गुरुः स्वसन्ध्यां लभतेऽतिसौख्यं हेमाम्बरं रत्नगजाश्वजातम् ।
धनं लभेत्पुत्रसमुच्चयं च स्वधर्मसिद्धिं द्विजदेवपूजा ॥१॥
स्वजनागमं चात्र देवेश्वरत्वं वेश्मप्रवेशस्त्वपि चार्थसिद्धिः ।
स्वजन्मसम्मानमतिप्रहर्ष भूपालसौख्यं विविधार्थलाभम् ॥२॥
विदेशनिम्ने कृतगोविवर्णैर्गुरुः स्वपाके सुकृदर्थनाशनम् ।
भूपालभङ्गं सुतकष्टरोगं करोति पाके बहुदुःखकारी ॥३॥