(मण्डपसभाविधानम्)
मण्डपविधानम्
देवानां द्विजभूमीशवैश्यानाम शूद्रजन्मनाम् ।
तत्तद्योग्यं यथायुक्त्या मण्डपं प्रविधीयते ॥१॥
मण्डपयोग्यदेशाः
प्रासादाभिमुखे पुण्यक्षेत्रे वारामके शुभे ।
ग्रामादिवस्तुमध्ये च चतुर्दिक्षु विदिक्ष्वपि ॥२॥
बाह्याब्यन्तरतो वाऽपि गृहाणां मध्यमे मुखे ।
मण्डपप्रयोजनम्
वासार्थमण्डपं चैव यागमण्डपमेव च ॥३॥
अभिषेकादियोग्यं च नृत्तमण्डपकं तथा ।
वैवाहिकं च मैत्रं च तथोपनयनार्हकम् ॥४॥
आस्थानमण्डपं चैव बलालोकनमण्डपम्
सन्धिकार्यार्हकं क्षौरं भुक्तिकर्मसुखान्वितम् ॥५॥
मण्डपनामानि
तेषां क्रमेण नामानि वक्ष्यन्ते विधिनाऽधुना ।
मेरुकं विजयं सिद्धं पद्मकं भद्रकं शिवम् ॥६॥
वेदं चालङ्कृतं दर्भं कौशिकं कुलधारिणम् ।
सुखाङ्गं सौख्यकं गर्भं माल्यं माल्याद्भुतं तथा ॥७॥
देवद्विजनरेन्द्राणां द्विरष्टचतुरस्त्रकम् ।
धनं सुभूषणाख्यं चाप्याहल्यं स्त्रुगकं तथा ॥८॥
कोणं च खर्वटं चैव श्रीरूपाख्यं च मङ्गलम् ।
एतान्यष्टौ सुरादीनां नृपाणामायतास्त्रकम् ॥९॥
मार्गं सौभद्रकंचैव सुन्दराख्यं तु मण्डपम् ।
साधारणं च सौख्यं च तथैवेश्वरकान्तकम् ॥१०॥
श्रीभद्रं सर्वतोभद्रमित्यष्टौ वैश्यशूद्रयोः ।
भक्तिमानं तथा पादायामं पादविशालकम् ॥११॥
अधिष्ठानं तदाधारं प्रपां मध्यमरङ्गकम् ।
अलङ्कारं क्रमाद् वक्ष्ये स्तम्भपक्षं तदाकृतम् ॥१२॥
भक्तिमानम्
सार्धहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ।
पञ्चहस्तावधिर्यावत् त्रिः पञ्चैवाङ्घ्रिकान्तकम् ॥१३॥
अथ विस्तारभक्त्यैषामायामं प्रविधास्यते ।
एकद्वित्रिचतुश्पञ्चभागे भक्त्यन्तरे कृते ॥१४॥
एकभागेन वृद्धिः स्यादायामं स्वविशालतः ।
अथ स्वभक्तिविसृतात्त्रिमात्रर्द्ध्या करान्ततः ॥१५॥
आयाममष्टहा प्रोक्तं तेन मानेन योजयेत् ।
सायतं चापि तत् सर्वं तन्नाम्नैव प्रपद्यते ॥१६॥
स्तम्भमानम्
सार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात् ।
अष्टहस्तान्तमङ्घ्रयुच्चं त्रयोविंशत्प्रमाणकम् ॥१७॥
त्रित्र्यङ्गुलविवृद्ध्या वा स्तम्भोत्सेधाः प्रकीर्तिताः ।
अष्टाङ्गुलं समारभ्यैवार्धाङ्गुलवर्धनात् ॥१८॥
नन्दपङ्क्त्यङ्गुलं यावत् संख्यया पूर्ववत्ततिः ।
पादोच्चैरपि रुद्रांशधर्मनन्दाष्टभाजिते ॥१९॥
मूलतारं तु भागेन तत्तद्भागोनमग्रतः ।
अधिष्ठानोत्सेधः
पादोच्चार्धमधिष्ठानं सामान्यं सर्ववस्तुषु ॥२०॥
पादोच्चे पञ्चभागे तु द्विभागोच्चं तु वा तलम् ।
स्तम्भोत्सेधत्रिभागैकं वा मसूरकतुङ्गकम् ॥२१॥
उपपीठोत्सेधः
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ।
अधिष्ठानसमोच्चं वा द्विगुणं त्रिगुणं तु वा ॥२२॥
उपपीठविधाने तु यदुक्तं तेन वोन्नतम् ।
उपपीठसमुत्सेधं यथायुक्ति यथारुचि ॥२३॥
उपपीठतलस्तम्भप्रस्तरालंकृतिक्रमम् ।
प्राग्वदेव समुद्दिष्टं शेषं युक्त्या समाचरेत् ॥२४॥
मण्डपलक्षणम्
अधिष्ठानोपरिस्तम्भं प्रस्तरं च त्रिवर्गकम् ।
कपोतप्रतिसंयुक्तं यत्तन्मण्डपमिष्यते ॥२५॥
मण्डपशब्दार्थः
मण्डं सुभूषणं तं पातीति मण्डपमिष्यते ।
प्रपालक्षणम्
सामान्यं सर्ववर्णानां प्रपारूपं वदाम्यहम् ॥२६॥
प्रपारूपाङ्गपादान्ते चोत्तरादूर्ध्ववंशकम् ।
प्राग्वंशमनुवंशं च नालिकेरदलादिभिः ॥२७॥
अन्यैरपि तथा पत्रैर्द्रव्यैः प्रच्छादिता प्रपा ।
प्राग्वदेवाङ्घ्रिकायामं चतुःषडष्टदशाङ्गुलम् ॥२८॥
पादविष्कम्भमेतेषां प्रमाणं सारदारुजम् ।
त्वक्सारं च यथालाभं तथा तत्र प्रयोजयेत् ॥२९॥
पादोच्चे पङ्क्तिनन्दाष्टसप्तषट्पञ्चभागिके ।
रङ्गलक्षणम्
वेदिकोच्चं तु भागेन मध्ये रङ्गं प्रयोजयेत् ॥३०॥
स्तम्भोत्सेधचतुर्भागे भागेनैव मसूरकम् ।
द्विभागं तलिपायामं भागेन प्रस्तरं भवेत् ॥३१॥
युग्मायुग्मद्विभक्त्यैकभक्त्या वा तद्विशालकम् ।
अष्टस्तम्भसमायुक्तं चतुःस्तम्भान्वितं तु वा ॥३२॥
प्रपादीनां तु संस्थानं यथा वा रङ्गमीरितम् ।
सर्वावयवसंयुक्तं मिश्रद्रव्यसमन्वितम् ॥३३॥
शालासभाप्रपाणां तु मण्डपानां तु मध्यमे ।
प्रतिष्ठितचतुःस्थानं त्रिमानं रङ्गमिष्यते ॥३४॥
मालिकामण्डपम्
मण्डपोपरि भूमिस्तु मालिकामण्डपं भवेत् ।
मण्डपोर्ध्वे सशिखरं द्वितलं यदि सम्भवम् ॥३५॥
मध्यस्थभूमिदेशत्वात् प्रतिमध्यं तदुच्यते ।
मेरुकम्
मेरुकं चतुरस्त्रं स्याच्चतुष्पादेकभक्तिकम् ॥३६॥
नासिकाष्टकसंयुक्तं ब्रह्मासनमिति स्मृतम् ।
विजयम्
द्विभक्तिचतुरस्त्रं तु विजयं नाम मण्डपम् ॥३७॥
अष्टपादसमायुक्तमष्टनास्या विभूषितम् ।
अधिष्ठानादिवर्गाढ्यं त्यक्तमध्यस्थपादकम् ॥३८॥
नवपादसमायुक्ता प्रपा कल्याणकारिता ।
सिद्धम्
त्रिभक्ति चतुरस्त्रं तु षोडशस्तम्भसंयुतम् ॥३९॥
नासिकाभिर्द्विरष्टाभिर्युक्तं मध्येऽङ्कणान्वितम् ।
मध्योर्ध्वकूटयुक्तं वा चतुर्द्वारसमन्वितम् ॥४०॥
चतुर्दिक्षु बहिर्द्वारे चतुस्तोरणभूषितम् ।
यागादिकर्मयोग्यं स्याद्देवद्विजमहीभृताम् ।
नाम्ना सिद्धमिति प्रोक्तं सर्वकर्मसु पूजितम् ॥४१॥
यागमण्डपम
कृत्वैकाशीतिभागान् निशितविपुलधीर्मण्डपाभ्यन्तरं त
न्मध्य वेदीनवांशा भवति हि परितस्त्रीणि भागानि मध्ये ।
अस्त्रं योन्यर्धचन्द्रं गुणभुजमपरं वै सुवृत्तं षडस्त्रं
पद्मं वस्वश्रकुण्डं सुरपतिभवनादिक्रमेणैव कुर्यात् ॥४२॥
कुण्डलक्षणम्
हस्तविस्तृतनिखातवच्चतुष्कोटिकं दिशि दिशि त्रिसूत्रकम् ।
सत्रिमेखलमथ द्विकं तु वा धातुभूतगुणमात्रकोन्नतम् ॥४३॥
व्यासमब्ध्यनलपक्षमात्रकैर्योनिमूर्ध्वत इभोष्ठवत् कुरु ।
तारदैर्घ्यकसमुद्गमं चतुःषण्मनोऽङ्गुलिइरग्निसम्मुखम् ॥४४॥
वेदबन्धनयनाङ्गुलोन्नतव्यासमेखलयुतं तु वा पुनः ।
तालगाढमथवैकमेखलं सर्वकुण्डकमकर्णयोनिकम् ॥४५॥
वृत्तसन्निभमथो तदाकृतिं वा युगेषुरसमात्रवैपुलम् ।
व्यासवेदगुणभागतुङ्गकं नाभिमब्जमिव कुण्डमध्यमे ॥४६॥
योनिकुण्डम्
न्यस्यैकांशं पञ्चभागे पुरस्तात् ।
कोणस्यार्धार्धं गृहीत्वा ततस्तत् ।
कोणं यावद् भ्रामयेत्तद्वदन्यद्
योन्याकारं स्याद् द्विसूत्रप्रयोगात् ॥४७॥
अर्धचन्द्रकुण्डम्
व्यासे धर्मांशेऽशमूर्ध्वादधस्तान्नीत्वैव ज्यासूत्रकं पातयित्वा ।
तन्मानेन भ्रामयेदर्धचन्द्रं कुण्डं युक्त्या वस्तुविद्याविधिज्ञैः ॥४८॥
त्र्यस्त्रकुण्डम्
क्षेत्रव्यासे षट्कृते चाष्टभागे
मानेनानेन त्रिसूत्रं न्यसेद्धि ।
वृत्तकुडम्
त्र्यक्षं प्रोक्तं द्विर्नावांशेऽशकं त
बाह्येन्यस्य भ्रामयेद् वृत्तकुण्डम् ॥४९॥
षट्कोणकुण्डम्
व्यासे बुद्ध्यंशेंऽशकं पार्श्वयोस्त
बाह्ये न्यस्यानेन मानेन दध्यात् ।
मत्स्यं कृत्वा युग्मयुग्मं द्विपार्श्वात्
षट्कोणं स्यात्पातयेत्सूत्रषट्कम् ॥५०॥
पद्मकुण्डम्
वृत्तं कृत्वा पूर्ववत्तस्य मध्ये
वृत्तं भ्राम्यं यत्र यन्मध्यतस्तत् ।
पद्मस्याकारं यथा कर्णिकादीन्
कुर्याद्विद्वान् पद्मकुण्डं क्रमेण ॥५१॥
अष्टास्त्रकुण्डम्
क्षेत्रव्यासे षट्चतुर्भागिकेऽस्मिन्
भागं बाह्ये न्यस्य सूत्रं समन्तात् ।
कोणस्यार्धं कोणकाभ्यां तु लेख्यं
ह्यष्टास्त्रंस्यादष्टसूत्रप्रयोगात् ॥५२॥
सप्तास्त्रकुण्डम्
तारे पङ्क्त्यंशेऽशकं न्यस्य बाह्ये वृत्तं भ्राम्यं क्षेत्रकेऽष्टाष्टभागे ।
सैकैर्वेदाष्टांशकैः पट्टदैर्घ्यं सप्तास्त्रं स्यात् सप्तसूत्रप्रयोगात् ॥५३॥
पञ्चास्रकुण्डम्
व्यासे सप्तांशेऽशकं न्यस्य बाह्ये वृत्तं भ्राम्यं क्षेत्रतारे युगांशे ।
पट्टायामं त्रिप्रभागैरनेन पञ्चास्त्रं स्यात् पञ्चसूत्रप्रयोगात् ॥५४॥
तत्तद्धेयोपात्तभागेषु तत्तद्भागं कृत्वा
प्रागिवैकैकभागे
न्यूनाधिक्येनास्त्रनाहस्य तुल्यं युक्त्या धीमान्
योजयेत्सर्वकुण्डम् ५५॥
भूते साङ्घ्रित्रिबीजं मुनिषु च नयनं षोडशेष्वंशयुक्तं
सत्र्यङ्घ्र्येकं नवांशे शिवपदविहिते सार्धकं सैकभानौ ।
साङ्घ्र्येकं बीजमेवोदितमथ तिथिके षोडशांशैकहीनं
सप्ताधिक्ये दशांशे नवदशपदकेऽष्टांशहीनं क्रमेण ॥५६॥
सिद्धम्
तदेव धाम्नामग्रे तु कर्तव्यं चेन्मसूरकम् ॥५७॥
स्तम्भप्रस्तरवर्गं च प्रासादाङ्गसमं मतम् ।
एकद्विद्वारयुक्तं वा कुड्यं कुम्भलतान्वितम् ॥५८॥
एकद्वित्रिगुणस्तम्भव्यासं मध्ये तु भद्रकम् ।
तोरणाढ्यं सुरोपेतसर्वावयवशोभितम् ॥५९॥
धाम्नस्तु भित्तिविष्कम्भसमं वार्धार्धहीनकम् ।
त्रिभागैकविहीनं तद्भित्तिविष्कम्भमिष्यते ॥६०॥
सान्तरालं सवेशं च सर्वेषां सद्मनां मुखे ।
पद्मकम्
चतुसस्त्रं चतुर्भक्त्या चतुर्द्वारसमन्वितम् ॥६१॥
मुखेऽमुखे द्विभक्त्यैकभक्त्या विस्तारनिर्गमम् ।
मध्यमस्तम्भकं त्यक्त्वैवोर्ध्वकूटं द्विभक्तिकम् ॥६२॥
षट्त्रिंशत्पादसंयुक्तं चतुस्सप्ताल्पनासिकम् ।
सोपानं स्याच्चतुर्दिक्षु लाङ्गलाकारभित्तिकम् ॥६३॥
पञ्जरैरष्टभिर्युक्तं पद्मकं पद्मकप्रभम् ।
स्नानार्थं तैतिलानां तु प्रासादाभिमुखे मतम् ॥६४॥
तदेवैकाननोपेतं मध्याङ्गणसमन्वितम् ।
यागादिकर्मयोग्यं स्यादिष्टतो दिशि वारणम् ॥६५॥
भद्रकम्
भद्रकं पञ्चभागेन चतुरस्त्रसमाकृति ।
मध्ये कूटं त्रिभागेन परितोंऽशेन मण्डपम् ॥६६॥
द्वात्रिंशत्पादसंयुक्तं चतुर्विंशतिनासिकम् ।
पञ्जरैरष्टभिर्युक्तं कुड्यं कुम्भलतान्वितम् ॥६७॥
चतुर्दिक्षु चतुर्द्वारं कर्णे लाङ्गलाभित्तिकम् ।
मध्यमेऽङ्गणयुक्तं वा त्रिभक्त्या विस्तृताङ्घ्रिकम् ॥६८॥
धाम्नः स्थलसमं तस्य पङ्क्त्यष्टांशोनमेव वा ।
नृत्तमण्डपमेतत् स्यात् स्नानार्थं वा तदेव हि ॥६९॥
शिवम्
षड्भक्ति चतुरस्त्राभं मध्येऽष्टस्तम्भकूटकम् ।
द्विभक्तिविस्तृतं चैकभक्त्या निष्क्रान्तवक्रकम् ॥७०॥
षष्यङ्घ्रिकसमायुक्तं त्यक्तमध्यस्थपादकम् ।
चतुर्विंशतिनास्यङ्गं सर्वालङ्कारंसंयुतम् ॥७१॥
शिवाख्यं मण्डपं सर्ववासे योग्यं सनातनम् ।
वेदम्
सप्तांशचतुरस्त्राभं षष्ट्यङ्घ्रिकसमावृतम् ॥७२॥
नवभागेन तन्मध्ये कूटं वा मण्डिताङ्गणम् ।
सद्वात्रिंशातिनास्यङ्गं चतुर्दिशि सवारणम् ॥७३॥
त्रिभागैकांशविस्तारनिर्गमं मुखभद्रकम् ।
मध्यरङ्गसमोपेतमिष्टदिग्गतभित्तिकम् ॥७४॥
आस्थानमण्डपं चैतत्तैतिलानां महीभृताम् ।
अभिषेकादिकार्येषु योग्यं वेदमिति स्मृतम् ॥७५॥
अलङ्कृतम्
अष्टभक्त्या युगास्त्रं स्यादशीतिपादसंयुतम् ।
चतुर्भागोर्ध्वकूटं तु द्विभागेन तु भद्रकम् ॥७६॥
चतुर्दिशि चतुर्द्वारं पार्श्वे सोपानसंयुतम् ।
सर्वालङ्कारसंयुक्तमलङ्कृतमिति स्मृतम् ॥७७॥
तदेव जलपादं तु ब्रह्मस्थलमितीष्यते ।
परितो वारमेकांशं द्व्यंशेनावृतमण्डपम् ॥७८॥
पूर्ववन्मुखभद्रं स्यादिष्टग्गतभद्रकम् ।
ब्रह्मस्थाने विधातव्यं ग्रामादीनां सनातनम् ॥७९॥
दर्भम्
नवभक्तियुक्तं सम्यक् पङ्क्तिपङ्क्यघ्रिकान्वितम् ।
त्र्यंशैकविस्तृतं भद्रं चतुर्द्वारसमन्वितम् ॥८०॥
सोपानं प्रमुखे तस्य कर्णे लाङ्गलभित्तिकम् ।
नवरङ्गैलङ्कुर्यात् षडष्टैवाल्पनासिकम् ॥८१॥
नवब्रह्म सुपूज्यं तद् ग्रामवेश्मादिमध्यगम् ।
सर्वालङ्कारसंयुक्तं दर्भाख्यं तन्मनोहरम् ॥८२॥
कौशिकम्
दशांशचतुरस्त्राभं सद्वादशशताङ्घ्रिकम् ।
नवकूटसमायुक्तमेकैकांशान्तरालकम् ॥८३॥
एतत् कौशिकमित्युक्तं चतुरस्त्रं तु जातिकम् ।
नन्दमेकानने भद्रं द्विमुखं भद्रकौशिकम् ॥८४॥
त्रिमुखं जयकोशं स्यात् पूर्णकोशं चतुर्मुखम् ।
अधिष्ठानाङ्घ्रिवत् कर्णे लाङ्गलाकारभित्तिकम् ॥८५॥
सर्वालङ्कारसंयुक्तं षडष्टैवाल्पनासिकम् ।
कुलधारणम्
एकादशविभागेन समं तु चतुरस्त्रकम् ॥८६॥
परितो मण्डपं तस्य बाह्ये भागेन कारयेत् ।
चतुष्कर्णे द्विभागेन चतुष्कूटसमन्वितम् ॥८७॥
चतुर्दिग्द्वित्रिभक्त्या तु विपुलायतकोष्ठकम् ।
त्रिभक्तिचतुरस्त्रं तु मध्यरङ्ग्यूर्ध्वकूटकम् ॥८८॥
कूटशालान्तरे तस्य क्रकरीकृतमार्गकम् ।
जात्यादिमुखभद्राङ्गं सर्वावयवशोभितम् ॥८९॥
ऊर्ध्वे सभाङ्गनीडाङ्गं प्रस्तरं नवबोधकम् ।
विवृतं संवृतं वापि गुह्यागुह्यागुह्यार्थचरेत् ॥९०॥
कुलधारणमित्युक्तं समं तु चतुरस्त्रकम् ।
सुखाङ्गम्
भागैर्द्वादशभिर्युक्तं समं तु चतुरस्त्रकम् ॥९१॥
अष्टदिक्षु च मध्ये तु द्विभक्त्यैवोर्ध्वकूटकम् ।
तत्तद्वाह्ये तु भागेन परितोऽलिन्द्रमिष्यते ॥९२॥
अङ्गणं वा सभास्थानं कर्णे लाङ्गलभित्तिकम् ।
चतुर्द्व्यंशेन विस्तारं निर्गमं स्याच्चतुर्दिशम् ॥९३॥
पार्श्वे सोपानसंयुक्तं पञ्जरैरष्टभिर्युतम् ।
षष्ट्युत्तरशतस्तम्भमाद्यङ्गे प्रविधीयते ॥९४॥
युक्त्या नास्यङ्गसंयुक्तं सुखाङ्गं नाम मण्डपम् ।
सौम्यम्
सौख्यं त्रयोदशांशेन चतुरस्त्रसमाकृति ॥९५॥
परितो मण्डपं द्व्यंशं भागेन क्रकरीपथम् ।
त्रिभागं मध्यरङ्ग्यर्ध्वकूट सस्थूपिनीव्रकम् ॥९६॥
चतुष्कर्णे द्विभागेन त्यक्तमध्याङ्घ्रिकूटकम् ।
दिक्षु द्वित्र्यंशविस्तारायामं कोष्ठचतुष्टयम् ॥९७॥
नन्दादिमुखभद्राङ्गमिष्टदिग्गतकुड्यकम् ।
चतुरशीतिभिर्युक्तं शतस्तम्भसमन्वितम् ॥९८॥
सर्वालङ्कारसंयुक्तं देवद्विजमहीभृताम् ।
गर्भम्
द्विःसप्तभक्तिविस्तारं समं तु चतुरस्त्रकम् ॥९९॥
द्विभक्त्या गर्भकूटं स्यादेकांशालिन्द्रमावृतम् ।
एकांशमन्तरालं स्यादप्रच्छन्नतलान्वितम् ॥१००॥
चतुष्कर्णे द्विभक्त्यैवमङ्गणं वोर्ध्वकूटकम् ।
द्विचतुर्विस्तृतायामं कोष्ठं वाङ्गणकं दिशि ॥१०१॥
तेषां बाह्ये तु भागेन परितोऽलिन्द्रमिष्यते ।
इष्टदिक्कुड्यसंयुक्तमिष्टदिग्भद्रसंयुतम् ॥१०२॥
साष्टद्विशतपादं स्यादाद्यङ्गे तु विधीयते ।
देवद्विजनरेन्द्राणां गर्भाख्यं तन्मनोहरम् ॥१०३॥
माल्यम्
त्रिःपञ्चभक्तिविस्तारं समं तु चतुरस्त्रकम् ।
त्रिभागं मध्यरङ्ग्यूर्ध्वकूटं वाङ्गणमेव वा ॥१०४॥
परितोऽलिन्द्रमंशेन भागैकैनान्तरालकम् ।
शेषं पूर्ववदुद्दिष्टं कोष्ठकं भागतोऽधिकम् ॥१०५॥
द्वात्रिंशद्द्विशतं पादमाद्यङ्गे प्रविधीयते ।
सर्वालङ्कारसंयुक्तं माल्याक्यं मण्डपं भवेत् ॥१०६॥
माल्याद्भुतम्
माल्याद्भुतं समास्त्रं तु भागैः षोडशभिर्युतम् ।
द्विभक्त्यैवोर्ध्वकूटं तु भागेनालिन्द्रमावृतम् ॥१०७॥
द्व्येकभक्त्या मुखे भद्रं कर्णे लाङ्गलिभित्तिकम् ।
पार्श्वे सोपानसंयुक्तं चित्रप्रस्तरसंयुतम् ॥१०८॥
तद्बहिर्द्व्यंशमानेन जलपादं समन्ततः ।
तद्वाह्ये तु चतुर्भक्त्या परितो मण्डपं भवेत् ॥१०९॥
द्विभक्तिचतुरस्त्राभमेकांशं व्यवधानकम् ।
द्विरष्टाङ्गणतन्मध्ये परितः प्रविधीयते ॥११०॥
कर्णे लाङ्गलकुड्यं स्यादूर्ध्वे हाराभिमण्डितम् ।
चतुर्द्विभक्तिविस्तारनिर्गमं दिक्षु भद्रकम् ॥१११॥
पार्श्वे सोपानसंयुक्तं सर्वालङ्कारसंयुतम् ।
देवद्विजनरेन्द्राणां चतुरस्त्रं द्विरष्टधा ॥११२॥
इत ऊर्ध्वं द्विपार्श्वैकवृद्ध्या द्वात्रिंशदंशकम् ।
विस्तारं चतुरस्त्राभं मण्डपं कारयेद् बुधः ॥११३॥
विवृतं संवृतं वापि कुड्यस्तम्भं प्रयोजयेत् ।
यथायुक्ति यथाशोभं तथा कुर्याद् विचक्षणः ॥११४॥
एतेषामायतास्त्राभं मण्डपं प्रविधीयते ।
धनम्
त्रिभक्तिविस्तृतं तस्माद् द्विभक्त्याधिकमायतम् ॥११५॥
पुरतो वारमेकांशं त्रिरष्टाङ्ग्घ्रिसमन्वितम् ।
विंशन्नास्यङ्गसंयुक्तं धनाख्यं तद्धनावहम् ॥११६॥
सुभूषणम्
विस्तारं चतुरंशैस्तु तस्माद् द्व्यंशाधिकायतम् ।
मण्डपं परितो भक्त्या शेषमङ्गणकं भवेत् ॥११७॥
द्विभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम् ।
चतुरष्टाङ्घ्रिसंयुक्तमाद्यङ्गेषु बहिर्बहिः ॥११८॥
सर्वालङ्कारसंयुक्तं सुभूषणमिति स्मृतम् ।
आहल्यम्
पञ्चरक्त्या विशालं तु तस्माद् द्व्यंशाधिकायतम् ॥११९॥
मण्डपं परितोंऽशेन शेषं कूटं तु वाङ्गणम् ।
त्रिभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम् ॥१२०॥
आद्यङ्गमष्टपञ्चाङ्घ्रिसंयुक्तं तद् विचित्रकम् ।
सर्वालङ्कारसंयुक्तमाहल्यं सर्वदेशिकम् ॥१२१॥
स्त्रुगाख्यम्
षड्भक्तिविस्तृतं तस्माद् द्विभक्त्याधिकमायतम् ।
चतुर्द्विभक्तिकं दैर्घ्यव्यासमध्ये सभोदयम् ॥१२२॥
परितो मण्डपं द्व्यंशमिष्टदिङ्मुखभद्रकम् ।
षष्यङ्घ्रियुतमाद्यङ्गं युक्त्या नास्यङ्गसंयुतम् ॥१२३॥
सर्वालङ्कारसंयुक्तं स्त्रुगाख्यं तन्मनोहरम् ।
कोणम्
सप्तभक्त्या विशालं तु तस्माद् द्व्यंशाधिकायतम ॥१२४॥
त्रिभक्तिविस्तृतं पञ्चभक्तिदैर्घ्यं सभाङ्गणम् ।
परितो मण्डपं द्व्यंशमिष्टदिग्गतभित्तिकम् ॥१२५॥
त्रिभक्तिविस्तृतं भागनिर्गमं मुखभद्रकम् ।
युक्त्या नास्यङ्गसंयुक्तं द्विसप्तत्यङ्घ्रिकान्वितम् ॥१२६॥
सर्वालङ्कारसंयुक्तं कोणाख्यं मण्डपं भवेत् ।
खर्वटम्
अष्टभक्त्याविशालं तु तस्माद् द्व्यंशाधिकायतम् ॥१२७॥
द्विचतुर्भागविस्तारायामं मध्ये जलस्थलम् ।
परितोऽलिन्द्रमेकांशं बाह्ये द्व्यंशेन मण्डपम् ॥१२८॥
त्यक्तमध्याङ्घ्रिसंयुक्तमिष्टदिग्गतभित्तिकम् ।
साष्टषष्ट्यङ्घ्रिसंयुक्तं पूर्ववन्मुखभद्रकम् ॥१२९॥
प्रमुखे वारमेकांशं मुखं सोपानसंयुतम् ।
नानालङ्कारसंयुक्तं सुरादीनां तु खर्वटम् ॥१३०॥
श्रीरूपम्
नवभक्तिविशालं तु तस्माद् द्व्यंशाधिकायतम् ।
एकत्र्यंशं तु विस्तारायामं मध्ये जलस्थलम् ॥१३१॥
परितोऽलिन्द्रमेकाशं बाह्ये द्व्यंशेन मण्डपम् ।
त्यक्तमध्याङ्घ्रिसंयुक्तं बाह्ये वारं तु भागतः ॥१३२॥
षण्णवत्यङ्घ्रिसंयुक्तं यथेष्टं द्वारभित्तिकम् ।
वारयुक्तमवारं वा पूर्ववन्मुखभद्रकम् ॥१३३॥
नानावयवसंयुक्तं नाम्ना श्रीरूपमिष्यते ।
मङ्गलम्
पङ्क्तिभागविशालं तु तस्माद् द्व्यंशाधिकायतम् ॥१३४॥
द्विचतुर्भागविस्तारायामं मध्ये सभोदयम् ।
परितोऽलिन्द्रमेकाशं भागेन जलपातनम् ॥१३५॥
तद्वाह्ये द्व्यंशमानेन परितो मण्डपं भवेत् ।
स्तम्भं कुड्यं मुखं भद्रं यथेष्टं परिकल्पयेत् ॥१३६॥
अथवा मध्यकूटं चाप्यलिन्द्रं चापि पूर्ववत् ।
जलस्थलं विना सर्व मण्डपं परिकल्पयेत् ॥१३७॥
द्विभक्त्या चतुरस्त्रं तु षट्कूटं पार्श्वयोर्मतम् ।
द्विचतुर्भागविस्तारदैर्घ्यं कोष्ठं मुखेऽमुखे ॥१३८॥
कर्णे लाङ्गलकुड्यं वा परितः कुड्यमेव वा ।
विवृतं संवृत वाऽपि स्तम्भं तत्रैव योजयेत् ॥१३९॥
सर्वावयवसंयुक्तं मङ्गलाख्यं तु मण्डपम् ।
अष्टावेतानि चोक्तानि देवद्विजमहीभृताम् ॥१४०॥
पूर्वोक्तचतुरस्त्रातु भक्त्यैकया विवर्धनात् ।
यावद् द्विगुणमायामं तावद् दैर्घ्यं प्रयोजयेत् ॥१४१॥
स्तम्भकुड्यादिकं सर्वमलङ्कारं च तत्ततः ।
यथारुचि यथाशोभं तथा कुर्याद् विचक्षणः ॥१४२॥
अष्टावायतयुक्तानि वक्ष्यन्ते वैश्यशूद्रयोः ।
मार्गम्
द्विभक्तिविस्तृतं चैव विस्तारद्विगुणायतम् ॥१४३॥
त्रिःपञ्चाङ्घ्रिसमायुक्तं द्व्यंशैकं मुखभद्रकम् ।
पार्श्वे सोपानसंयुक्तं नासिकाख्यैरलङ्कृतम् ॥१४४॥
इष्टदिङ्मुखसंयुक्तं मार्गाख्यं मण्डपं मतम् ।
सौभद्रम्
त्रिभक्तिविस्तृतं तस्य विस्तारद्विगुणायतम् ॥१४५॥
चतुःसप्ताङ्घ्रिसंयुक्तं भक्त्या वारं तु तन्मुखे ।
द्विभक्तिविस्तृत भक्त्या निर्गमं मुखभद्रकम् ॥१४६॥
युक्त्या नास्यङ्घ्रिसंयुक्तं सौभद्रं तन्मनोहरम् ।
सुन्दरम्
चतुर्भक्त्या विशालं तु तस्माद् द्व्यंशाधिकायतम् ॥१४७॥
द्विचतुर्विस्तृतायामं कूटं मध्ये तु वाङ्गणम् ।
द्वात्रिंशाङ्घ्रिसमायुक्तं भक्त्या तन्मुखभद्रकम् ॥१४८॥
युक्त्या नास्यङ्घ्रिसंयुक्तं सुन्दराख्यं तु मण्डपम् ।
साधारणम्
पञ्चभक्त्या विशालं तु तस्माद् वेदांशमायतम् ॥१४९॥
द्विभक्तिविस्तृतं त्र्यंशदैर्घ्यं पार्श्वेऽङ्कणद्वयम् ।
षट्पञ्चाशद् भवेत् पादं वारमेकेन तन्मुखे ॥१५०॥
त्रिभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम् ।
प्रमुखे तस्य सोपानं सर्वतः कुड्यसंयुतम् ॥१५१॥
युक्त्या नास्यङ्गसंयुक्तं साधारणमिति स्मृतम् ।
सौख्यम्
षड्भक्तिविस्तृतं तस्मात् त्रिभक्त्याधिकमायतम् ॥१५२॥
द्विपञ्चभागविस्तारायामं मध्ये सभोदयम् ।
परितो मण्डपं द्व्यंशं वारं भक्त्या तु तन्मुखे ॥१५३॥
पूर्ववन्मुखभद्रं तु नासिकाख्यैरलङ्कृतम् ।
षष्ट्यङ्घ्रिकसमायुक्तं सर्वावयवसंयुतम् ॥१५४॥
नाम्ना सौख्यमिति प्रोक्तं सर्वेषां तु सनातनम् ।
ईश्वरकान्तम्
सप्तभक्त्या विशालं तु तस्माद् वेदांशमायतम् ॥१५५॥
त्रिभागचतुरस्त्रं तु मध्ये कूटं तु वाङ्गणम् ।
तद्वाह्ये भागमानेन परितोऽलिन्द्रामिष्यते ॥१५६॥
द्विपञ्चविस्तृतायामं पार्श्वयोरङ्गणद्वयम् ।
बाह्ये मण्डपमेकाशं परितः कल्पयेद् बुधः ॥१५७॥
त्रिभक्त्यैकेन विस्तारनिर्गमं मुखभद्रकम् ।
चतुराशीतिकं पादमाद्यङ्गे प्रविधीयते ॥१५८॥
प्रमुखे वारमेकांशं नानावयवशोभितम् ।
सर्वालङ्कारसंयुक्तमेतदीश्वरकान्तकम् ॥१५९॥
श्रीभद्रम्
अष्टभक्त्या विशालं तु तस्मात पूर्ववदायतम् ।
द्विभक्ति चतुरस्त्रं तु मध्ये कूटं तु वाङ्गणम् ॥१६०॥
तद्वाह्ये भागमानेन परितोऽलिन्द्रमिष्यते ।
पूर्ववत् पार्श्वयोः कूटं द्व्यंशेनाधिकमायतम् ॥१६१॥
द्विभक्त्या मण्डपं बाह्ये परितः कल्पयेद् बुधः ।
चतुर्द्विभक्तिविस्तारनिर्गमं मुखभद्रकम् ॥१६२॥
दशाधिकशतस्तम्भमाद्यङ्गे प्रविधीयते ।
सर्वालङ्कारसंयुक्तं श्रीभद्रं सर्वयोग्यकम् ॥१६३॥
सर्वतोभद्रम्
नवभक्त्या विशालं तु तस्मात् पूर्ववदायतम् ।
त्रिभक्तिचतुरस्त्रं तु मध्ये कूटं तु वाङ्ग्णम् ॥१६४॥
तद्वाह्ये भागमानेन परितोऽलिन्द्रमिष्यते ।
द्विपञ्चभक्तिविस्तरदैर्घ्यं पार्श्वेऽङ्गणद्वयम् ॥१६५॥
परितो मण्डपं द्व्यंशं तद्वाह्ये योजयेद्बुधः ।
पञ्चद्व्यंशविशालायामेन भद्रं मुखेऽमुखे ॥१६६॥
त्र्यंशैकविपुलं दैर्घ्यं पार्श्वयोर्भद्रकद्वयम् ।
कर्णे लाङ्गलवत् कुड्यं विवृतस्तम्भसंयुतम् ॥१६७॥
साष्टाविंशच्छतं पादमाद्यङ्गे प्रविधीयते ।
यथायुक्ति यथायोगं तथा युञ्जीत बुद्धिमान् ॥१६८॥
सर्वतोभद्रकं नाम्ना सर्वालङ्कारसंयुतम् ।
एतान्यदि सुरादीनां योजयेत्तु विचक्षणः ॥१६९॥
मण्डपमुखायामः
मण्डपानां तु विस्तारादायामं प्रविधीयते ।
जातिरूपं तु पुर्वोक्तं छन्दमेकं द्विभक्तिकम् ॥१७०॥
विकल्पं त्र्यंशकं प्रोक्तमाभासं चतुरस्त्रकम् ।
दण्डकं स्वस्तिभद्रं च पद्मं क्रकरभद्रकम् ॥१७१॥
षण्मुखं लाङ्गलं मौलिं जातिनामानुसारतः ।
प्रपामण्डपजातिस्तु युक्तितः पादसंयुता ॥१७२॥
पुनः मण्डपभेदाः
गृहविन्यासरङ्गाङ्गं तदुक्तं गृहमण्डपम् ।
प्रासादगर्भनालीवत् सालिन्द्राङ्गविशेषतः ॥१७३॥
अधिष्ठानादिवर्गाढ्यं प्रासादाकारमण्डपम् ।
प्रासादगृहसाङ्गङ्गं गृहप्रासादमण्डपम् ॥१७४॥
मण्डपोपरि भूमिश्चेन्मालिकामण्डपं मतम् ।
इष्टकाभिः शिलाभिर्वा दारुभिर्दन्तलोहकैः ।
सर्वत्र द्रव्यजातीनां मिश्र मिश्रं विशेषितम् ॥१७५॥
जलक्रीडामण्डपम्
सायतं तु चतुरस्त्रकं जलक्रीडयान्वितमथापि मण्डपम् ।
एकभौमकमनेकभौमकं योजनीयमवनीपतीच्छया ॥१७६॥
संवृतं विवृतमङ्घ्रिभित्तिकं दिक्षु दिक्षु गतभद्ररूपकम् ।
मध्यरङ्गसहितं तु वाङ्गणं स्तम्भभित्तिकमुपर्युपर्यपि ॥१७७॥
गुह्यवारापराधिरोहणं द्वारि तत्र बहुयन्त्रकल्पकम् ।
वारोगर्भगजभूतहंसकं व्यालसिंहकपिसालभञ्जिकम् ॥१७८॥
हर्म्यमण्डपसभाभशीर्षकं कूटनीडगजतुण्डकोष्ठकम् ।
तोरणादिबहुजालकैर्युतं नासिकादिभिरलङ्कृतं पुनः ॥१७९॥
मण्डपस्य पुरतोऽथ मध्यमे वा जलाशयमनेकयन्त्रकम् ।
इष्टकाभिरुपलैरलङ्कृतं सावगूढमपगूढवारिणाम् ॥१८०॥
एवं भूपानां जलक्रीडनार्थं प्रोक्तं यत्तन्मण्डपं रम्यदेशे ।
सालङ्कारं सर्वचित्रैर्विचित्रं स्त्रीसौभाग्यारोग्यभोग्यप्रदायि ॥१८१॥
मण्डपयोग्यवृक्षाः
खदिरः खादिरो वह्निर्निम्बः सालः सिलिन्द्रकः पिशितः ।
तिन्दुकमथ राजादनहोममधूकास्तु पादपादपकाः ॥१८२॥
एतेदेवद्विजनृपयोग्याः स्युः सर्वकर्मसु वै ।
स्तम्भाकृतयः सर्वे प्रोक्ताः पूर्वोदितास्तेषाम् ॥१८३॥
पिशितस्तिन्दुकवृक्षो निम्बो राजादनो मधूकश्च ।
सिलिन्द्रः स्तम्भरुजा वैश्यानां चापि शूद्राणाम् ॥१८४॥
वृत्तं वा चतुरस्त्रं वाष्टास्त्रं षोडशास्त्रं च ।
स्तम्भाकृतयः प्रोक्तास्त्वक्साराः सर्वयोग्याः स्युः ॥१८५॥
तालं च नालिकेरं क्रमुक वेणुश्च केतकी चैव ।
इष्टशिलाभिर्वा वृक्षैर्देवद्विजमहीपानाम् ॥१८६॥
आश्रमिणामप्युदितान्यावासानि हि सर्वाणि ।
नैव शिलाभिर्वणिजां शूद्राणां वासके योग्यम् ॥१८७॥
मुखमण्डपानि
प्रासादाभिमुखे यान्यवरस्य श्रेष्ठमण्डपानि च वै ।
तानि विमानाद्यङ्गस्तम्भोत्तरवाजनानि सदृशानि ॥१८८॥
अथ मुनिवसुनन्दांशैर्धर्मांशैकांशहीनानि ।
पूर्वोदितमानानि हि सर्वाण्यङ्गानि वा विधेयानि ॥१८९॥
आख्यातं मण्डपानां तान्येवोक्तानि दिक्प्रमाणं च ।
पञ्चचतुस्त्रिद्विगुणस्तम्भव्यासेन भित्तिविष्कम्भम् ॥१९०॥
दारुस्तम्भव्यासात् पादोनं वा त्रिभागमर्धोनम् ।
कुड्यस्तम्भविशालं तेन विशालेन वा कुड्यम् ॥१९१॥
मण्डपगर्भस्थानम्
मध्याङ्गणस्य दिशि दक्षिणतोऽङ्घ्रिमूले
द्वारस्य दक्षिणयुते तलिपे तु केचित् ।
कोणे द्वितीयचरणान्वितके त्रिगर्भ-
स्थानं वदन्ति मुनयः खलु मन्डपानाम् ॥१९२॥
अलिन्द्रम्
उक्तव्यासायामभागादलिन्द्रं
पूर्वेऽपूर्वे वाऽथ भक्त्या समन्तात् ।
भक्त्या वाध्यर्धः समन्तात्तु कुर्याद्
देवानामुर्वीसुरोर्वीश्वराणाम् ॥१९३॥
मालिका
प्रासादाङ्गं मालिकाङ्गं यथावत्
कुर्यात् कुड्यं मूलकुड्योपरिष्टात् ।
पादं पादानामुपर्येव योज्य-
मेकद्वित्रीण्यत्र भौमानि युक्त्या ॥१९४॥
तत्तद्विस्तारायतांशैर्विधिज्ञै-
स्तेषां मानं पादबाह्ये तु केचित् ।
केचिद् भित्तेमध्यमं तद्वदन्ति
शालाकारं वा सभाशीर्षकाङ्गम् ॥१९५॥
यत्तत् कुर्यान्मण्डपं वासयोग्यम् ॥१९६॥
एकद्वित्रिचतुर्मुखानि च मुखे भद्राण्यभद्राणि का-
न्यूर्ध्वे कूटयुतानि मध्यकपदे रङ्गाङ्गण्याढ्यानि वै ।
सर्वाण्यायतमण्डपानि चतुरस्त्राभाणि वेदद्विज-
क्षोणीशायतने मतानि च विशां शूद्रेषु दीर्घं मतम् ॥१९७॥
सभाविधानम्
तत्र सभाभेदाः
नवानां हि सभानां तु लक्षणं वक्ष्यतेऽधुना ।
आद्यं मल्लवसन्तं तत्परं पञ्चवसन्तकम् ॥१९८॥
एकवसन्तकं चैव सर्वतोभद्रकं तथा ।
पार्वतं कूर्मकं चैव माहेन्द्रं सोमवृत्तकम् ॥१९९॥
शुकविमानकं चैव श्रीप्रतिष्ठितमेव च ।
नवैताः सायताः पञ्चसभाः शेषा युगास्त्रकाः ॥२००॥
एकद्वित्रिचतुर्भागा व्यासा आद्या नृदेवयोः ।
व्यासायाममलङ्कारं स्तम्भानां भित्तिमानकम् ॥२०१॥
प्राग्वत् सर्वमलङ्कारं दण्डिकान्तविमानवत् ।
लुपाक्रियाक्रमं सर्वं यथा शिखरलक्षणे ॥२०२॥
कूटलक्षणम्
कर्णरश्मियुता कूटसंज्ञा वेदास्त्रका सभा ।
वलक्षितस्वस्तिहीना कर्णाः कूटे च कोष्ठके ॥२०३॥
मल्लवसन्तम्
एकभक्त्या चतुःस्तम्भा लुपाकोट्येककूटकम् ।
अष्टपुच्छवलक्षं तु नाम्ना मल्लवसन्तकम् ॥२०४॥
पञ्चवसन्तकम्
द्विभक्तिचतुरं चाष्टस्तम्भदीर्घलुपान्वितम् ।
वसुस्वस्तिवलक्षं तु मूलकूटं तु मध्यकम् ॥२०५॥
चतुष्कर्णे चतुष्कूटा संज्ञा पञ्चवसन्तकम् ।
एकवसन्तकम्
त्रिभक्तिचतुरस्त्रं तु द्वादशस्तम्भसंयुतम् ॥२०६॥
द्विरष्टस्वस्तिपुच्छं तु सत्रयोदशकूटकम् ।
त्रिरष्टकवलक्षं तु स्यान्नाम्नैकवसन्तकम् ॥२०७॥
सर्वतोभद्रम्
युगभक्तियुगास्त्रं तु द्विरष्टाङ्घ्रिबहिस्ततः ।
अन्तःस्तम्भकलार्धं तु कलार्धं प्रांशुरश्मयः ॥२०८॥
अष्टद्विगुणकूटं तु त्रिरष्टस्वस्तिपुच्छकम् ।
षडष्टैववलक्षं तु मूलकूटमथैककम् ॥२०९॥
सर्वतोभद्रकं नाम्ना चतस्त्रश्चतुरस्त्रकम् ।
पार्वतकूर्मकम्
आयतास्त्रं चतुष्पञ्चभक्त्या पार्वतकूर्मकम् ॥२१०॥
अष्टादशदशाङ्घ्रि स्याद् बाह्येऽबाह्येऽष्टरश्मयः ।
द्विरष्टसप्तकूटानि षड्द्विसप्तबहिर्बहिः ॥२११॥
चतुष्षष्टिवलक्षानि चतुष्कोष्ठद्विरष्टकम् ।
माहेन्द्रम्
चतुष्षड्भक्तिविस्तारं दैर्घ्यं विंशतिपादकम् ॥२१२॥
अन्तर्द्वादशपादं स्यादन्तःकूटं तथाष्टकम् ।
बहिर्द्विरष्टकूटं स्याद् षोडशप्रांशुरश्मयः ॥२१३॥
त्रिष्टस्वस्तिकं चैव मूलकूटत्रिकं भवेत् ।
साशीतिकवलक्षं तु नवत्रिंशतिकूटकम् ॥२१४॥
अन्तराङ्घ्रिविहीनं तु भक्त्या तत्रैव योजयेत् ।
नाम्ना माहेन्द्रकं प्रोक्तं राज्ञां प्राज्ञैर्मुनीश्वरैः ॥२१५॥
सोमवृत्तम्
व्यासायाम्यं चतुःसप्तभक्त्यान्तर्मनुपादकम् ।
बाह्ये द्वाविंशतिस्तम्भं त्रिरष्टं स्वस्तिपुच्छकम् ॥२१६॥
षोडश प्रांशुरश्मिः स्यान्नवतिषड्वलक्षकम् ।
मूलान्तर्बाह्यकूटनि चतुर्दशनवद्वयम् ॥२१७॥
चतस्त्रः कोटयः कर्णधारासप्तकविग्रहाः ।
तदन्तर्द्धिनकं सोमवृत्तं नाम्ना समीरितम् ॥२१८॥
शुकविमानम्
पञ्चाष्टभक्तिविस्तारं दैर्घ्यं षड्विमंशदङ्घ्रिकम् ।
अष्टादशाङ्घ्रिकं चान्तश्चतुष्कोटिसमन्वितम् ॥२१९॥
द्वात्रिंशत् स्वस्तिकं चैव द्विसप्ततिवलक्षकम् ।
चतुष्कूटयुतं मूर्ध्नि द्विरष्टप्रांशुरश्मयः ॥२२०॥
अन्तर्बहिस्तु कूटानि त्रिरष्टैकादशद्वयम् ।
कर्णधाराष्टसंयुक्तं नाम्ना शुकविमानकम् ॥२२१॥
श्रीप्रतिष्ठितम्
पञ्चभक्त्या विशालं तु नवभक्त्या तदायतम् ।
अष्टाविंशतिगात्राणि द्वात्रिंशत् स्वस्तिपुच्छकम् ॥२२२॥
अन्तर्विंशतिकं स्तम्भं मध्यरश्मि तथैव च ।
पञ्चकूटयुतं मूर्ध्नि चतुष्कोटिसमन्वितम् ॥२२३॥
षष्ट्युत्तरशतं तत्र वलक्षं प्रविधीयते \
द्विपञ्चाशं तु कूटानि नाम्नैतच्छ्रीप्रतिष्ठितम् ॥२२४॥
तदेव व्यासायामे तु भक्तित्रयविवर्धनात् ।
चतुश्शालायतास्त्राभा द्विषड्द्विरष्टपादकाः ॥२२५॥
अन्तर्बहिस्तु भक्त्या च वारं शाला द्विभक्तिका ।
चतुर्द्विसप्ततिस्तम्भमन्तर्बाह्ये तु कीर्तितम् ॥२२६॥
प्रासादवदलङ्कृत्वा चतुर्द्वारद्विचूलिकम् ।
भूपतेः श्रीप्रतिष्ठा स्यात् सभेयं श्रीप्रतिष्ठितम् ॥२२७॥
एकैकभागवृद्ध्या तु भवत्युक्तेतरा सभा ।
छन्दं विकल्पमाभासं तत्तन्नाम्ना विधीयते ॥२२८॥
स्तम्भरश्मिवलक्षं च कूटं युक्त्या प्रयोजयेत् ।
यथारुचि यथाशोभं व्यासायामे तु भक्तयः ॥२२९॥
प्रांशुरश्मियुतं कूटं कूटं वा चतुरस्त्रकम् ।
दण्डिकानिर्गमसमो पूर्वपादोत्तरोद्गमः ॥२३०॥
तुलाश्रप्रस्तरांशेन चूलिकाभागलम्बिकम् ।
ऋजु वा स्वस्तिकं ज्ञेयं वलक्ष्याय प्रवेशिता ॥२३१॥
शिखावर्गं तथा सर्वे निष्कूटं च कचग्रहा ।
चूलिकाद्वयमध्यस्था नाम्ना स्याद्वर्णपट्टिका ॥२३२॥
वलयं त्रिगुणं व्यासाद् बाहुल्या लुपया समा ।
लुपापार्श्वद्वयारूढा वलयप्रोक्तनालिका ॥२३३॥
प्रतिचूलिकविन्यासा मुद्गरालम्बना स्थिरा ।
प्रतिलोमानुलोमाभ्यामङ्कणास्ते वलक्षका ॥२३४॥
द्विकोटिसङ्गममखे वेशगर्भप्रदक्षिणे ।
प्रथमं स्तम्भनीया च शिल्पिकर्ता विधीयते ॥२३५॥
पादबन्धमधिष्ठानं स्तम्भायामार्धमिष्यते ।
अनुक्तं यदि किञ्चित्तद्भक्त्या तत्र प्रयोजयेत् ॥२३६॥
हलाङ्गवत्कुड्ययुता सरङ्गका
विरङ्गका वाप्यथ गर्भगेहका ।
सभेति सभ्यैरुदिता सनातना
सभालयत्वादिह सभ्यमार्गणम् ॥२३७॥
इति मयमते वस्तुशास्त्रे मण्डपसभाविधानो
नाम पञ्चविंशोऽध्यायः