मुग्धमधुसूदनः ॥
कंसारिरपि संसारवासनाबन्धशृङ्खलाम् । राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥
इतस्ततस्तामनुसृत्य राधिका- मनङ्गबाणव्रणखिन्नमानसः ॥१८॥
कृतानुतापः स् कलिन्दनन्दिनी- तटान्तकुञ्जे विषसाद माधवः ॥
मामियं चलिता विलोक्य वृतं वधूनिचयेन । सापराधतया मयापि वारितातिभयेन ॥१९॥
हरिहरि हतादरतया गता सा कुपितेव ॥१॥
किं करिष्यति किं वदिष्यति सा चिरं विरहेण । किं धनेन जनेन किं मम जीवनेन गृहेण ॥२॥
चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण । शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥३॥
तामहं हृदि संगतामनिशं भृशं रमयामि । किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥४॥
तन्वि खिन्नमसूयया हृदयं तवाकलयामि । तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥५॥
दृश्यते पुरतो गतागतमेव मे विदधासि । किं पुरेव समंभ्रमं परिरम्भणं न ददासि ॥६॥
क्षम्यतामपरं कदापि तवेदृशं न करोमि । देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥७॥
वर्णितं जयदेवकेन हरेरिदं प्रवणेन । किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥८॥
हृदि बिसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।
मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥२०॥
पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषम् ।
तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षाशुग- श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥२१॥
भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् ।
मोहं तावदयं च तन्वि तनुतां बिम्बादरो रागवन् सद्वृत्तस्तनमण्दलस्तव कथं प्राणैर्मम क्रीडति ॥२२॥
तानि स्पर्शसुखानि ते च तरलाः स्निग्ध दृशोर्विभ्रम- स्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्ती गिरां वक्रिमा ।
सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं तस्या लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥२३॥
भ्रूपल्लवं धनुरपाङ्गतरङ्गितनि बाणाः गुणः श्रवणपालिरिति स्मरेण ।
तस्यामनङ्गजयजङ्गमदेवतायाम् अस्त्राणि निर्जितजगन्ति किमर्पितानि ॥२४॥
इति श्रीगितगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥