तत्रादौ ध्रुवानयनम् ।
नवभिर्वर्षर्मौर्सः शेषमेकगुणं कुरु । मासान् क्षिप्त्वा ततस्त्रिंशद्गुणं तत्र दिनं क्षिपेत् ॥१॥
अष्टोत्तरशतेना १०८ प्तं दिनं तदध्रुवका बुधाः । तच्च षष्टिगुणं कृत्वा तन्मध्ये घटिका क्षिपेत् ॥२॥
अष्टोत्तरशतै १०८ र्भागं लब्धाङ्के घटिका वदेत् । शेषं षष्टि ६० गुणं कृत्वा सुचेन्द्रैर्भागमाहरेत् ॥३॥
लब्धाङ्के च पलं ज्ञेयं शेषं षष्टि ६० गुणं कुरु । अष्टोत्तरशतैर्भागं लब्धं तद्विपलं वदेत् ॥४॥