कुण्ठवैकुण्ठः ॥
अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा । तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥३७॥
पश्यति दिशि दिशि रहसि भवन्तम् । तदधरमधुरमधूनि पिबन्तम् ॥
नाथ हरे सीदति राधा वासगृहे ॥१॥
त्वदभिसरणरभसेन वलन्ती । पतति पदानि कियन्ति चलन्ती ॥२॥
विहितविशदबिसकिसलयवलया । जीवति परमिह तव रतिकलया ॥३॥
मुहुरवलोकितमण्डनलीला । मधुरिपुरहमिति भावनशीला ॥४॥
त्वरितमुपैति न कथमभिसारम् । हरिरिति वदति सखीमनुवारम् ॥५॥
श्लिष्यति चुम्बति जलधरकल्पम् । हरिरुपगत इति तिमिरमनल्पम् ॥६॥
भवति विलम्बिनि विगलितलज्जा । विलपति रोदिति वासकसज्जा ॥७॥
श्रीजयदेवकवेरिदमुदितम् । रसिकजनं तनुतामतिमुदितम् ॥८॥
विपुलपुलकपालिः स्फीतसीत्कारमन्त- र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।
तव कितव विधायामन्दकन्दर्पचिन्तां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥३८॥
अङ्गेष्वाभरणं करोति बहुशः पतेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्याकल्पविकल्पतल्परचनासंकल्पलीलाशत- व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥३९॥
इति गीतगोविन्दे वासकसज्जावर्णने कुण्ठवैकुण्ठो नाम षष्टः सर्गः ॥