निशाकरः सन्धिविपाककाले प्राप्नोति वित्तं द्विजमन्त्रिसौख्यम् ।
स्वविक्रमाच्च स्वगुणैः सुवर्ण सुगन्धद्रव्यादिषु कार्यलाभम् ॥१॥
प्रबोधकल्याणधनावराप्तिरभीष्टसिद्धिर्धनधर्मलाभम् ।
सत्साधुसंपर्ककथानुरक्तः कुलाधिमुख्यं नृपपूजितं च ॥२॥
नीचारितस्थं कृषिकस्वरुपं मित्रादिहर्त्ता दुहितुः प्रसूतिः ।
अर्थक्षयं शोकरुजादिकष्टं क्रोधोद्भवं विद्रवमृत्युकारी ॥३॥