नागरनारायणः ॥
अत्रान्तरे च कुलटाकुलवर्त्मपात- संजातपातक इव स्फुटलाञ्छनश्रीः ।
वृन्दावनान्तरमदीपयदंशुजालै- र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥४०॥
प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा । विरचितविविधविलापं सा परितापं चकारोच्चैः ॥४१॥
कथितसमयेऽपि हरिरहह न ययौ वनम् । मम विफलमिदममलरूपमपि यौवनम् ॥
यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥१॥
यदनुगमनाय निशि गहनमपि शीलितम् । तेन मम हृदयमिदमसमशरकीलितम् ॥२॥
मम मरणमेव वरमतिवितथकेतना । किमिह विषहामि विरहानलचेतना ॥३॥
मामहह विधुरयति मधुरमधुयामिनी । कापि हरिमनुभवति कृतसुकृतकामिनी ॥४॥
अहह कलयामि वलयादिमणीभूषणम् । हरिविरहदहनवहनेन बहुदूषणम् ॥५॥
कुसुमसुकुमारतनुमतनुशरलीलया । स्रगपि हृदि हन्ति मामतिविषमशीलया ॥६॥
अहमिह निवसामि नगणितवनवेतसा । स्मरति मधुसूदनो मामपि न चेतसा ॥७॥
हरिचरणशरणजयदेवकविभारती । वसतु हृदि युवतिरिव कोमलकलावती ॥८॥
तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि- र्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति ।
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥४२॥
अथागतं माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् । विशङ्क्माना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥४३॥