योगिनीदशास्वामिनः ।
चन्द्रः सूर्यो वाक्पतिर्भूमिपुत्रश्चान्द्रिर्मन्दो भार्गवः सैंहिकेयः ।
एते नाथा मङ्गलान्तःप्रदिष्टाः सौम्यासौम्या नामनिष्ठाः खलानाम् ॥१॥
यः खेटोऽस्तगृहं तथारिभवनं नीचं प्रयातो यथा
वर्षेशाद्रिपुगो हि तस्य गदिता सर्वा दशा मध्यमा ।
यश्चोच्चस्थलमाश्रितः स्वभवने मूलत्रिकोणे खगो
मित्रागारमुपागतो निगदिता तस्याखिला सौख्यदा ॥२॥
पिंगलातो भवेत्सूर्यो मङ्गलातो निशाकरः । भ्रामरीतो भवेत् क्ष्माजो धन्यातोऽभूद्विधोः सुतः ॥३॥
भद्रिकातो गुरुरभूत्सिद्धातः कविसंभवः । उल्कातो भानुतनयः सङ्कटातो अभूत्तमः ॥४॥
अस्या एव दशान्ते च केतुरेव विधीयते ॥५॥

वर्षप्रवेशसमयसाधनम् ।
इष्टः शको जन्मशकेन हीनस्त्रिधा सपादो दलितश्च सार्धम् ।
समन्वितो जन्मगवारपूर्वैः स्फुटा भवेदब्दनिवेशवेला ॥६॥