अनिलतरलकुवलयनयनेन ।
तपति न सा किसलयशयनेन ॥
सखि या रमिता वनमालिना ॥१॥
विकसितसरसिजललितमुखेन ।
स्फुटति न सा मनसिजविशिखेन ॥२॥
अमृतमधुरमृदुतरवचनेन ।
ज्वलति न सा मलयजपवनेन ॥३॥
स्थलजलरुहरुचिकरचरणेन ।
लुठति न सा हिमकरकिरणेन ॥४॥
सजलजलदसमुदयरुचिरेण ।
दलति न सा हृदि चिरविरहेण ॥५॥
कनकनिकषरुचिशुचिवसनेन ।
श्वसति न सा परिजनहसनेन ॥६॥
सकलभुवनजनवरतरुणेन ।
वहति न सा रुजमतिकरुणेन ॥७॥
श्रीजयदेवभणितवचनेन ।
प्रविशतु हरिरपि हृदयमनेन ॥८॥
मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥४६॥
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।
हृदयमदये तस्मिन्नेवं पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥४७॥
बाधां विधेहि मलयानिल पञ्चबाण प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गै- रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥४८॥
इति गीतगोविन्दे विप्रलब्धावर्णने नागनारायणो नाम सप्तमः सर्गः ॥