स्तनविनिहितमपि हारमुदारम् । सा मनुते कृशतनुरतिभारम् ॥
राधिका विरहे तव केशव ॥१॥
सरसमसृणमपि मलयजपङ्कम् । पश्यति विषमिव वपुषि सशङ्कम् ॥२॥
श्वसितपवनमनुपमपरिणाहम् । मदनदहनमिव वहति सदाहम् ॥३॥
दिशि दिशि किरति सजलकणजालम् । नयननलिनमिव विगलितनालम् ॥४॥
नयनविषयमपि किसलयतल्पम् । कलयति विहितहुताशविकल्पम् ॥५॥
त्यजति न पाणितलेन कपोलम् । बालशशिनमिव सायमलोलम् ॥६॥
हरिरिति हरिरिति जपति सकामम् । विरहविहितमरणेन निकामम् ॥७॥
श्रीजयदेवभणितमिति गीतम् । सुखयतु केशवपदमुपुनीतम् ॥८॥
सा रोमाञ्चति सीत्करोति विलपत्युत्क्म्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।
एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥२७॥
स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् । विमुक्तबाधां कुरुषे न राधा- मुपेन्द्र वज्रादपि दारुणोऽसि ॥२८॥
कन्दर्पज्वरसंज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।
किंतु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥२९॥
क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते । श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥३०॥
इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः