श्रीशुक उवाच
आसीद गिरिवरो राजंस्त्रिकुट इति विश्रुतः ।
क्षीरोदेनावृतः श्रीमान्योजनायुतमुच्छ्रितः ॥१॥
तावता विस्तृतः पर्यक त्रिभिः श्रृंगैः पयोनिधिम ।
दिशः खं रोचयन्नास्ते रौप्ययसहिरण्मयैः ॥२॥
अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः ।
नानाद्रुमलतागुल्मैर्निघौषिर्निर्झराम्भसाम ॥३॥
स चावनिज्यमानांघ्रिः समान्तात पयऊर्मिभिः ।
करोति श्यामलां भुमिं हरिन्मरकताश्मभिः ॥४॥
सिद्धचारणगन्धर्वविद्याधरमहोरगैः ।
किन्नरैरपसरोभिश्च क्रीडाद्भिर्जुष्टकन्दरः ॥५॥
यत्र संगीतसन्नादैर्नददगुहममर्षया ।
अभिगर्जन्ति हरयः श्लघिनः परशंकया ॥६॥
नानारण्यपशुव्रातसंगकुलद्रोण्यलंकृतः ।
चित्रद्रुमसुरोद्यानकलकण्ठविहंगमः ॥७॥
सरित्सरोभिरच्छोदेः पुलिनैर्मणिवालुकैः ।
देवस्त्रीमज्जनामोदसौरभाम्बवनिलैर्युतः ॥८॥
तस्य द्रोण्या भगवतो वरुणस्य महात्मनः ।
उद्यानमृतुमन्नाम आक्रीडं सुरयोषिताम ॥९॥
सर्वतोऽलंकृत दिव्यैर्नित्यं पुष्पफलद्रुमैः ।
मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः ॥१०॥
चूतैः प्रियालैः पनसैराम्रैराम्रातकैरपि ।
क्रमौकैर्नालिकेरैश्च खर्जुरैब्रीजपुरकैः ॥११॥
मधुकैः सालतालैश्च तमालैरसनार्जुनैः ।
अरिष्ठोदुम्बरप्लक्षैर्वटेः किंशुकचन्दनेः ॥१२॥
पिचुमन्दैः कोविदारैः सरलैः सुरदारुभिः ।
द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलैः ॥१३॥
बिल्वैः कपिथैर्जम्बीरैर्वृतो भल्लातकादिभिः ।
तस्मिन्सरः सुविपुलं लसत्कात्र्चनपंजम ॥१४॥
कुमुदोप्तलकंह्वारशतपत्रश्रियोर्जितेम \
मत्तषटपदनिर्घुष्टं शकुन्तैश्च कलस्वनैः ॥१५॥
हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि ।
जलकुकुटकोयष्टिदाप्युहकुलकुजितम ॥१६॥
मत्स्यकच्छपस त्र्चारचलत्पद्मरजः पयः ।
कदम्बवेतसनलनीपवत्र्जुलकैर्वृतम ॥१७॥
कुन्दैः कुरबकाशोकैः शिरीषैः कुटजेगुंदैः ।
कुब्जकैः स्वर्णयुघीभिर्नापुत्रागजातिभिः ॥१८॥
मल्लिकाशतपत्रैश्चमाधवीजालकादिभिः ।
शोभितं तीरजैश्चान्यर्नित्यर्तुभिरलं द्रुमैः ॥१९॥
तत्रैकदा तद्गिरिकाननाश्रयः करेणुभिर्वारणयुथपश्चरन ।
सकण्टकान कीचकवेणुवेत्रवद विशालगुल्मं प्ररुजन्वनस्पतीन ॥२०॥
यद्गन्धामात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमॄगाः सखंगाः ।
महोरथाश्चापि भयाद द्रवन्ति सगौरकॄष्णाः शरभाश्चमर्याः ॥२१॥
वृका वराहा महिषर्क्षशल्या गोपुच्छसालावृकमर्कटाश्च ।
अन्यत्र क्षुद्रा हरिणाः शशादय श्चरन्त्यभीता यदनुग्रहेण ॥२२॥
स घर्मतत्पः करीभिः करेणुभि र्वृतो मदच्युत्कलभैरनुद्रुतः ।
गिरिं गरिम्णा परितः प्रकम्पयन निषेव्यमाणोऽलिकुलैर्मदाशनैः ॥२३॥
सरोऽनिलं पंकजरेणुरुषितं जिघ्रान्विदुरान्मदविह्ललेक्षणः ।
वृतः स्वयुथेन तृषार्दितेन तत सरोवरभ्याशमथागमद द्रुतम ॥२४॥
विग्राह्र तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुवासितम ।
पपौ निकामं निजपुष्करोदधृत मात्मानमद्धि स्नपयन्गतक्लमः ॥२५॥
स्वपुष्करेणोदधऋतशीकराम्बुभिर्निपाययन्संस्नपयन्यथा गृही ।
घृणी करेणुः कलभांश्चं दुर्मदो नाचष्ट कॄच्छ्रं कृपणोऽजमायया ॥२६॥
तं तत्र कश्चिन्नूप दैवचोदितो ग्राहो बलीयां श्छरणे रुषाग्रहीत ।
यदृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबलो विचक्रमे ॥२७॥
तथाऽऽतुरं युथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा ।
विचुक्रुशर्दीनधियोऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन ॥२८॥
नियुध्यतोरेवमिभेन्द्रनक्रयो र्विकर्षतोरन्तरतो बर्हिर्मिथः ।
समाः सहस्त्रं व्यगमन महीपते सप्राणयोश्चित्रममंसतामराः ॥२९॥
ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महानभुद व्ययः ।
विकृष्यमाणस्य जलेऽवसीदतो विपर्ययोऽभुत सकलं जलुकसः ॥३०॥
इत्थं गजेन्द्रः स यदाऽऽप संकटं प्राणस्य देही विवशो यदृच्छया ।
अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धीमथाभ्यपद्यम ॥३१॥
न मामिमे ज्ञातय आतुरं गजाः कॄतः करिण्य प्रभावन्ति मोचितुम ।
ग्राहेण पाशेन विधातुरावृतोऽप्यहं च तं यामि परं परायणम ॥३२॥
यः कश्चनेशो बलिनोऽन्तकोरगात प्रचण्डवेगादभिधावतो भृशम ।
भीतं प्रपन्नं परिपाति यद्भयान मृत्युः प्रधावत्यरणं तमीमहि ॥३३॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने द्वितीयोऽध्यायः ॥२॥