ॥७२॥

वामे तु करकं काष्ठमनलं पुरतो भवेत ।

विप्रगर्भमिदं प्रोक्तं स्वस्तिकानि चतुर्दिशि ॥७३॥

मध्ये हेममयं चक्रं वामे शङ्खं च राजतम् ।

कार्मुकं तम्रजं वामे दण्डो रुमेण दक्षिणे ॥७४॥

खड्‌गं चायसमेव स्याच्चतुर्नागाश्चतुर्दिशि ।

हैममायसकं ताम्रं आजतं क्रमशो न्यसेत् ॥७५॥

मध्ये श्रीरुपकं हैमं स्वस्तिकानि चतुर्दिशि ।

छत्रध्वजपताकाश्च दण्डं वै शासनात्मकम् ॥७६॥

राजद्वारे भवेद् गर्भमन्येषां तु यथार्हकम् ।

वार्ष्णेयकानां गर्भं चेद् विजयद्वारदक्षिणे ॥७७॥

अयसा हलजिह्वां च शङ्खं ताम्रकुलीरकम् ।

पञ्चायुधं सीसमाषं हयं वृषगजौ हरिम् ॥७८॥

अर्काग्निवरुणेन्दूतां स्थाने सम्यङ् निवेशयेत् ।

चत्वारो धेनुकाः श्वेतनिर्मिताश्च चतुर्दिशि ॥७९॥

गोपुङ्गवं च पुरतो वैश्यानां प्रविधीयते ।

बीजपात्रं हलं हैमं ताम्रजं युगमिष्यते ॥८०॥

रजतेन पशुं विद्याच्चतुर्दिक्षु विनिक्षिपेत् ।

मध्ये गोपुङ्गवं चैव तन्निरीक्ष्य युगं पुनः ॥८१॥

हलं दक्षिणभागे तु वामांशे बीजपात्रकम् ।

बीजं हिरण्यमयं शूद्रगर्भं वैश्ये च सम्मतम् ॥८२॥

गृहाणां गृहगर्भं च जातिगर्भं विमिश्रतम् ।

अनेकभूमियुक्तानि यानि वासगृहाणि च ॥८३॥

पुष्पदन्ते च भल्लाटे महेन्द्रे च गृहक्षते ।

दक्षिणे नेत्रभित्तौ तु सौम्यादौ तु चतुर्गृहे ॥८४॥

द्वारप्रदक्षिणे स्तम्भे योगे वाऽपि विधीयते ।

स्थाली तदुपधानं च दार्विकं तण्डुलं खजम् ॥८५॥

गलक्यं दन्तकाष्ठाग्निं कृष्णं लोहं महानसे ।

दक्षिणे भवने गर्भः कुम्भः शाल्युदपूरितः ॥८६॥

धनसद्मनि गर्भस्तु सार्गलं कुञ्चिकं भवेत् ।

पर्यङ्कदीपशयनं गर्भं विद्यात् सुखालये ॥८७॥

येन यत् कर्म निष्पाद्यं तेन तद्‌गृहगर्भकम् ।

यानि यस्य स्वचिह्नानि तानि तस्य निधापयेत् ॥८८॥

सभाप्रपामण्डपेषु कर्णपादे प्रदक्षिणे ।

द्वितीयस्तम्भके द्वारदक्षिणाङ्‌घ्रौ तु वा न्यसेत् ॥८९॥

अयोमयगजो गर्भः कृष्णलोहेन कोद्रवः ।

लक्ष्मी सरस्वती हेमां पात्रमध्ये तु विन्यसेत् ॥९०॥

गर्भो नाट्यसभायां च प्रक्षिपेत् कुटिकामुखे ।

मण्डितस्तम्भमूले वाऽप्युभयोरपि चेष्यते ॥९१॥

आतोद्यानि च सर्वाणि सर्वलोहमयानि च ।

श्रीवत्सं पङ्कजं पूर्णकुम्भ हेमजमिष्यते ॥९२॥

हेमगर्भसभागर्भो द्वारस्तम्भे विधीयते ।

पूर्वोक्ते कर्णपादे वा गर्भस्थानं तु तस्य वै ॥९३॥

तुलाभाराभिषेकार्थं मण्डपे वाऽथ तद्‍ भवेत् ।

पाषण्ड्याश्रमिणां वासे तत्तच्चिह्नं तु गर्भकम् ॥९४॥

जात्यन्तराणां सर्वेषां तत्त्च्चिह्नं प्रयोजयेत् ।

गृहिणी गर्भिणी कर्तुर्यदि गर्भं न निक्षिपेत् ॥९५॥

रत्नानि धातवश्चैव स्वल्पविस्तारभाजने ।

तद्दैवस्थानभावज्ञैर्न्यस्तव्यानीह तानि वै ॥९६॥

द्वारप्रदक्षिणे स्थाने स्वामिस्थानस्य दक्षिणे ।

अभ्यन्तरमुखं गर्भं वस्तुमध्यं बहिर्मुखम् ॥९७॥

गर्भमन्त्रः

इदं मन्त्रं समुच्चार्य प्राङ्‍मुखो वाऽप्युदङ्‌मुखः ।

पूर्वोक्तविधिनां सम्यक् स्थापयेत् स्थपतिः क्रमात् ॥९८॥

स्वरदेवताभ्यो मन्त्रेभ्यः स्वाहा । सर्वरत्नाधिपतये स्वाहा । उत्तमप्रजापतये सत्यवादिने नमः ।

श्रियै नमः । सरस्वत्यै नमः । वैवस्वताय नमः । वज्रपाणये नमः । अभिनवसर्वविघ्नप्रशमनाय नमः । नमो वह्नये स्वाहा ॥

वाप्यादिगर्भः

वापीकूपतटाके तु दीर्घिकासेतुबन्धने ।

मत्स्यमण्डूककुलिरं सर्पं वै शिंशुमारकम् ॥९९॥

हेमजं तदुदग्भागे पूर्वायां दिशि वाथवा ।

पुरुषाञ्जलिमात्रे तु श्वभ्रे पात्रं निधापयेत् ॥१००॥

प्रथमेष्टका

सुमुहूर्ते सुलग्ने च होराकरणसंयुते ।

रात्रौ गर्भमहन्येव स्थापयेच्चतुरिष्टकम् ॥१०१॥

यद्यत् स्थानं तु गर्भस्य तत्रस्था प्रथमेष्टका ।

मृत्कन्दधान्यसल्लोहधातुरत्नौषधैः सह ॥१०२॥

गन्धद्रव्यैश्च बीजैश्च विधेया प्रथमेष्टका ।

शैले शिलामयी प्रोक्ता चैष्टके चेष्टकाः शुभाः ॥१०३॥

गर्भभाजनविस्तारा विस्तारद्विगुणायता ।

विपुलार्धघना सर्वहर्म्यके चतुरिष्टका ॥१०४॥

अष्टौ द्वादश वा ग्राह्या मध्यमे तु महत्तरे ।

ऋजुदीर्घाङ्गुलिन्यासा समसंख्या हि पुंस्त्वभाक् ॥१०५॥

स्त्रीत्वभागोजसंख्या सा वक्ररेखं नपुंसकम् ।

सुस्निग्धाः समग्धाश्च सुस्वनास्ताः सुशोभनाः ॥१०६॥

पुंस्त्रीनपुंसके हर्म्ये योजयेत् ता यथाक्रमम् ।

यथा जाता पुरा तत्र स्थापनीया तथा भवेत् ॥१०७॥

शिला दोषविनिर्मुक्ता बिन्दुरेखादिवर्जिता ।

आदावेव तु कर्तव्या झषाले प्रथमेष्टका ॥१०८॥

निखाताङ्‌घ्रौ विमाने तु न्यस्तव्या गर्भमूर्धनि ।

तत्पूर्वदक्षिणे पूर्वं त्रिकोणेषु प्रदक्षिणम् ॥१०९॥

देवादीनां द्विजातीनाम स्थापयेत् स्थपतिः क्रमात् ।

केचिच्छ्‍वभ्रस्य गम्भीरे पञ्चद्व्यंशावसानके ॥११०॥

इष्टकादिचिते खाते वदन्ति प्रथमेष्टकाम् ।

पूर्ववद् वरवेषाढ्यो युक्त्या तत्र निधापयेत् ॥१११॥

रूपाण्यप्यौषधानि द्युतिमणिकनकाद्यष्टलोहानि धातून्

पात्रे न्यस्याञ्जनादीन्‌ शुभयुतदिनपक्षर्क्षहोरामुहूर्ते ।

मृत्कन्दान्यष्टधान्यानि च निशि मतिमान् श्वभ्रमूले निधाय

क्षिप्त्वा पात्राय युक्त्या बलिमथ सलिले स्थापयेद् गर्भमादौ ॥११२॥

अमरनरविमानद्वारयोगाङ्‌‍घ्रिमूले

विधिवदविकलाङ्गं गर्भमदौ निधाय ।

तदुपरि विधिनास्मिन् योगमङ्‌घ्रिं च पूर्वं

सकलविभवयुक्तं स्थापयेद् गर्भमूर्ध्नि ॥११३॥

पञ्चपञ्चकलशोदकपूतौ श्वेतचन्दननवाम्बरयुक्तौ ।

सर्वमङ्गलविचित्रतरौ तौ स्थापयेत्स्थपतिरङ्‌घ्रिकयोगौ ॥११४॥

इति मयमते वस्तुशास्त्रे गर्भविन्यासो

नाम द्वादशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP