निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् । चकितविलोकितसकलदिशा रतिरभसरसेन हसन्तम् ॥
सखि हे केशिमथनमुदारम् रमय मया सह मदनमनोरथभावितया सविकारम् ॥१॥
प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् । मृदुमधुरस्मितभाषितया शिथिलीकृतजधनदुकूलम् ॥२।
किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् । कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥३॥
अलसनिमीलितलोचनया पुलकावलिललितकपोलम् । श्रमजलसकलकलेवरया वरमदनमदादतिलोलम् ॥४॥
कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् । श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ॥५॥
चरणरणितमनिनूपुरया परिपूरितसुरतवितानम् । मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ॥६॥
रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् । निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥७॥
श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् । सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम् ॥८॥
हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लीमद्बल्लवी- वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्दस्थलम् ।
मामुद्वीक्ष्य विलक्षितं स्मितसुधामुग्धाननं कानने गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥१६॥
दुरालोकस्तोकस्तबकनवकाशोकलतिका- विकासः कासारोपवनपवनोऽपि व्यथयति ।
अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुल- प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥१७॥॥
इति गीतगोविन्दे अक्लेशकेशवो नाम द्वितीयः सर्गः ॥॥