कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।
मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे ।
निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने ॥१॥
अलिकुलगञ्जनमञ्जनकं रतिनायकसायकमोचने ।
त्वदधरचुम्बनलम्बितकज्जलमुज्ज्वलय प्रिय लोचने ॥२॥
नयनकुरङ्गतरङ्गविकासनिरासकरे श्रुतिमण्डले ।
मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले ॥३॥
भ्रमरचयं रचहयन्तमुपरि रुचिरं सुचिरं मम संमुखे ।
जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥४॥
मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।
विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे ॥५॥
मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे ।
रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे ॥६॥
सरसघने जघने मम शम्बरदारणवारणकन्दरे ।
मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे ॥७॥
श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने ।
हरिचरणस्मरणामृतकृतकलिकलुषभवज्वरखण्डने ॥८॥
रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो- र्घटय जघने काञ्चीमञ्च स्रजा कबरीभरम् ।
कलय वलयश्रेणीं पाणौ पदे कुरु नूपुरा- विति निगतितः प्रीतः पीताम्बरोऽपि तथाकरोत् ॥७१॥
यद्गान्ध्गर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गारविवेकतत्वमपि यत्काव्येषु लीलायितम् ।
तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥७२॥
श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।
पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥७३॥
इति श्रीजयदेवकृतौ गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥
इति गीतगोविन्दं समाप्तम् ॥