अक्लेशकेशवः ॥विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः ।
क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली- मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥
संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् । चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ॥
रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् ॥१॥
चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् । प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥२॥
गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् । बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥३॥
विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् । करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥४॥
जलदपटलवलदिन्दुविनन्दकचन्दनतिलकललाटम् । पीनघनस्त्तनमण्डलमर्दननिर्दयहृदयकपाटम् ॥५॥
मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् । पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥६॥
विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् । मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥७॥
श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् । हरिचरणस्मरणं प्रति संप्रति पुण्यवतामनुरूपम् ॥८॥
गणयति गुणग्रामं भामं भ्रमादपि नेहते वहति च परितोषं दोषं विमुञ्चति दूरतः ।
युवतिषु वलस्तृष्णे कृष्णे विहारिणी मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥१५॥॥