मन्दमुकुन्दः ॥
तामथ मन्मथखिन्नां रतिरसभिन्नां विषादसम्पन्नाम् ।
अनुचिन्तितहरिचरितां कलहान्तरितमुवाच सखी ॥५१॥
हरिरभिसरति वहति मधुपवने ।
किमपरमधिकसुखं सखि भुवने ॥
माधवे मा कुरु मानिनि मानमये ॥१॥
तालफलादपि गुरुमतिसरसम् ।
किं विफलीकुरुषे कुचकलशम् ॥२॥
कति न कथितमिदमनुपदमचिरम् ।
मा परिहर हरिमतिशयरुचिरम् ॥३॥
किमिति विषीदसि रोदिषि विकला ।
विहसति युवतिसभा तव सकला ॥४॥
सजलनलिनीदलशीतलशयने ।
हरिमवलोक्य सफलय् नयने ॥५॥
जनयसि मनसि किमिति गुरुखेदम् ।
शृणु मम वचनमनीहितभेदम् ॥६॥
हरिरुपयातु वदतु बहुमधुरम् ।
किमिति करोषि हृदयमतिविधुरम् ॥७॥
श्रीजयदेवभणितमतिललितम् ।
सुखयतु रसिकजनं हरिचरितम् ॥८॥
स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।
युक्तं तद्विपरीतकारिणि तव श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥५२॥
इति गीतगोविन्दे कलहान्तरितावर्णने मन्दमुकुन्दो नाम नवमः सर्गः ॥