साकांक्षपुण्डरीकाक्षः ॥
अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः । इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥३१॥
वहति मलयसमीरे मदनमुपनिधाय । स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥
तव विरहे वनमाली सखि सीदति ॥१॥
दहतो शिशिरमयूखे मरणमनुकरोति । पतति मदनविशिखे विलपति विकलतरोऽति ॥२॥
ध्वनति मधुपसमूहे श्रवणमपिददाति । मनसि वलितविरहे निशि निशि रुजमुपयति ॥३॥
वसति विपिनविताने त्यजति ललितधाम । लुठति धरणिशयने बहु विलपति तव नाम ॥४॥
भणति कविजयदेवे विरहिविलसितेन । मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥५॥
पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय- स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।
ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमात्रावलीं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥३२॥