श्रीशुक उवाच
इतिवैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम ।
निशिम्य भगवान्प्रीतः प्रतिनन्द्त्द्येमब्रवीत ॥१॥
श्रीभगवानुवाच
वचस्तवैतज्जनदेव सूनृतं कुलोचितं धर्मयुतं यशस्करम ।
यस्य प्रमाणं भृगवः सांपराये पितामहः कुलवृद्धः प्रशान्तः ॥२॥
न ह्योतस्मिन्कुले कश्चिन्निः सत्त्वः कृपणः पुमान ।
प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥३॥
न सन्ति तीर्थे युधि चार्थिनार्थिताः परांगमुखा ये त्वमनस्विनो नृपाः ।
युष्मत्कुले यद्यशसमलेन प्रह्लाद उद्भाति यथोडुपः खे ॥४॥
यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम ।
प्रतिवीरं दिग्विजये नाविन्दत गदायुधः ॥५॥
यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम ।
नात्मानं जयिनं मेने तद्वीर्य भुर्यनुस्मरन ॥६॥
निशम्य तद्वधं भ्राता ह्रण्यकशिपुः पुरा ।
हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ॥७॥
तमायान्तं समालोक्य शुलपाणिं कृतान्तवत ।
चिन्तयामास कालज्ञो विष्णुर्मायाविना वरः ॥८॥
यतो यतोऽहं तत्रासौ मृत्युः प्राणभृतामिव ।
अतोऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृशः ॥९॥
एवं स निश्चित्य रिपोः शरीर माधवतो निर्विविशेऽसुरेन्द्र ।
श्वासानिलान्तर्हितसुक्ष्म्देह स्तत्प्राणरन्ध्रेण विविग्नचेताः ॥१०॥
स तन्निकेतं परिमृश्य शुन्यमपश्यामनः कुपितो ननाद ।
क्ष्मां द्यां दिशं खं विवरान्समुद्रान विष्णुं विचिन्वन न ददर्श वीरः ॥११॥
अपश्यन्निति होवच मयान्विष्टमिदं जगत ।
भ्रातृहा मे गतो नुनं यतो नावर्तते पुमान ॥१२॥
वैरानुबन्ध एतावानामृत्योरिह देहिनाम ।
अज्ञानप्रभवो मन्युरहंमानोपबृंहितः ॥१३॥
पिता प्रह्लादपुत्रस्ते तद्विद्वान्द्विजवत्सलः ।
स्वामायुर्द्विजलिंगेभ्यो देवेभ्योऽदात स याचितः ॥१४॥
भवानाचरितान्धर्मानास्थितो गृहमेधिभिः ।
ब्राह्मणैः पुर्वजैः शुरैरन्यै श्चोद्दामकीर्तिभिः ॥१५॥
तस्मात त्वत्तो महीमीषद वृणेऽहं वरदर्षभात ।
पदानि त्रीणि दैत्येन्द्र संमितानि पदा मम ॥१६॥
नान्यत ते कामये राजन्वदान्याज्जगदीश्वरात ।
नैनः प्राप्नोति वै विद्वान्यावदर्थप्रतिग्रहः ॥१७॥
बलिरुवाच
अहो ब्राह्मणदायाद वाचस्ते वृद्धसंमताः ।
त्वं बालो बालिशमतिः स्वर्थं प्रत्यबुधो यथा ॥१८॥
मां वचोभिः समाराध्य लोकानामेकमी श्वरम ।
पदयत्रंवृणीते योऽबुद्धिमान द्वीपदशुषम ॥१९॥
न पुमन मामुपव्रज्य भुयो याचितुमर्हति ।
तस्माद वृत्तिकरीं भुमिं बटो कामं प्रतीच्छ मे ॥२०॥
श्रीभगवानुवाच
यावन्तो विषत्योः प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम ।
न शक्रुवन्ति ते सर्व प्रतिपुरयितुं नृप ॥२१॥
त्रिभिः क्रमैरसंतुष्टे द्वीपेनापि न पुर्यते ।
नववर्षसमेतेन सप्तद्वीपवरेच्छया ॥२२॥
सप्तद्वीपाधिपतयो नृपा वैन्यगयादयः ।
अर्थैः कामैर्गता नान्तं तृष्णाया इति न श्रुतम ॥२३॥
यदृच्छयोपपन्नेन संतृष्टो वर्तते सुखम ।
नांसतुष्टस्त्रिभिर्लोकैरजितात्मोपसादितैः ॥२४॥
पुंसोऽयं संसृतेर्हेतुरसंतोषोऽर्थकामयोः ।
यदृच्छयोपपन्नेन संतोषो मुक्तये स्मृतः ॥२५॥
यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते ।
तत प्रशाम्यत्यसंतोषादम्भवेवाशुशुक्षणिः ॥२६॥
तस्मात त्रीणि पदान्येव वृणे त्वद वरदर्षभात ।
एतावतैव सिद्धोऽहं वित्तं यावत्प्रयोजनम ॥२७॥
श्रीशुक उवाच
इत्युक्तं स हसन्नाह वात्र्छातः प्रतिगृह्राताम ।
वामनाय महीं दातुं जग्राह जलभाजनम ॥२८॥
विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम ।
जानंश्चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः ॥२९॥
शुक्र उवाच
एष वैरोचने साक्षाद भगवान्विष्णुरव्ययः ।
कश्यपाददितेर्जातो देवानां कार्यसाधकः ॥३०॥
प्रतिश्रुतं त्वयैतस्मैः यदनर्थमजानता ।
न साधु मन्ये दैत्यांना महानुपगतोऽनयः ॥३१॥
एष ते स्थानमैश्वर्य श्रियं तेजो यशः श्रुतम ।
दास्यत्याच्छिद्य शक्राय मायामाणवको हरिः ॥३२॥
त्रिभिः क्रमैरिमाँल्लोकान्विश्वकायः क्रमिष्यति ।
सर्वस्वं विष्णवे दत्त्वा मुढ वर्तिष्यसे कथम ॥३३॥
क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः ।
खं च कायेन महता तार्तीयस्य कुतो गतिह ॥३४॥
निष्ठां ते नरके मन्ये ह्याप्रदातुः प्रतिश्रुतम ।
प्रतिश्रुतस्य योऽनीशः प्रतिपदयितुं भवान ॥३५॥
न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते ।
दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः ॥३६॥
धर्माय यशसेऽर्थाय कामाय स्वजनाय च ।
पत्र्चंधा विभजन्वित्तमिहामुत्र च मोदते ॥३७॥
अत्रापि बहवृच्चैर्गीतं श्रृणु मेऽसुरसत्तम ।
सत्यमोमिति यत प्रोक्तं यत्रेत्याहानृतं हि तत ॥३८॥
सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते ।
वृक्षेऽजीवति तन्न स्यादनृतं मुलमात्मन ॥३९॥
तद यथा वृक्ष उन्मुलः शुष्यत्यद्वर्ततेऽचिरात ।
एवं नष्टानृतः सद्य आत्मा शुष्येन्न संशयः ॥४०॥
पराग रिक्तमपुर्ण वा अक्षरं यत तदोमिति ।
यत कित्र्चिदोमिति ब्रुयात तेन रिच्येत वै पुमान ।
भिक्षवे सर्वमोंकुर्वन्नालं कामेन चात्मने ॥४१॥
अथैतत पुर्णमभ्यात्मं यच्च नेत्यनृतं वचः ।
सर्व नेत्यनृतं ब्रुयात स दुष्कीर्तिः श्वसन्मृतः ॥४२॥
स्त्रीषु नर्मविवाहे च वृत्यर्थे प्राणसंकटे ।
गोब्राह्मणार्थे हिंसायां नानृतं स्याज्जुगुप्सितम ॥४३॥
इति श्रीमद्भागवते महापुराणे पारमहस्यां संहितायामष्टमस्कन्धे वामनानुचरिते एकोनविंशोऽध्यायः ॥१९॥