पीडा शत्रुनरेन्द्राणां रक्तस्त्रावो भगंदरः । अकस्माज्जायते भौमोपदशासु स्वयं कुजः ॥१॥
कलहं बन्धनं रोगं राजभङ्गं कुभोजनम् । अपमृत्युदशां राहुर्जायते शत्रुपीडितः ॥२॥
कुबुद्धिर्दूषितो रोगी देशेदेशे परिभ्रमः । भौमस्योपदशां जीवे स्वर्ण भवति मृत्तिका ॥३॥
रक्तस्त्रावोमहात्रासो बन्धनं धनपीडनम् । कोद्रवं च तिलं भोज्यं भौमस्योपदशां शनिः ॥४॥
ज्वरार्तिः सुत्दृदासीनो विलंबेन धनक्षयः । भौमस्योपदशां सौम्यस्त्वन्नवस्त्रादिनाशनः ॥५॥
जृम्भणं च शिरः पीडा रोगमृत्युनृपाद्भयम् । तन्द्रालस्यं कुभोज्यं च केतौ भूसुतमध्यगे ॥६॥
राजशत्रुभयं त्रासो वमनातीसारतो भयम् । व्रणाजीर्णामयाद्दुःखं भौमस्योपदशां सिते ॥७॥
भूमेश्च मणिलाभं च धनमित्रसुखावहम् । तीक्ष्णं वै मधुरं भुंक्ते भौमस्योपदशां रवौ ॥८॥
मौक्तिकं शुक्लवस्त्रं च लभते च सुखं यशः । क्षीरमिष्टान्नभोजी स्यात् कुजस्योपदशां शशी ॥९॥